किरीट-कीटाऽऽष्टोत्तर-शत-नामावली

किरीट-कीटाऽऽष्टोत्तर-शत-नामावली ...{Loading}...

परिचयः

  • कर्ता - राजारामजशङ्करः। स्रोतो ऽत्र
  • २०१९ इति वर्षादारभ्य कॊरोनावैराणुरोगः प्रासरद् भयानकः।

पाठः

किरीट-विष-कीटाणुश्
चीनदेश-समुद्भवः ।
नासाग्र-गृहमेधी च
श्वासानिल-निरोधकृत् ॥

लोक-सङ्क्रमण-क्रीडा-
रसानुगुण-जीवितः ।
अनन्त-परिवार-श्रीर्
आश्रयाशो+++(५)+++ निरङ्कुशः ॥ (८)

अङ्ग-रक्षो+++(५)+++ यमस्याद्यः
स्वास्थ्य-द्रविण-तस्करः ।
अपाय-लिपि-कायस्थो+++(५)+++
ज्वरानल-नवेन्धनम् ।

दुर्वारो वैद्य-लोकस्य
भेषजानाम् अनाश्रवः ।
अत्यन्त-सूक्ष्म-गात्रश् च
सर्वानर्थ-पुरोगमः ॥ (१६)

हाकार-देशिको नॄणां
बाष्प-धाराऽभिषेकवान् ।
दुःस्वप्नो मानवेन्द्राणां
धुर्यो वीर्याणु-सन्ततेः ॥

पाणि-प्रक्षालनाभ्यास-
प्रवणानाम् अपार्श्वगः ।
दन्तुराङ्गो महामारी-
क्रीडा-विभ्रम-कन्दुकः+++(५)+++ ॥ (२३)

जगदाक्रमणाटोप-
स्फुट-रोमाञ्च-कञ्चुकः।
जीव-यात्रा-सरोजश्री-
सङ्कोच-तिमिरोदयः+++(५)+++ ॥

साकारो जन-सन्तापश्
चिन्तामणि-शिला कलेः ।
असूर्यम्-पश्यता-दीक्षा-
सिद्धाचार्यस् तनू-भृताम् ॥ (२८)

विषादाङ्कुर-बीजाभो
विदुषाम् अपि मोह-कृत् ।
किंवदन्ती-स्रवन्तीनां
बह्वीनां प्रभवाचलः ॥

वृद्धेष्व् आमरण-स्थायी
निर्जनी-कृत-पद्धतिः ।
मुखाग्र-पट्टिका-बन्ध-
व्रत-शिक्षा-जिनेश्वरः+++(५)+++ ॥ (३४)

इटली-जन-तालीभिर्
मुहूर्त-परिकम्पितः ।
जपान-लोकदीर्घायुर्-
वायु-भक्षण-भोगिराट् ।

अमेरिका-विकासाध्व-
खली-करण-कण्टकः ।
आङ्लेय-सन्तताऽऽहन्ता+++(=अहङ्कार)+++-
दृङ्-मीलन-रजोलवः+++(५)+++ । (३८)

आपाद-मस्तक-च्छन्न-
म्लेच्छ-स्त्री-दर्शनाऽऽकुलः ।+++(तदावर्तत तासाम् प्रतिभटनमिति)+++
मज्जयन् व्यसनाम्भोधौ
लोकान् नौका-जुषो हठात् ।
+++(यथा diamond princess ।)+++

विमान-चारिणश् चापि
द्रुतम् एव दिवं नयन् ।
श्रम-बिन्दुर् अधर्मस्य+++(५)+++
मोह-मेघ-पयःकणः+++(५)+++ । (४३)

दुराशा-करिणी-लीला-
विलास-कर-शीकरः+++(५)+++ ।
महाजनपद+उद्-ध्वंस-
प्रबन्ध-प्रथमाक्षरम् ।

कास-स्वागत-निर्घोषैर्
वाचालित-पथो ऽनिशम् ।
क्षुत-शब्द-शतारम्भ-
विजृम्भित-जय-ध्वनिः+++(५)+++ । (४७)

देवतायतन-द्वार-
पिधान-दृढ-कीलकः।
विषण्णाऽऽपणिक-श्रेणी-
शापाक्षर-मली-मसः॥

प्राण-पञ्चक-सञ्चार-
विराम-क्षण-घाण्टिकः+++(४)+++। (५०)
दुरन्त-पटली-प्रावृट्-
कदम्ब-कुसुमाऽऽकृतिः॥

प्रजा-प्रजागर-क्लेश-
प्रतिपादन-कोविदः ।
कोविदो बहलोद्वेग-
दवोष्म-ग्रीष्म-रश्मिभृत् । (५४)

निबिडालिङ्गन-ग्रन्थि-
विमोचन-विशारदः ।
वदनामृत-पानेच्छा-
तुच्छी-करण-साहसी ॥

प्राग्-अभावः प्रगल्भस्य
स्पर्शनेन्द्रिय-कर्मणः ।
प्ररूढ-प्रौढ-वंशौघ-
श्लथी-कार-घुण-क्रिमिः ॥

चैतन्य-तरु-मूलाभ-
श्वास-नाल-मद-द्विपः+++(४)+++ ।
पवन-प्रेरणोल्लासि-
पुफ्फुसाण्डज-वागुरा+++(=ग्रहणजालम्)+++ +++(४)+++॥

नैकोपद्रव-सूत्राली-
विन्यास-विधि-सौचिकः ।
अयसो जीविताख्यस्य
क्षयोपक्रम-किट्टकम्+++(=rust)+++ +++(५)+++॥

समस्त-पौर-दिग्बन्ध-
क्रिया-मण्डल-निर्मितिः ।
गुलिका रोगिणाम् एका
चिर-निद्रा-विधायिनी ॥ (६४)

+++(अपूर्णः।)+++