भूः प्रपद्ये

२२ १ भूः प्रपद्ये ...{Loading}...

भास्करोक्त-विनियोगः

1इदानीं सर्वयागारम्भेष्व् आयुष्करं ब्रह्मोपस्थानं विधित्सुस्
तन्मन्त्रमाह - भूः प्रपद्य इति ॥

विश्वास-प्रस्तुतिः

भूः प्रप॑द्ये॒+++(=प्राप्नोमि)+++,
भुवः॒ प्रप॑द्ये॒,
स्वः॑ प्रप॑द्ये॒,
भूर्भुव॒स्स्वः॑ प्रप॑द्ये।

मूलम्

भूः प्रप॑द्ये॒+++(=प्राप्नोमि)+++,
भुवः॒ प्रप॑द्ये॒,
स्वः॑ प्रप॑द्ये॒,
भूर्भुव॒स्स्वः॑ प्रप॑द्ये।

भट्टभास्कर-टीका

अत्र च सर्वात्म-भूतम् एव वस्तु ब्रह्माख्यं
भूर्-आदि-भेदाध्यारोपेण स्तूयते,
भूर्-आदि-भेदानां काल्पनिकत्वात् ।
अन्य आहुः - परमार्था एव भूरादिभेदा ब्रह्मण एवांशा इति ।

विश्वास-प्रस्तुतिः

ब्रह्म॒ प्रप॑द्ये, ब्रह्मको॒शं प्रप॑द्ये॒,
ऽमृतं॒ प्रप॑द्ये, ऽमृतको॒शं प्रप॑द्ये,

मूलम्

ब्रह्म॒ प्रप॑द्ये, ब्रह्मको॒शं प्रप॑द्ये॒,
ऽमृतं॒ प्रप॑द्ये, ऽमृतको॒शं प्रप॑द्ये,

भट्टभास्कर-टीका

भूरादिभेदभिन्नस्य प्रथमं प्रपत्ति र्भजनं, ततो ब्रह्म प्रपद्ये इत्यभिन्नस्य, ब्रह्मकोशमिति तत्स्थानस्य ।
अमृतमिति न विद्यते मृत्युर्यत्र तापत्रयलक्षणः ।
अमृतकोशमिति यत्रस्थानपि मृत्युर्नपश्यति ।

विश्वास-प्रस्तुतिः

च॒तु॒र्जा॒लं+++(=अन्नमयः प्राणमयः, मनोमयः, विज्ञानमयः इति कोशा यस्य सः)+++ ब्र॑ह्मको॒शय्ँ यम् मृ॒त्युर् नाव॒पश्य॑ति॒, तं प्रप॑द्ये।

मूलम्

च॒तु॒र्जा॒लं+++(=अन्नमयः प्राणमयः, मनोमयः, विज्ञानमयः इति कोशा यस्य सः)+++ ब्र॑ह्मको॒शय्ँ यम् मृ॒त्युर् नाव॒पश्य॑ति॒, तं प्रप॑द्ये।

भट्टभास्कर-टीका

तद्व्याचष्टे - चतुर्जालमिति ॥ अन्नमयप्राणमयमनोमयविज्ञानमयैश्चतुर्भिर्जालैर् आवरणैर् आवृतं मुख्यं ब्रह्मस्थानम् ।

विश्वास-प्रस्तुतिः

दे॒वान् प्रप॑द्ये, देवपु॒रं प्रप॑द्ये॒।

मूलम्

दे॒वान् प्रप॑द्ये, देवपु॒रं प्रप॑द्ये॒।

भट्टभास्कर-टीका

देवानिति तत्रस्थाद् देवनशीलान् सर्वानप्यात्मनः । देवपुरमिति ॥ सर्वेषमापपि देवानां देवनस्थानं तदेव ब्रह्मस्थानम् ।

विश्वास-प्रस्तुतिः

परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒ ऽहन् तेज॑सा॒ कश्य॑पस्य। (22) ॥ 19 ।

मूलम्

परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒ ऽहन् तेज॑सा॒ कश्य॑पस्य। (22) ॥ 19 ।

भट्टभास्कर-टीका

एवं भूरादिप्रपत्त्या न मे मृत्युरित्युक्तम् । इदानीं त्व् अशक्यमेव मृत्युना मत्पार्श्वे प्रवेष्टुमिति दर्शयितुमाह - परीवृत इति । अहं सर्वतो वृतः परिवारस्थानीयेन गुप्तः । किञ्च वरीवृतो ऽत्यर्थं वृतः रक्ष्यत्वेन स्वीकृतः । केन? वर्मस्थानीयेन ब्रह्मणाऽपि विश्वोपादानात्मना कश्यपस्य च तेजसा कश्यपस्यात्मनः - ‘कश्यपः पश्यकः’ इति न्यायात् सर्वसाक्षी ईश्वरः कश्यपस् तस्य - तेजसा प्रकाशान्मना रूपेण अहं परीवृतो वरीवृत इत्येव । पूर्वत्रोपसर्गस्य दीर्घत्वम्; उत्तरत्र यङ्लुक्य् अभ्यासस्य रीगागमः ॥