छिन्नमस्ताऽष्टोत्तर-शतनामावलिः

परिचयः

श्री पार्वत्युवाच –
नाम्नां सहस्रं परमं
छिन्नमस्ताप्रियं शुभम् । कथितं भवता शम्भोस्
सद्यश् शत्रुनिकृन्तनम् ॥ १ ॥

पुनः पृच्छाम्य् अहं देव
कृपां कुरु ममोपरि ।
सहस्रनामपाठे च
अशक्तो यः पुमान् भवेत् ॥ २ ॥

तेन किं पठ्यते नाथ
तन्मे ब्रूहि कृपामय ।

श्री सदाशिव उवाच – अष्टोत्तरशतं नाम्नां
पठ्यते तेन सर्वदा ॥ ३ ॥
सहस्रनामपाठस्य
फलं प्राप्नोति निश्चितम् ।

पाठः

ओं अस्य श्रीछिन्नमस्तादेव्यष्टोत्तर-शतनाम-स्तोत्रमहामन्त्रस्य
सदाशिव ऋषिः,
अनुष्टुप् छन्दः, श्रीछिन्नमस्ता देवता।
मम सकलसिद्धि प्राप्तये जपे विनियोगः ॥

ओं छिन्नमस्ता महाविद्या
महाभीमा महोदरी ।
चण्डेश्वरी चण्डमाता
चण्डमुण्डप्रभञ्जिनी ॥ ४ ॥ ७

महाचण्डा चण्डरूपा
चण्डिका चण्डखण्डिनी । क्रोधिनी क्रोधजननी
क्रोधरूपा कुहूः कला ॥ ५ ॥ १५

कोपातुरा कोपयुता
कोप-संहार-कारिणी ।
वज्रवैरोचनी वज्रा
वज्रकल्पा च डाकिनी +++(रक्तपाः)+++ ॥ ६ ॥ २२

डाकिनी-कर्म-निरता
डाकिनी-कर्म-पूजिता ।
डाकिनी-सङ्ग-निरता
डाकिनी-प्रेम-पूरिता ॥ ७ ॥ २६

खट्वाङ्ग-धारिणी खर्वा
खड्ग-खर्पर+++(=कपाल)+++-धारिणी । प्रेतासना प्रेत-युता
प्रेत-सङ्ग-विहारिणी ॥ ८ ॥ ३२

छिन्न-मुण्ड-धरा छिन्न–
चण्ड-विद्या च चित्रिणी । घोर-रूपा घोर-दृष्टिः
घोररावा घनोदरी ॥ ९ ॥ ३९

योगिनी योगनिरता
जप-यज्ञ-परायणा । योनि-चक्र-मयी
योनिर् योनि-चक्र-प्रवर्तिनी ॥ १० ॥ ४५

योनि-मुद्रा योनि-गम्या
योनि-यन्त्र-निवासिनी ।
यन्त्र-रूपा यन्त्र-मयी
यन्त्रेशी यन्त्र-पूजिता ॥ ११ ॥ ५२

कीर्त्या कपर्दिनी काली
कङ्काली+++(=अस्थिपिञ्जरिणी)+++ कलकारिणी । आरक्ता रक्तनयना
रक्त-पान-परायणा ॥ १२ ॥ ६०

भवानी भूतिदा भूतिर्
भूतिधात्री च भैरवी ।
भैरवाचार-निरता
भूत-भैरव-सेविता ॥ १३ ॥ ६७

भीमा भीमेश्वरी देवी
भीम-नाद-परायणा ।
भवाराध्या भवनुता
भवसागर-तारिणी ॥ १४ ॥ ७४

भद्रकाली भद्रतनुर्
भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा
सुभद्रा भद्रपालिनी ॥ १५ ॥ ८२

सुभव्या भव्यवदना
सुमुखी सिद्ध-सेविता । सिद्धिदा सिद्धि-निवहा+++(=समूहा)+++
सिद्धा सिद्धनिषेविता ॥ १६ ॥ ९०

शुभदा शुभगा शुद्धा
शुद्धसत्त्वा शुभावहा । श्रेष्ठा दृष्टिमयी देवी
दृष्टि-संहार-कारिणी ॥ १७ ॥ ९९

शर्वाणी सर्वगा सर्वा
सर्व-मङ्गल-कारिणी ।
शिवा शान्ता शान्तिरूपा
मृडानी मदनातुरा ॥ १८ ॥ १०८

फलस्तुतिः

इति ते कथितं देवी
स्तोत्रं परम-दुर्लभम् । गुह्याद् गुह्यतरं गोप्यं
गोपनियं प्रयत्नतः ॥ १९ ॥

किमत्र बहुनोक्तेन
त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि
ह्य् उच्चाटनम् अतः परम् ॥ २० ॥

स्तम्भनादिक-कर्माण्य्
ऋद्धयस् सिद्धयोऽपि च । त्रिकाल-पठनाद् अस्य
सर्वे सिद्ध्यन्त्य् असंशयः ॥ २१ ॥

महोत्तमं स्तोत्रम् इदं वरानने
मयेरितं नित्यम् अनन्यबुद्धयः ।
पठन्ति ये भक्तियुता नरोत्तमा
भवेन्न तेषां रिपुभिः पराजयः ॥ २२ ॥

इति श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् ॥