२२.१ भूः प्रपद्ये ...{Loading}...
(आरण्यकस्वरा अत्र।)
भूः प्रप॑द्ये॒(=प्राप्नोमि)। भुवः॒ प्रप॑द्ये॒। स्वः॑ प्रप॑द्ये॒। भूर्भुव॒स्स्वः॑ प्रप॑द्ये॒।
ब्रह्म॒ प्रप॑द्ये, ब्रह्मको॒शं प्रप॑द्ये॒, ऽमृतं॒ प्रप॑द्ये, ऽमृतको॒शं प्रप॑द्ये,
चतुर्जा॒लं(=अन्नमयः प्राणमयः, मनोमयः, विज्ञानमयः इति कोशा यस्य सः) ब्र॑ह्मको॒शय्ँ यम् मृ॒त्युर् नाव॒पश्य॑ति॒, तं प्रप॑द्ये।
दे॒वान् प्रप॑द्ये, देवपु॒रं प्रप॑द्ये॒।
परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒ ऽहन् तेज॑सा॒ कश्य॑पस्य॒। (22) ॥ 19 ।