ब्राह्मणम् - त्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरेत्।
मन्त्रः
ब्रह्म॑णा त्वा शपामि । ब्रह्म॑णस् त्वा श॒पथे॑न शपामि ।
घो॒रेण॑ त्वा॒ भृगू॑णा॒ञ् चक्षु॑षा॒ प्रेक्षे᳚ ।
रौ॒द्रेण॒ त्वाङ्गि॑रसां॒ मन॑सा द्ध्यायामि ।
अ॒घस्य॑ त्वा॒ धार॑या विद्ध्यामि ।
अध॑रो॒ मत् प॑द्यस्वाऽसौ ।