०१ नमो॑ वा॒चे ...{Loading}...
विश्वास-प्रस्तुतिः
नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒
तस्यै॑ वा॒चे नमो॒
मूलम्
नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒
तस्यै॑ वा॒चे नमो॒
विश्वास-प्रस्तुतिः
नमो॑ वा॒चे
नमो॑ वा॒चस्पत॑ये॒
नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒
मूलम्
नमो॑ वा॒चे
नमो॑ वा॒चस्पत॑ये॒
नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒
विश्वास-प्रस्तुतिः
मा माम् ऋष॑यो मन्त्र॒कृतो॑ मन्त्र॒-पत॑यः॒ परा॑दु॒र्
मा ऽहम् ऋषी॑न् मन्त्र॒कृतो॑ मन्त्र॒-पती॒न् परा॑दाम्
मूलम्
मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्
माहमृषी॑न्मन्त्र॒कृतो॑ मन्त्र॒पती॒न् परा॑दाव्ँ
विश्वास-प्रस्तुतिः
वैश्वदे॒वीव्ँ वाच॑मुद्यासँ शि॒वाम् अद॑स् तां॒ जुष्टा॑न् दे॒वेभ्यः॑
मूलम्
वैश्वदे॒वीव्ँ वाच॑मुद्यासँ शि॒वामद॑स्तां॒ जुष्टा॑न् दे॒वेभ्यः॒…
विश्वास-प्रस्तुतिः
शर्म॑ मे॒ द्यौश्, शर्म॑ पृथि॒वी, शर्म॒ विश्व॑म् इ॒दं जग॑त् ।
शर्म॑ च॒न्द्रश् च॒ सूर्य॑श् च॒,
शर्म॑ ब्रह्म–प्रजा-प॒ती ।
मूलम्
शर्म॑ मे॒ द्यौश्, शर्म॑ पृथि॒वी, शर्म॒ विश्व॑मि॒दं जग॑त् ।
शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒, शर्म॑ ब्रह्मप्रजाप॒ती ।
विश्वास-प्रस्तुतिः
भू॒तव्ँ व॑दिष्ये॒, भुव॑नव्ँ वदिष्ये॒,
तेजो॑ वदिष्ये॒, यशो॑ वदिष्ये॒,
तपो॑ वदिष्ये॒, ब्रह्म॑ वदिष्ये,
स॒त्यव्ँ व॑दिष्ये॒,
मूलम्
भू॒तव्ँ व॑दिष्ये॒, भुव॑नव्ँ वदिष्ये॒, तेजो॑ वदिष्ये॒, यशो॑ वदिष्ये॒, तपो॑ वदिष्ये॒, ब्रह्म॑ वदिष्ये, स॒त्यव्ँ व॑दिष्ये॒,
विश्वास-प्रस्तुतिः
तस्मा॑ अ॒हम् इ॒दम् उ॑प॒स्तर॑ण॒म् उप॑स्तृण
उप॒स्तर॑णं मे प्र॒जायै॑ पशू॒नां भू॑याद्
उप॒स्तर॑णम् अ॒हं प्र॒जायै॑ पशू॒नां भू॑यासं॒
मूलम्
तस्मा॑ अ॒हमि॒दमु॑प॒स्तर॑ण॒म् उप॑स्तृण उप॒स्तर॑णं मे प्र॒जायै॑ पशू॒नां भू॑यादुप॒स्तर॑णम॒हं प्र॒जायै॑ पशू॒नां भू॑यासं॒
विश्वास-प्रस्तुतिः
प्राणा॑पानौ मृ॒त्योर् मा॑ पातं॒
प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒
मूलम्
प्राणा॑पानौ मृ॒त्योर्मा॑ पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒
मधु॑ मनिष्ये ...{Loading}...
विश्वास-प्रस्तुतिः
मधु॑ मनिष्ये ।
मधु॑ जनिष्ये ।
मधु॑ वक्ष्यामि ।
मधु॑ वदिष्यामि ।
Keith
Of honey shall I think, honey shall I produce, honey shall I proclaim, honey shall I speak,
मूलम्
मधु॑ मनिष्ये ।
मधु॑ जनिष्ये ।
मधु॑ वक्ष्यामि ।
मधु॑ वदिष्यामि ।
भट्टभास्कर-टीका
अहं तु मधु मनिष्ये मधुवदेव मनसा चिन्तयिष्यामि ।
विश्वास-प्रस्तुतिः
मधु॑मतीन् दे॒वेभ्यो॒ वाच॑म् उद्यासँ शुश्रू॒षेण्या॑म् मनु॒ष्ये॑भ्यः
Keith
may I utter speech full of honey for the gods, and acceptable to men.
मूलम्
मधु॑मतीन्दे॒वेभ्यो॒ वाच॑मुद्यासँ शुश्रू॒षेण्या॑म्मनु॒ष्ये॑भ्यः
भट्टभास्कर-टीका
देवेभ्यो मधुमतीं मधुवदनहेतुं न केवलप्रमादां वाचं उद्यासं वदितुं समर्थो भूयासम् । ‘किदाशिषि’ इति कित्त्वात् ‘वचिस्वपि’ इति संप्रसारणम् ।
मनुष्येभ्यः शुश्रूषेण्यां श्रवणीयां श्रुतिसुखहेतुं वाचं उद्यासमित्येव । उभयत्रापि षष्ठ्यर्थे चतुर्थी । सनन्तादौणादिक एण्यप्रत्ययः ।
विश्वास-प्रस्तुतिः
तम् मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरो ऽनु॑ मदन्तु ॥
Keith
May the gods aid me to radiance, may the Pitrs rejoice in me.
मूलम्
तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरोऽनु॑ मदन्तु ॥
भट्टभास्कर-टीका
तं मामेवंगुणं देवा अवन्तु रक्षन्तु शोभायै यथा मया कृतं शोभते तथा अनुमदन्तु अनुमोदन्तां, उत्कृष्टत्वेन समीचीनं करोतीति शोभार्थं पितरश्च अनुमोदन्तु । माद्यतेर्व्यत्ययेन शप् ॥
इति तृतीये तृतीये द्वितीयोनुवाकः ॥
ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥ 1 । - । 1 ।