राष्ट्रभृतः

०७ राष्ट्रभृन्मन्त्राः ...{Loading}...

विश्वेदेवा ऋषयः

विश्वास-टिप्पनी

अस्यानुवाकस्य बोधायन-भट्टभास्करादि-रीत्या ऽनुषङ्गो ऽन्यत्र दर्शितः

भास्करोक्त-विनियोगः

1अथ राष्ट्रकामादिभ्यो विहिता राष्ट्रभृतः ऋताषाडृतधामेत्यादयः द्विस्स्वाहाकारं होतव्याः ।

मूलम् (संयुक्तम्)

ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा॑

सङ्क्षेपः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु।
स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।

सँ॒हि॒तो वि॒श्वसा॑मा॒ +++(=विश्वानि सामान्यवसितान्यस्मिन्)+++ सूर्यो॑ ग॑न्ध॒र्वः ।
तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॑ । … ।

सु॒षु॒म्नः+++(=सुखम्)+++ सूर्य॑रश्मिश् च॒न्द्रमा॑ ग॑न्ध॒र्वः ।
तस्य॒ नक्ष॑त्राण्य् अप्स॒रसो॑ बे॒कुर॑यो॒+++(=चित्तविकारहेतवः)+++ नाम॑ । … ।

भु॒ज्युस् +++(=पालयिता, यो भुनक्ति)+++ सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः ।
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वा नाम॑ । … ।

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः ।
तस्य॑र्क्सा॒मान्य् अप्स॒रसो॒ वह्न॑यो॒ +++(सौन्दर्यं वहन्तीति)+++ नाम॑ । … ।

इ॒षि॒रो +++(इष्यमानवस्तुवत्त्वात्)+++ वि॒श्वव्य॑चा॒ +++(विश्वं वियातीति)+++ वातो॑ ग॑न्ध॒र्वः ।
तस्यापो॑ऽप्स॒रसो॑ मु॒दा नाम॑ । … ।

भुव॑नस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रा॒स्व+++(=देहि)+++ +आज्या॑निँ+++(=दीर्घायुः)+++ रा॒यस्पोषाँ॑
सु॒वीर्यँ॑ संवत्स॒रीणाँ॑ स्व॒स्तिँ स्वाहा॑ ।

प॒र॒मे॒ष्ठ्य् +++(=परमस्थानो)+++ अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः ।
तस्य॒ विश्व॑म् अप्स॒रसो॒ भुवो॒ नाम॑ । … ।

सु॒क्षि॒तिस् सुभू॑तिर् भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ ग॑न्ध॒र्वः ।
तस्य॒ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॒ नाम॑ । … ।

दू॒रेहे॑तिर् अमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वः ।
तस्य॒ प्र॒जा अ॑प्स॒रसो॒ भी॒रुवो॒ नाम॑ । … ।

चारुः॑ कृपणका॒शी +++(कृपणेषु मनो दीपयतीति)+++ कामो॑ ग॑न्ध॒र्वः ।
तस्या॒धयो॑ +++(=चित्तक्लेशाधिदेवताः)+++ ऽप्स॒रस॑श् शो॒चय॑ती॒र् नाम॑ । … ।

स नो॑ भुवनस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑।
उ॒रु+++(=विपुल)+++ब्रह्म॑णे॒ ऽस्मै क्ष॒त्राय॒
महि॒+++(=महत्)+++ शर्म॑ यच्छ॒ स्वाहा॑ ॥

विश्वास-प्रस्तुतिः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑।
स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु।
ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु।
तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।

मूलम्

ऋ॒ता॒षाडृ॒तधा॑मा॒ अग्निर्ग॑न्ध॒र्वः , तस्यौष॑धयोऽप्स॒रसः॑ , ऊर्जो॒ नाम॒, स इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑तु॒ ,ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑न्तु॒, तस्मै॒ स्वाहा॒ , ताभ्य॒स्स्वाहा॑

भट्टभास्कर-टीका

तस्मा इति गन्धर्वाय । ताभ्य इत्यप्सरोभ्यः । ‘स इदं ब्रह्म क्षत्रं पातु’ इति गन्धर्वेष्वनुषज्यते । ‘ता इदं ब्रह्म क्षत्रं पान्तु’ इत्यप्सरस्सु । भुवनस्य पते इति पञ्चपदा पङ्क्तिः । ‘भुवनस्य पते ’ इति प्रथमपादान्तः । इयं च पर्यायाणां सप्तमी, आहुतीनां त्रयोदशी । अथ ‘स नो भुवनस्य’ इति न्यङ्कुसारिणी । द्वितीयः पादो द्वादशाक्षरः । इयं तु पर्यायाणां द्वादशी, आहुतीनां द्वाविंशतिः ।

ऋताषाट् ऋतं सत्यं यज्ञं वा सहते अभिभवति अतःपरं नास्ति सत्यं यज्ञो वा । ऋतेन वा विश्वमभिभवति । ‘छन्दसि सहः’ इति ण्विः, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम्, ‘सहेस्साढस्सः’ इति षत्वम् ।

ऋतधामा ऋतं सत्यं यज्ञो वा धाम स्थानं तेजो वा यस्य स ऋतधामा । ईदृशत्वादग्निर्गन्धर्वः गान्धारबन्धं धारयति उदकं वा यागद्वारेणोत्पादयतीति गन्धर्वः, पृषोदरादिः । तस्य सम्बन्धिन्यः तेनाह्रियमाणा ओषधयः अप्सरस्त्वेन रूप्यन्ते, गन्धर्वाणामप्सरसो भार्याः, अपस्सारयन्ति अन्नं भूत्वा आहुतिद्वारेणादित्यं प्राप्नुवन्ति यथोक्तं ‘अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते’ इत्यादि । ऊर्जो नामान्नाख्यः, अन्नं भूत्वेत्यर्थः ।

केचिदाहुः - दोग्धृस्थानीयोग्निः वत्सस्थानीयाभिरोषधीभिः गां पयो दुघे इति स तादृशोग्निः इदं ब्रह्म क्षत्रं च पात्विति अस्मानाहुतिद्वारेण, प्राधान्यात्तयोर्ग्रहणं सर्वस्थावरजङ्गमप्रदर्शनार्थम् । ताश्च तादृश्योप्सरसः इदं क्षत्रं च पातु, तस्मा अग्नये स्वा हुतं करोमि ताभ्यश्चाप्सरोभ्यः ।

एवं सर्वेषु पर्यायेषु द्रष्टव्यम् ॥

मूलम् (संयुक्तम्)

सँहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युव॑स्

विश्वास-प्रस्तुतिः

सँ॒हि॒तो वि॒श्व-सा॑मा॒ सूर्यो॑ गन्ध॒र्वस्
तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सँ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्
तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

2संहितः सन्धीयतेऽनेनेति संहितः करणे क्तः, नैशी सूर्यप्रवृत्तिर्लक्ष्यते दर्शनात्मिका । विश्वसामा विश्वं सामावसितमस्मिन्निति विश्वसासा । अनेनापि नैशी वृत्तिर्लक्ष्यते अदर्शनात्मिका । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति विश्वशब्दोन्तोदात्तः । एवं अहोरात्रे प्रवर्तयन् सूर्यः गन्धर्वः व्याख्यातः मरीचयोप्सरसः मारयन्ति शोषयन्ति सलिलं दिवसविशेषेषु वर्षार्थमेवेति मरीचयः । अपां सारयितारोप्सरसः । आविष्टलिङ्गत्वादप्सरश्शब्दस्स्त्रीलिङ्गेनैवोच्यते । वत्सस्थानीया वा पूर्ववत् ।

आयुवः गमनशीलाः विश्वव्यापिनः । एतेः ‘छन्दसीणः’ इत्युण्प्रत्ययः, ‘जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः’ इति जसि गुणाभावः, ‘तन्वादीनां छन्दसि बहुलम्’ इत्युवङ् । नामेत्यादिस्सर्वत्रानुषङ्गः ॥

मूलम् (संयुक्तम्)

सुषु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यः

विश्वास-प्रस्तुतिः

सु॒-षु॒म्नस् सूर्य॑-रश्मिश् च॒न्द्रमा॑ गन्ध॒र्वः,
तस्य॒ नक्ष॑त्राण्य् अप्स॒रसो॑ बे॒कुर॑यो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒षु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वः,
तस्य॒ नक्ष॑त्राण्यप्स॒रसो॑ बे॒कुर॑यः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

3सुषुम्नः सुसूते शोभनं सुखं यो न इति । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । चन्द्रो ह्यमृताद्देवपितृमनुष्यान् सुखयति । सूर्यरश्मिरेव रश्मिः यस्य अमृतात्मकत्वात् चन्द्रस्य । यथाऽऽहुः - सूर्योग्निमयो गोलः चन्द्रोम्बुमयस्स्वभाक्तस्स्वच्छः । तस्मात्स्वतो रश्म्यभावात् सूर्यरश्मिभिरेवायं दीप्यते इति । तदप्याहुः - भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ॥

एतदुक्तं भवति । यदस्यैवान्तस्थस्य चन्द्रबिम्बस्यार्धमेकं सर्वदा भास्वरं भवति, अर्धं तद्व्यतिरिक्तवर्णं दृश्यते । तत्रेदं कारणं - सूर्याभिमुखं यदर्वं तत्सूर्यरश्मिभिरादीप्यते, अन्यत्स्वामेव छायामवलम्बति । किमिति तर्हि चन्द्रमसो बिम्बार्धं सर्वदा न चकास्ति चकास्त्येव । किमिति नोपलभ्यते । उच्यते - अमावास्यायां चन्द्रमस उपर्यादित्यः तदासौ तस्य चन्द्रमसः उपरि यद्बिम्बार्धं तदशेषमवभासयति । ततश्चन्द्रस्यामावास्ययोपलक्षितोपरिबिम्बे केन्द्रात् यथा यथा पश्चादादित्योवलम्बते तथा तथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते तत्केन्द्रवशाच्चन्द्रमसो बिम्बार्धं यावदेवामावास्योपलक्षिते बिम्बस्यार्धादधोवलम्बते तावच्चन्द्रमसो बिम्बं अस्माभिरुपलभ्यते । शेषमुपरिस्थितत्वात् सूर्याभिमुखं दीप्यमानमपि नोपलभ्यते । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावच्छुक्लश्चन्द्रमा उपलभ्यते । तेनमी ज्योत्स्त्नावितानावभासिनश्चन्द्रकराः सूर्य मरीचय एव । केन तर्हि सवितृमरीचयोम्बुमयस्वभावे च श्यामे चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमुपध्वंसयन्ति । उच्यते - यथा दर्पणे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गर्तं तमः क्षपयन्ति एवं तदिति द्रष्टव्यम् । अन्यच्च यो यः चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्ल उपलक्ष्यते नेतर इत्यवगन्तव्यम् । एवं च निरुक्ते पठ्यते - ‘तस्यैको रश्मिः चन्द्रमसं प्रतिदीप्यते तेनोत्प्रेक्षितव्यमादित्योस्य दीप्तिर्भवति’ इति । तादृशः चन्द्रमा गन्धर्वः नक्षत्राण्यप्सरसः वृष्टिहेतुत्वात् । बेकुरयः वर्णव्यावृत्तिश्छान्दसी, भेकुरयः । वाजसनेयिनामेष एव पाठः । भयं यक्ष्माख्यं चन्द्रस्य कृतवत्यः इत्यर्थः । बिभेतेर्व्यत्ययेन भावे विन्, करोतेरौणादिके किप्रत्यये छान्दसमुत्वम् । अन्य आहुः - वृष्ट्यादिकरणशीलाः बेकुरयः । वेरुपसर्गस्य स्वरव्यञ्जनयोर्वृत्तिरिति ॥

मूलम् (संयुक्तम्)

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रस॑स्स्त॒वाः

विश्वास-प्रस्तुतिः

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्,
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वा [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्,
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वाः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

4भुज्युः भुनक्ति पालयति विश्वमिति भुज्युः, भुजेरौणादिकः क्युप्रत्ययः । सुपर्णः शोभनपतनः शोभनगमनः । पूर्वपदान्तोदात्तत्वम् । ईदृशो यज्ञः गन्धर्वो भवति । दक्षिणा अप्सरसः । दक्षिणा, दक्ष वृद्धौ, दक्षिणेति कल्याण्यः दक्षिणावृद्ध्यै भवन्ति । तामेव कल्याणतामाह - स्तवा इति । स्तूयन्त इति स्तवाः । यद्वा - स्तूयते पुरुषो याभिस्ताः स्तवाः यो भूरि ददाति सः स्तूयते हि लोके न कर्मणैव । ऋदोरप् । उञ्छादिर्द्रष्टव्यः ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [19] ग॒न्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑यः

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः,
तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑यो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः,
तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑यः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

5प्रजापतिः प्रजानां पालयिता । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । विश्वकर्मा विश्वं करणीयं यस्य स विश्वकर्माः ; मनोनिबन्धनत्वात्सर्वप्रवृत्तीनाम् । पूर्ववद्विश्वशब्दस्य अन्तादोत्तत्वम् । उभयत्रापि लिङ्गव्यत्ययः । यद्वा - प्रजापतिर्वीश्वकर्मभावेन स्तूयते तत्कार्यभावेन प्रवणार्थं, लुप्तोपमा वा । मनो गन्धर्वः सम्यग्यागनिवृत्तेः । ऋक्सामान्यप्सरसः. यजुषामप्युपलक्षणम् । वह्नयः ऋगादयः यज्ञं वहन्ति मनसा गृहीतत्वात्ताः ॥

मूलम् (संयुक्तम्)

इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ऽप्स॒रसो॑ मु॒दा

विश्वास-प्रस्तुतिः

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः,
तस्यापो॑ऽप्स॒रसो॑ मु॒दा [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः,
तस्यापो॑ऽप्स॒रसो॑ मु॒दाः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

6इषिरः सरणशीलस्सदागतिः । इष गतौ, औणादिकः किरच्प्रत्ययः । विश्वव्यचा विष्वग्भागं व्यचति पुरोवातादिरूपेण व्याप्नोति, विपूर्वादञ्चतेः ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वस्य च बहुव्रीहिस्वरस्योपलक्षणत्वात् ‘बहुव्रीहौ विश्वम्’ इत्येतद्भवति । वातो गन्धर्वः, आपोप्सरसः व्याप्तिमत्यः वर्ष्या आपः मुदा नाम मोदयित्र्यः प्रजानां, ताभिर्हि सर्वे मोदन्ते, इगुपधात्कः ॥

विश्वास-प्रस्तुतिः

भुव॑नस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निँ+++(=अहानिं)+++ रा॒यस्-पोषँ॑ सु॒वीर्यँ॑ सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् ।

मूलम्

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निँ रा॒यस्पोषँ॑ सु॒वीर्यँ॑ सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् ।

भट्टभास्कर-टीका

7भुवनस्येत्यादि ॥
भुवनस्य भूतजातस्य पते पालयितः
उपरि द्युलोक्तान्तरिक्षयोः
इह च पृथिव्यां ग्रहाः ग्रहवासिनः ।
ते स्वभूताः त्वं नो स्मभ्यं रास्व देहि । व्यत्ययेनात्मनेपदम् ॥ अज्यानिं अहानिं अहानिनिमित्तम् । क्तिनो निष्ठावद्भावात् ‘ल्वादिभ्यश्च’ इति नत्वम् । रायो धनस्य पोषं सुवीर्यं शोभनवीर्यकम् । ‘वीरवीर्यौ च’ इत्युत्तरपदान्तादोत्तत्वम् । संवत्सरीणां च स्वस्तिं अविनाशं संवत्सरभावीति । ‘संपरिपूर्वात्ख च’ इति खः ॥

मूलम् (संयुक्तम्)

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुव॑स्

विश्वास-प्रस्तुतिः

प॒र॒मे॒ष्ठ्य् अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः,
तस्य॒ विश्व॑मप्स॒रसो॒ भुवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वः,
तस्य॒ विश्व॑मप्स॒रसो॒ भुवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

8परमेष्ठी परमे स्वभावे तिष्ठतीति प्रत्यये ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । अधिपतिः स्वामी मृत्युः गन्धर्वः विश्वं भूतजातं अप्सरसः सम्यङ्नीयमानं विश्वस्थितिहेतुरिति । भुवो नाम भवन्तीति भुवः । मध्यस्थतामादाय भूतानि धारयन्तीति ॥

मूलम् (संयुक्तम्)

सुक्षि॒तिस्सुभू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॑

विश्वास-प्रस्तुतिः

सु॒क्षि॒तिस्सुभू॑तिर्भद्र॒कृत्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः,
तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ +++(‘ता इदं ब्रह्म क्षत्रं पान्तु’) +++ रुचो॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒क्षि॒तिस्सुभू॑तिर्भद्र॒कृत्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः,
तस्य॑ वि॒द्युतो॑ऽप्स॒रसो॒ +++(‘ता इदं ब्रह्म क्षत्रं पान्तु’) +++ रुचो॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

9सुक्षितिः शोभनक्षितिकः । पूर्ववत्स्वरः । सुभूतिः शोभनभूतिः सम्पत् प्रजानाम् । प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । भद्रकृत् कल्याणकरी सर्वेषां सुवर्वान् द्युलोकवान् सस्यनिष्पत्त्यादिना तद्धारणात् । आदित्यवान्वा ; तदधीनप्रवृत्तित्वात् । ‘छन्दसीरः’ इति मतुपो वत्वम् । शोभनारणवान्वा । तन्वादित्वादुवङ् । पर्जन्यो गन्धर्वः । विद्युतोप्सरसः । रुचः रुचमानाः नभसि दीप्यमानाः ।

मूलम् (संयुक्तम्)

दू॒रेहे॑तिरमृड॒यः [20] मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुवः

विश्वास-प्रस्तुतिः

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः,
तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुवो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः,
तस्य॑ प्र॒जा अ॑प्स॒रसो॑ भी॒रुवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

10दूरेहेतिः दूरेऽपि हेतिर्हननं यस्य, दूरेऽप्येतच्छ्रवणेन म्रियते इति कृत्वा । ‘ऊतियूति’ इत्यादौ हेतिशब्दो निपात्यते, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । अमृडयः दुःखयिता श्रवणमात्रेणैव भीतिजनकत्वात् । मृडेर्ण्यन्ताच्छान्दसः शः । मृत्युः श्रोतॄणां मारयिता त्रासनयत्नः गन्धर्वः प्रजा अप्सरसः ; तदर्थत्वात्तत्प्रवृत्तेः । भीरुवः भयशीलाः पुष्याभाया ? ॥

मूलम् (संयुक्तम्)

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो॑ऽप्स॒रस॑श्शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा

विश्वास-प्रस्तुतिः

चारु॑ᳵ कृपण-का॒शी कामो॑ गन्ध॒र्वः,
तस्या॒धयो॑ऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑न्तु॒ तस्मै॒ स्वाहा॒, ताभ्य॒स् स्वाहा॑॥

मूलम्

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वः,
तस्या॒धयो॑ऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ क्ष॒त्रम्पा॑न्तु॒ तस्मै॒ स्वाहा॒, ताभ्य॒स् स्वाहा॑

भट्टभास्कर-टीका

11चारुः चरणशीलः वीषयमवगाहत इति कृपणकाशी कृपणेष्विन्द्रियाथेर्षु मनः काशयतीति ‘सुप्यजातौ’ इति णिनिः । कामो गन्धर्वः । तेन हि यागादिद्वारेण वृत्तिरुत्पाद्यते । तस्याधयोप्सरसः आधीयन्ते ऋद्धावित्याधयः काम्या इन्द्रियार्था उच्यन्ते । ‘उपसर्गे घोः किः’ । शोचयन्तीः शोचयन्त्यः, तेषामलाभेन हि प्रजाः शोचन्ते । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । नामेत्यादि पुनराम्नायते अनुषङ्गसमाप्तिं द्योतयितुम् ॥

विश्वास-प्रस्तुतिः

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]

मूलम्

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]

भट्टभास्कर-टीका

12स न इत्यादि ॥ व्याख्यातमर्धर्चम् ।

  • {भुवनस्येत्यादि ॥ भुवनस्य भूतजातस्य पते पालयितः उपरि द्युलोक्तान्तरिक्षयोः इह च पृथिव्यां ग्रहाः ग्रहवासिनः । ते स्वभूताः स त्वं नोस्मभ्यं रास्व देहि । व्यत्ययेनात्मनेपदम् ॥ }

स त्वं नोस्माकं सम्बन्धिने अस्मै ब्रह्मणे अस्मै क्षत्राय उरु विस्तीर्णं महि महनीयं च शर्म सुखं यच्छ देहि । अन्ये आहुः - स न इति काम उच्यते । यस्य ते उपरि गृहाः इह च । स त्वं हे भुवनस्य पते काम ब्रह्मणे क्षत्राय च अस्मै उरु महनीयं च शर्म यच्छेति ॥

इति तृतीये चतुर्थे सप्तमोनुवाकः ॥