या राका या सिनीवाली

विश्वास-टिप्पनी

अथर्व-देवी-यागः। मानसतरङ्गिणीकारेणाचार्यमुखात् स्वरा लब्धाः। प्रसिद्धपैप्पलादसंहितायां तु नानास्थानेषु प्रकीर्णा +ऋचः।

स्रोतो ऽत्र

१० या राका या ...{Loading}...

या रा॒का या सि॑नीवा॒ली
या गु॒ङ्गूर् या सर॑स्वती ।
इ॒न्द्रा॒णीम् अ॑ह्व ऊ॒तये॑
वरुणा॒नीं स्व॒स्तये॑ ॥

०६ सिनीवालीम् अनुमतिं राकाम् ...{Loading}...

सि॒नी॒वा॒लीम् अनु॑मतीं
रा॒कां गु॒ङ्गूं सर॑स्वतीम् ।
दे॒वानां॒ पत्नी॒र् या दे॒वी
इ॑न्द्रा॒णीम् अव॑से हुवे ॥

०२ सेनासि पृथिवी धनञ्जय् ...{Loading}...

से॒नासि॑ पृथि॒वी ध॑नञ्ज॒या
अदि॑तिर् वि॒श्वरू॑पा॒ सूर्य॑त्वक् ।
इ॒न्द्रा॒णी प्रा॒षाट्+++(वषड् इव)+++ स॒ञ्जय॑न्ती॒
तस्यै॑ त ए॒ना ह॒विषा॑ विधेम ॥

०८ उत ग्ना ...{Loading}...

उत᳓ ग्ना᳓+++(=देव्यः)+++ व्यन्तु देव᳓पत्नीर्
इन्द्राण्य् अ᳓१᳓ग्ना᳓य्य् अश्वि᳓नी रा᳓ट् ।
आ᳓ रो᳓दसी+++(=लोकौ, मरुत्पत्न्यौ)+++ वरुणानी᳓ शृणोतु
व्य᳓न्तु देवी᳓र् य᳓ ऋतु᳓र् ज᳓नीनाम् ॥

०३ या विश्पत्नीन्द्रमसि ...{Loading}...

या वि॒श्पत्नीन्द्र॒म् असि॑ प्र॒तीची॑+++(नाम - इन्द्रसमा)+++
स॒हस्र॑-स्तुका+++(=केशपाश)+++ ऽभि॒यन्ती॑ दे॒वी ।
विष्णोः॑ पत्नि॒ तुभ्यं॑ रा॒ता ह॒वींषि॒
पतिं॑ देवि॒ राध॑से चोदयस्व ॥