आ त्वा हार्षम्

आ त्वा हार्षम् ...{Loading}...
सायणोक्त-विनियोगः

20अतः परं राजाभिषेके विनियोज्याः पश्चाप्यनुष्टुभः - आ त्वाऽहार्षमिति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आत्वा॑ ऽहार्षम्, +++(राष्ट्रे)+++ अ॒न्तर् अ॑भूः+++(→भूयाः)+++ । ध्रु॒वस् ति॒ष्ठावि॑चाचलिः । विश॑स् त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्-रा॒ष्ट्रम् अधि॑-भ्रशत्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आत्वा॑ऽहार्षम॒न्तर॑भूः । ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ।

सायण-टीका

व्याख्याता ‘विष्णोः क्रमोसि’ इत्यत्र । पुरोहितो राजानं प्रत्याह - त्वां अहं आहार्षं स्थानाच्च्युतमाहरामि । आहृतश्च त्वं अन्तर् अभूः राष्ट्रस्य मध्ये भव । अविचाचलिः विचालयितुमशक्यः ध्रुवश्च तिष्ठ । विशो राष्ट्रवर्तिन्यः प्रजाः त्वामेव राजानं वाञ्छन्तु राष्ट्रं च त्वत्तो माऽधिभ्रशत् । अधिरत्र पञ्चम्यर्थानुवादी । भ्रष्टं मा मृत् ।।

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रु॒वा द्यौर्, ध्रु॒वा पृ॑थि॒वी । ध्रु॒वव्ँ विश्व॑म् इ॒दञ् जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम् अ॒यम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी । ध्रु॒वव्ँ विश्व॑मि॒दञ्जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम॒यम् ।

सायण-टीका

21त्रिषु पादेषु दृष्टान्ताः, चतुर्थो दार्ष्टान्तिकः - ध्रुवेत्यादि ॥ द्यौः पृथिवी च ध्रुवा । इदं च विश्वं ध्रुव जगत् आप्रवाहं नित्यं ध्रुवं, बहुकालावस्थायित्वात् । इमे च पर्वताः ध्रुवाः । अयं च विशां मनुष्याणां राजा ध्रुवः । तुल्ययोगोपमैषां, द्युप्रभृतिविषयो राजा भवत्विति यावत् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥19॥
पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस् ति॑ष्ठ । इ॒ह रा॒ष्ट्रम् उ॑ धारय

सर्वाष् टीकाः ...{Loading}...
English

Grow right here, don’t be distressed.
Like a mountain un-fickle.
Like Indra, stand firm here.
Bear the nation here.

मूलम्

इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥19॥
पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ । इ॒ह रा॒ष्ट्रमु॑ धारय ।

सायण-टीका

22इहैवैधीति ॥ इहैव राष्ट्रे एधि राजा भव । मा व्यथिष्ठाः पर्वत इव अविचाचलिः अविचलो भव । ‘उपसर्गाच्छन्दसि’ इति इप्रत्ययः । इन्द्र इव ध्रुवो भव । इह राजभावे तिष्ठराष्ट्रंधारय । अवधारणे उकारः । राष्ट्रं धारयैव माऽमुचः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि-ति॑ष्ठ पृतन्य॒तः ।
अध॑रे सन्तु॒ शत्र॑वः ।
इन्द्र॑ इव वृत्र॒-हा ति॑ष्ठ
अ॒पः क्षेत्रा॑णि स॒ञ्जय॑न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒भिति॑ष्ठ पृतन्य॒तः । अध॑रे सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ । अ॒पः क्षेत्रा॑णि स॒ञ्जय॑न् ।

English

Outflank the assailants.
Down be the enemies.
Stand like Indra vRtra-killer.
Thoroughly winning (their) deeds and lands.

सायण-टीका

23अभितिष्ठेति । । पृतन्यतः संग्रामं कर्तुमिच्छतः ‘कव्यध्वरपृतनस्यर्चि लोपः’ ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । शत्रवोऽधरे त्वत्तो निकृष्टैश्वर्यबलास्सन्तु । वृत्रहा वृत्रस्य हन्ता इन्द्र इव पृतन्यतोऽभितिष्ठ । यथा शत्रूणां अपः कर्माणि क्षेत्राणि संजयन् वृत्रहेव शत्रूनाक्राम ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ एणम् अदीधरत् । ध्रु॒वन् ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॑ दे॒वा अधि॑-ब्रवन् । अ॒यञ् च॒ ब्रह्म॑ण॒स्-पतिः॑ ॥20॥

सर्वाष् टीकाः ...{Loading}...
English

Indra Bear this king!
Firm with firm offerings.
Gods speak in his favor!
Him too, the brahmaNas-pati!

मूलम्

इन्द्र॑ एणमदीधरत् । ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॑ दे॒वा अधि॑ब्रवन् । अ॒यञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ॥20॥

सायण-टीका

24इन्द्र एणमिति ॥ इन्द्र एनं राजानं अदिधरत् धारयतु । छान्दसं सांहितिकं णत्वम् । ध्रुवं अविचलितैश्वर्यं कृत्वा ध्रुवेण नित्येन हविषा । किं च - तस्मै अस्भै देवाः अधिब्रवन् अधिब्रुवन्तु उपरिवदन्तु पक्षपातेन वदन्तु । अयं च ब्रह्मणः कर्मणः पतिरिन्द्रश्च अस्मानधिब्रवीतु ॥

इत्युपहोमभाष्ये द्वितीयोऽनुवाकः ॥