०१ यक्ष्म-प्रतीकारः ...{Loading}...
अथ चतुर्थोऽध्यायः।
श्वेताश्वो दर्शतो हरि-नीलोऽसि।
हरित-स्पृशस्, समान-बुद्धो मा हिंसीः।
न मां त्वं वेत्थ! प्रद्रव! १
यद् अभ्यव-चरणो ऽभ्यवैषि, स्वपन्तम् पुरुषम् अकोविदम् -
अश्म-मयेन वर्मणा वरुणो ऽन्तर्दधातु मा। २
… अयस्-मयेन … ३
… लोह-मयेन … ४
… रजत-मयेन … ५
… सुवर्ण-मयेन …। ६
आयुर् माता, मतिः पिता।
नमस् त आविशोषण! ग्रहो नामासि विश्वायुः।
तस्मै ते विश्वाहा(=प्रत्यहम्) नमो नमस् ताम्राय!
नमो वरुणाय!
नमो जिघांसते! ७
यक्ष्म राजन् मा मां हिंसीः! राजन् यक्ष्म मा हिंसीः।
तयोस् संविदानयोस् सर्वम् आयुर् अयान्य् अहम्! ८
१
प्रथमोऽनुवाकस्समाप्तः