शिरो मे श्रीः

०५ अभिषेकः ...{Loading}...
सायणोक्त-विनियोगः

(SB) 1चतुर्थे उपहोमा अभिहिताः । पञ्चमेऽभिषेकोऽभिधीयते । कल्पः - ‘औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना मित्रोऽसि वरुणोऽसीति तां यजमानायतने प्रतिष्ठापयत्यासादनोपवेशनाभिमन्त्रणानि राजसूयवत्’ इति ।

विश्वास-प्रस्तुतिः

मि॒त्रो॑ऽसि॒ वरु॑णोऽसि ।
सम॒हव्ँविश्वै॑र्दे॒वैः ।

मूलम्

मि॒त्रो॑ऽसि॒ वरु॑णोऽसि ।
सम॒हव्ँविश्वै॑र्दे॒वैः ।

सायण-टीका

हे आसन्दीविशेष! त्वमिष्टप्रापकत्वान्मित्रोऽसि । अनिष्टनिवारकत्वाद्वरुणोऽसि । अहमत्र त्वद्वलात्सर्वैर्देवैः संगतो भूयासम् ॥

विश्वास-प्रस्तुतिः

क्ष॒त्रस्य॒ नाभि॑रसि ।
क्ष॒त्रस्य॒ योनि॑रसि ।

मूलम्

क्ष॒त्रस्य॒ नाभि॑रसि ।
क्ष॒त्रस्य॒ योनि॑रसि ।

सायण-टीका

2कल्पः - ‘क्षत्रस्य नाभिरसीति तस्यां कृत्त्यधीवासमास्तीर्य’ इति । हे चर्मपट! त्वं क्षत्रस्य बलस्य नाभिर्मध्यस्थानमसि । तथा क्षत्रस्य बलस्य योनिः कारणमसि ॥

विश्वास-प्रस्तुतिः

स्यो॒नामा सी॑द ।
सु॒षदा॒मा सी॑द ।
मा त्वा॑ हिँसीत् ।
मा मा॑ हिँसीत् ।

मूलम्

स्यो॒नामा सी॑द ।
सु॒षदा॒मा सी॑द ।
मा त्वा॑ हिँसीत् ।
मा मा॑ हिँसीत् ।

सायण-टीका

3कल्पः - ‘स्योना मा सीद सुषदा मा सीदेति तामासाद्य यजमानो मा त्वा हिँसीन्मामा हिँसीदित्युपविशति’ इति । हे आसन्दि! त्वं स्योना सुखकरी भूत्वा मां प्रत्यासीद । तथा सुषदा सुष्ठूपवेशनयोग्या सती मां प्रत्यासदि प्राप्नुहि । मदीयो देहः त्वां मा हिनस्तु । त्वदीयस्वरूपमपि मां मा हिनस्तु ॥

विश्वास-प्रस्तुतिः

निष॑साद धृ॒तव्र॑तो॒ वरु॑णः ।
प॒स्त्या॑स्वा ॥20॥
साम्रा॑ज्याय सु॒क्रतुः॑ ।

मूलम्

निष॑साद धृ॒तव्र॑तो॒ वरु॑णः ।
प॒स्त्या॑स्वा ॥20॥
साम्रा॑ज्याय सु॒क्रतुः॑ ।

सायण-टीका

4कल्पः - ‘निषसाद धृतव्रत इत्यासीनमनुमन्त्रयते’ इति । अयं यजमानो धृतव्रतः स्वीकृतनियमः वरुणः फलप्रतिबन्धकपापनिवारको भूत्वा साम्राज्यं कर्तुं सुक्रतुः शोभनसंकल्पस्सन् पस्त्यासु गृहसमानेषु आसन्दीस्थानेपु आनिषसाद सर्वत उपविष्टवान् ॥

देवस्य त्वा - तेजोवीर्य-श्रीभ्यः ...{Loading}...
सायणोक्त-विनियोगः

5कल्पः - ‘तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नश्विनोः संपातैरभिषिञ्चति देवस्य त्वा’ इति ।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।

सायण-टीका

सवितुर्देवस्य प्रेरणे सति अश्विसंबन्धिभ्यां बाहुभ्यां पूषसंबन्धिम्यां हस्ताभ्यां अश्विनोस्सबन्धिना संपातेनौषधरूपेण कान्तिब्रह्मवर्चससिद्ध्यर्थं यजमानं त्वामभिषिञ्चामि ॥

सायणोक्त-विनियोगः

6कल्पः - ‘एवमुत्तरेण मन्त्रेण सारस्वतस्योत्तमेनैन्द्रस्य’ इति। संपातेनाभिषिञ्चतीत्युभयत्रानुवर्तते ।

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।

सायण-टीका

पूर्ववद्व्याख्येयम् ॥

विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।

सायण-टीका

7पूर्ववद्व्याख्येयम् ॥

विश्वास-प्रस्तुतिः

को॑ऽसि कत॒मो॑ऽसि ।
कस्मै॑ त्वा॒ काय॑ त्वा ।

मूलम्

को॑ऽसि कत॒मो॑ऽसि ।
कस्मै॑ त्वा॒ काय॑ त्वा ।

सायण-टीका

8कल्पः - ‘कोऽसि कतमोऽसीति पाणि संमृश्य’ इति । हे यजमान! त्वं कोसि प्रजापतिरूपोऽसि । अत एव कतमोऽसि अविज्ञातविशेषोऽसि । न हि प्रजापतिरीदृश एवेति केनचिदपि निर्धारयितुं शक्यते । तस्य सर्वात्मकत्वेन विशेषस्य दुर्निरूपत्वात् । अतः कस्मै अविज्ञेयस्वरूपसिद्ध्यर्थं त्वां स्पृशामि । काय प्रजापतिरूपसिद्ध्यर्थं त्वां स्पृशामि । अनेन मन्त्रेण यजमानस्य पाणिद्वयमभिसंस्पृशेत् ॥

विश्वास-प्रस्तुतिः

सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा ३न् ।

मूलम्

सुश्लो॒काँ (4) सुम॑ङ्ग॒लाँ (4) सत्य॑रा॒जा३न् ।

सायण-टीका

9-11कल्पः - ‘अत्र राजसूयवन्मङ्गल्यनाम्न आहूय’ इति । राजसूये त्वेवमुक्तम् - ‘मङ्गल्यनाम्नो राजाऽऽह्वयति सुश्लोकाँ४ इति संग्रहीतारं सुमङ्गलाँ४ इति भागदुधं सत्यराजा३ निति क्षत्तारम्’ इति । शोभनः श्लोकः कीर्तिर्यस्यासौ सुश्लोकः । आह्वानार्था सानुनासिका प्लुतिः । सुष्ठु मङ्गलाचरणं यस्यासौ सुमङ्गलः । सत्येन स्वामिव्यापारेण राजत इति सत्यराजः । एतैः संग्रहीत्रादय आह्वातव्याः स्युः । रथस्योपर्यश्वप्रग्रहधारी संग्रहीता । यद्वा संपादितं राजधनं भाण्डागारे सम्यक्संगृह्णातीति संग्रहीता । ग्रामेषु राजभागकरं दुग्धे स्वीकरोतीति भागदुधः । क्षत्ता सारथिर्द्वारपालको वा ॥

सायणोक्त-विनियोगः

12कल्पः - ‘शिरो मे श्रीरिति यथालिङ्गमङ्गानि संमृश्य’ इति ।

विश्वास-प्रस्तुतिः

शिरो॑ मे॒ श्रीः ॥22॥

मूलम्

शिरो॑ मे॒ श्रीः ॥22॥

सायण-टीका

मदीयं शिरः श्रियो हेतुत्वेन श्रीरूपमस्तु ।

विश्वास-प्रस्तुतिः

यशो॒ मुख॑म् ।

मूलम्

यशो॒ मुख॑म् ।

सायण-टीका

मुखं यशोहेतुरस्तु ।

विश्वास-प्रस्तुतिः

त्विषि॒ᳶ+++(=कान्तिः)+++ केशा॑श्च॒ श्मश्रू॑णि ।

मूलम्

त्विषि॒ᳵ केशा॑श्च॒ श्मश्रू॑णि ।

सायण-टीका

केशाः श्मश्रूणि च कान्तिहेतवः सन्तु ।

विश्वास-प्रस्तुतिः

राजा॑ मे प्रा॒णो॑ऽमृत॑म् ।

मूलम्

राजा॑ मे प्रा॒णो॑ऽमृत॑म् ।

सायण-टीका

मदीयः प्राणः सर्वेन्द्रियाणां राजा सन् अमृतहेतुरस्तु ।

विश्वास-प्रस्तुतिः

स॒म्राट् चक्षुः॑ ।

मूलम्

स॒म्राट्चक्षुः॑ ।

सायण-टीका

चक्षुरिन्द्रियं दूरसूक्ष्मादिदर्शनेन सम्यग्राजमानमस्तु ।

विश्वास-प्रस्तुतिः

वि॒राट् छ्रोत्र॑म् ।

मूलम्

वि॒राट्छ्रोत्र॑म् ।

सायण-टीका

श्रोत्रेन्द्रियं दूरशब्दमन्दध्वनिश्रवणेन विविधं राजमानमस्तु ।

विश्वास-प्रस्तुतिः

जि॒ह्वा मे॑ भ॒द्रम् ।

मूलम्

जि॒ह्वा मे॑ भ॒द्रम् ।

सायण-टीका

मदीया जिह्वा विविधरसज्ञानेन कल्याणभोगहेतुरस्तु ।

विश्वास-प्रस्तुतिः

वाङ् महः॑+++(=पूजा)+++ ।

मूलम्

वाङ्महः॑ ।

सायण-टीका

वागिन्द्रियं सभारञ्जनेन पूजाहेतूरस्तु ।

विश्वास-प्रस्तुतिः

मनो॑ म॒न्युः ।

मूलम्

मनो॑ म॒न्युः ।

सायण-टीका

मदीयं मनः धर्मकार्यमननहेतुरस्तु ।

विश्वास-प्रस्तुतिः

स्व॒राड् भामः॑+++(=क्रोधः)+++ ।

मूलम्

स्व॒राड्भामः॑ ।

सायण-टीका

मदीयो भामः क्रोधः भ्रातृव्यनिराकरणेन स्वयमेव राजाऽस्तु ।

विश्वास-प्रस्तुतिः

मोदा॑ᳶ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि +++(क्रमशः)+++ ॥23॥

मूलम्

मोदा॑ᳶ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि ॥23॥

सायण-टीका

अङ्गुलयो मोदा हर्षहेतवः सन्तु ।
अङ्गानि अनुक्तावयवाः प्रमोदाः प्रकृष्टहर्षहेतवः सन्तु ।

विश्वास-प्रस्तुतिः

चि॒त्तम् मे॒ सहः॑ ।

मूलम्

चि॒त्तम्मे॒ सहः॑ ।

सायण-टीका

मदीयं चित्तं स्तुतिनिन्दादिसहनहेतुरस्तु ।
मनश्चित्तयोर्वृत्तिभेदेन भेदः ।

विश्वास-प्रस्तुतिः

बा॒हू मे॒ बल॑म् इन्द्रि॒यम् ।

मूलम्

बा॒हू मे॒ बल॑मिन्द्रि॒यम् ।

सायण-टीका

मदीयौ बाहू मणिबन्धस्य मूलभागौ प्रबलशक्तिहेतू स्ताम् ।

विश्वास-प्रस्तुतिः

हस्तौ॑ मे॒ कर्म॑ वी॒र्य॑म् ।

मूलम्

हस्तौ॑ मे॒ कर्म॑ वी॒र्य॑म् ।

सायण-टीका

हस्तौ मणिबन्धस्याग्रभागौ वीर्यवद्व्यापारहेत् स्ताम् ।

विश्वास-प्रस्तुतिः

आ॒त्मा क्ष॒त्रम् उरो॒ मम॑ ।

मूलम्

आ॒त्मा क्ष॒त्रमुरो॒ मम॑ ।

सायण-टीका

मदीय आत्मा मध्यशरीरमुरश्च क्षत्त्रं बलहेतुरस्तु ।

विश्वास-प्रस्तुतिः

पृ॒ष्टीर्मे॑ +++(=पञ्चरम्/ ribs)+++ रा॒ष्ट्रम्।

मूलम्

पृ॒ष्टीर्मे॑ रा॒ष्ट्रम्।

सायण-टीका

पृष्ट्यादयो जान्वन्ता अवयवा राष्ट्रहेतवः सन्तु । पृष्टयः पायोरुपरिस्थान्यस्थीनि ।

विश्वास-प्रस्तुतिः

उ॒दर॒म् अँसौ॑ । ग्री॒वाश्च॒ श्रोण्यौ॑ । ऊ॒रू अ॑र॒त्नी+++(=पादाग्रभागः)+++ जानु॑नी । विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ ।

मूलम्

उ॒दर॒म् अँसौ॑ । ग्री॒वाश्च॒ श्रोण्यौ॑ । ऊ॒रू अ॑र॒त्नी जानु॑नी । विशो॒ मेऽङ्गा॑नि स॒र्वतः॑ ।

सायण-टीका

उदरादयः प्रसिद्धाः ।
ग्रीवाः गलावयवाः ।
अरत्नी प्रकोष्ठौ ।
ममाङ्गानीव सर्वतो विधेयाः सन्तु । विशो मनुष्याः ।

विश्वास-प्रस्तुतिः

नाभि॑र्मे चि॒त्तव्ँ, वि॒ज्ञान॑म् पा॒युर्, मेऽप॑चितिर् भ॒सत्+++(=जघनम्)+++ ।

मूलम्

नाभि॑र्मे चि॒त्तव्ँ, वि॒ज्ञान॑म् पा॒युर्, मेऽप॑चितिर् भ॒सत् ।

सायण-टीका

मदीयो नाभिः चित्तं चैतन्यहेतुरस्तु ।
पायुः विज्ञानं विसर्गज्ञानकुशलोऽस्तु । भसन्मे ममोपस्थेन्द्रियं अपचितिः नियतत्वेन बहुमानहेतुरस्तु ।

विश्वास-प्रस्तुतिः

आ॒न॒न्द॒-न॒न्दाव् आ॒ण्डौ मे॑, भग॒स् सौभा॑ग्यं॒ पसः॑+++(=प्रजननम्)+++ ।

मूलम्

आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॑, भग॒स् सौभा॑ग्यं॒ पसः॑।

सायण-टीका

मदीयावाण्डौ वृषणौ आनन्दनन्दयोर्हेतू स्ताम् । पुंसस्सुखमानन्दः । स्त्रियास्सुखं नन्दः ।
पसः प्रजननं भगसौभाग्यहेतुरस्तु ।भग ऐश्वर्यम् । सौभाग्यं देहशोभा ॥

विश्वास-प्रस्तुतिः

जङ्घा॑भ्याम्प॒द्भ्यान्धर्मो॑ऽस्मि ।
वि॒शि राजा॒ प्रति॑ष्ठितः ।

मूलम्

जङ्घा॑भ्याम्प॒द्भ्यान्धर्मो॑ऽस्मि ।
वि॒शि राजा॒ प्रति॑ष्ठितः ।

सायण-टीका

13कल्पः - ‘जङ्घाभ्यां पद्भ्यामिति प्रत्यवरुह्य’ इति । जानुभ्यामधोभागौ जङ्घे ताभ्यां पादाम्यां च धर्मः देहस्य धारयिताऽस्मि । विशि प्रजायां प्रतिष्ठितः स्थैर्येणावस्थितः राजाऽस्मि ॥

विश्वास-प्रस्तुतिः

प्रति॑ क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।

मूलम्

प्रति॑ क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ।

सायण-टीका

14कल्पः - ‘प्रतिक्षत्त्रे प्रतितिष्ठामि राष्ट्र इति जपित्वा’ इति । क्षत्त्रादिषु यज्ञान्तेषु प्रतितिष्ठामि स्थैर्येणावस्थितोऽस्मि । क्षत्त्रं बलं क्षत्त्रियादिर्वा । राष्ट्रं देशः ।

विश्वास-प्रस्तुतिः

प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।

मूलम्

प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।

सायण-टीका

अश्वादयः प्रसिद्धाः ।

विश्वास-प्रस्तुतिः

प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन् ।

मूलम्

प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन् ।

सायण-टीका

आत्मा शरीरम् ।

विश्वास-प्रस्तुतिः

प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे ।
प्रति॒ द्यावा॑पृथि॒व्योः ।
प्रति॑तिष्ठामि य॒ज्ञे ॥25॥

मूलम्

प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे ।
प्रति॒ द्यावा॑पृथि॒व्योः ।
प्रति॑तिष्ठामि य॒ज्ञे ॥25॥

सायण-टीका

पुष्टं शरीरस्य पुष्टिः ॥

विश्वास-प्रस्तुतिः

त्र॒या दे॒वा एका॑दश ।
त्र॒य॒स्त्रिँ॒शास्सु॒राध॑सः ।
बृह॒स्पति॑पुरोहिताः ।

दे॒वस्य॑ सवि॒तुस्स॒वे ।
दे॒वा दे॒वैर॑वन्तु मा ।
प्र॒थ॒मा द्वि॒तीयैः॑ ।
द्वि॒तीया॑स्तृ॒तीयैः॑ ।
तृ॒तीया॑स्स॒त्येन॑ ।

मूलम्

त्र॒या दे॒वा एका॑दश ।
त्र॒य॒स्त्रिँ॒शास्सु॒राध॑सः ।
बृह॒स्पति॑पुरोहिताः ।

दे॒वस्य॑ सवि॒तुस्स॒वे ।
दे॒वा दे॒वैर॑वन्तु मा ।
प्र॒थ॒मा द्वि॒तीयैः॑ ।
द्वि॒तीया॑स्तृ॒तीयैः॑ ।
तृ॒तीया॑स्स॒त्येन॑ ।

सायण-टीका

15कल्पः - ‘त्रया देवा एकादशेत्याहुतीर्जुहोति’ इति । तत्र प्रथमामृचमाह - एकादशसंख्याका देवतास्त्रयाः त्रिविधाः लोकत्रयवर्तित्वान् । तथा चाम्नातम् - ‘ये देवा दिव्येकादश स्थ’ इत्यादिना । ते चैते त्रयस्त्रिंशत्संख्याका देवाः सुराधसः शोभनस्य कर्मणः साधकाः । बृहस्पतिः पुरोहितो मुख्यो येषां ते बृहस्पतिपुरोहिताः । सवितुर्देवस्य प्रसवे सति ते सर्वे मुख्या देवा इतरैस्सह मामवन्तु । तत्र प्रथमगणस्थाः द्वितीयगणस्थैस्सहिताः । द्वितीयगणस्थास्तृतीयगणस्थिस्सहिताः । तृतीयगागणस्थास्सत्येन सहिताः ।

विश्वास-प्रस्तुतिः

स॒त्यय्ँ य॒ज्ञेन॑ ।
य॒ज्ञो यजु॑र्भिः ॥26 ॥
यजूँ॑षि॒ साम॑भिः ।
सामा॑न्यृ॒ग्भिः ।
ऋचो॑ या॒ज्या॑भिः ।
या॒ज्या॑ वषट्का॒रैः ।
व॒ष॒ट्का॒रा आहु॑तिभिः ।
आहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु ।

मूलम्

स॒त्यय्ँ य॒ज्ञेन॑ ।
य॒ज्ञो यजु॑र्भिः ॥26 ॥
यजूँ॑षि॒ साम॑भिः ।
सामा॑न्यृ॒ग्भिः ।
ऋचो॑ या॒ज्या॑भिः ।
या॒ज्या॑ वषट्का॒रैः ।
व॒ष॒ट्का॒रा आहु॑तिभिः ।
आहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु ।

सायण-टीका

सत्यं च यज्ञेन सहितम् । एवं यज्ञादय आहुतिपर्यन्ता उत्तरोत्तरवस्तुभिस्सह तिष्ठन्ति । ताश्चाहुतयो मदीयान्कामान्समर्धयन्तु समृद्धान्कुवन्तु ॥

विश्वास-प्रस्तुतिः

भूस्स्वाहा॑ ।

मूलम्

भूस्स्वाहा॑ ।

सायण-टीका

16अथ द्वितीयं मन्त्रमाह - येयं भूमिस्तस्यै स्वाहा हुतमस्तु ॥

विश्वास-प्रस्तुतिः

लोमा॑नि॒ प्रय॑ति॒र्मम॑ ।
त्वङ्म॒ आन॑ति॒राग॑तिः ।
माँ॒सम्म॒ उप॑नतिः ।
वस्वस्थि॑ ।
म॒ज्जा म॒ आन॑तिः ॥27॥

मूलम्

लोमा॑नि॒ प्रय॑ति॒र्मम॑ ।
त्वङ्म॒ आन॑ति॒राग॑तिः ।
माँ॒सम्म॒ उप॑नतिः ।
वस्वस्थि॑ ।
म॒ज्जा म॒ आन॑तिः ॥27॥

सायण-टीका

17कल्पः - ‘लोमानि प्रयतिर्ममेति यथालिङ्गमङ्गानि संमृशति’ इति । मदीयानि लोमानि प्रयतिः शुद्धिकराणि सन्तु । मदीया त्वक् आनतिः अन्येषां प्रह्वीभावहेतुरस्तु । आगतिः अन्येषां पदार्थानामागमनहेतुरस्तु । मदीयं मांसं उपनतिः अभिप्रेतसंपत्तिहेतुरस्तु । अस्थि च मदीयं वसु धनहेतुरस्तु । मत्संबन्धिमज्जा च आनतिः अन्येषां वशीकरणहेतुरस्तु ॥

अत्र विनियोगसंग्रहः- आसन्दीं स्थापयेन्मित्रः क्षत्त्रस्य चर्मसंस्कृतिः ।
स्योनां तस्यामुपविशेन्निषसादेति मन्त्रयेत् ॥

देवत्रयेणाभिषिञ्चेत्कोऽसि पाणी उपस्पृशेत् ।
सुश्लोकत्रयेणाह्वयेच्छिरः स्वात्माभिमर्शनम् ॥

अवरोहति जङ्घाभ्यां प्रतिक्षत्त्रादिकं जपेत् ।
त्रया भूराहुतीर्हुत्वा लोमेत्यङ्गान्युपस्पृशेत् ॥

अनुवाके पञ्चमेऽस्मिन्मन्त्राः सप्तदश स्मृताः ॥

इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके षष्ठप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥