०२ मेधान्ते देवस्सविता ...{Loading}...
मे॒धान् ते॑ दे॒वस् स॑वि॒ता
मे॒धान् दे॒वी सर॑स्वती ।
मे॒धान् ते॑ अ॒श्विनौ॑ दे॒वाव्
आध॑त्तां॒ पुष्क॑रस्रजा ।
०३-०५ त्वयि मेधाम् ...{Loading}...
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वय्य् अ॒ग्निस् तेजो॑ दधातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु ।
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां
त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु ।
मयि॑ मे॒धां मयि॑ प्र॒जां
मय्य् अ॒ग्निस् तेजो॑ दधातु।
मयि॑ मे॒धां मयि॑ प्र॒जां
मयीन्द्र॑ इन्द्रि॒यं दधातु
मयि॑ मे॒धां मयि॑ प्र॒जां
मयि॒ सूर्यो॒ भ्राजो॑ दधातु॥