जयादयः

०४ जयहोममन्त्राः, तत्प्रशंसा च ...{Loading}...

१३ त्रिष्टुप्

विश्वेदेवा ऋषयः

भास्करोक्त-विनियोगः

1अथ जयाः स्पर्धमानस्य ‘स्पर्धमानेनैते होतव्याः’ इति, सामान्येन विहिताश्च ‘येन कर्मणेर्त्सेत्’ इति ।

विश्वास-प्रस्तुतिः

चि॒त्तं च॒ [स्वाहा॑]। चित्ति॒श् च॒ [स्वाहा॑]।
आकू॑तं॒ च॒ [स्वाहा॑]। आकू॑तिश् च॒ [स्वाहा॑]।
विज्ञा॑तं च॒ [स्वाहा॑]। वि॒ज्ञानं॑ च॒ [स्वाहा॑]।
मन॑श् च॒ [स्वाहा॑]। शक्व॑रीश् च॒ [स्वाहा॑]।
दर्श॑श् च॒ [स्वाहा॑]। पू॒र्णमा॑सश् च॒ [स्वाहा॑]।
बृ॒हच् च॑ [स्वाहा॑]। र॒थ॒न्त॒रं च॑ [स्वाहा॑]।

मूलम्

चि॒त्तञ्च॒ चित्ति॒श्चाकू॑त॒ञ्चाकू॑तिश्च॒ विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथन्त॒रञ्च॑

भट्टभास्कर-टीका

चित्तं चेत्यादयस्स्रुवाहुतयः । चशब्दस्समुच्चयार्थः; वाक्यस्यापरिसमाप्तत्वात् । माऽस्त्विति शेषः । येन चेतयते तच्चित्तम् ।

चित्तिश्चेतना ।

आकूतं संकल्प्यो विषयः ।

आकूतिस्संकल्पः ।

विज्ञातं विविधं ज्ञातव्यम् ।

विज्ञानं विविधं वेदनम् ।

मनः अन्तःकरणम् ।

शक्वरी शक्वर्यः चक्षुरादिबाह्येन्द्रियशक्तयः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । आकूत्यादिषु त्रिषु गतेः प्रकृतिस्वरत्वम् ।

दर्शपूर्णमासौ कालौ, कर्मणी वा । सर्वेषां कर्मकालानां कर्मणां च प्रधानयोरुपादानमुपलक्षणार्थम् ।

एवं बृहद्रथन्तरयोस्साम्नोर्वेदितव्यम् ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रᳶ पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वा॒स्स उ॒ग्रस्स हि हव्यो॑ ब॒भूव॑

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र् जया॒न् इन्द्रा॑य॒ वृष्णे॒
प्राय॑च्छद् उ॒ग्रᳶ पृ॑त॒नाज्ये॑षु॒।
तस्मै॒ विश॒स् सम॑नमन्त॒ सर्वा॒स्
स उ॒ग्रस् स हि हव्यो॑ ब॒भूव॑॥
[स्वाहा॑॥]

मूलम्

प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रᳶ पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वा॒स्स उ॒ग्रस्स हि हव्यो॑ ब॒भूव॑

भट्टभास्कर-टीका

2अथ प्रजापतिर्जयानिति अत्र त्रयोदशी त्रिष्टुप् ॥ ‘वृष्णे’ इति प्रथमपादान्तः ‘सर्वाः’ इति तृतीयापादान्तः । प्रजापतिर्जयानेतानिन्द्राय वृष्णे वर्षित्रे प्रायच्छत् दत्तवान् ।

उग्रः उद्गीर्णः पृतनाज्वेषु संग्रामाभिगमनेषु उद्गीर्णशक्तिः प्रजापतिः । यद्वा - जयान् लब्ध्वा इन्द्रःसंग्रामेषूद्गीर्णो बतूव । अजः अञ्जो वा भावे यति छान्दसं रूपं, अत एवानवग्रहः ।

ततः प्रभृति तस्मै इन्द्राय सर्वा विशः प्रजास्समनमन्त प्रतिज्ञाविधेया अभवन् । स उग्रः स खलूग्रो भवति, यस्मै विशस्समनमन्त, याः पूर्वं स्पर्धीताः ।

यद्वा - यो जयान् जुहोति स खलूग्रो भवति स एब हव्यो यागार्हश्च इज्यश्च बभूव भवति । छान्दसो लिट् ॥

ब्राह्मणम्

मूलम् (संयुक्तम्)

देवासु॒रास्सय्ँय॑त्ता आस॒न्थ्स इन्द्रᳶ॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒ताञ्जया॒न्प्राय॑च्छ॒त्तान॑जुहो॒त्ततो॒ वै दे॒वा असु॑रानजय॒न्यदज॑य॒न्तज्जया॑नाञ्जय॒त्वꣵ स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व ताम्पृत॑नाम् ॥ [15]

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।

स इन्द्रᳶ॑ प्र॒जाप॑ति॒मुपा॑धावत् ।

तस्मा॑ ए॒ताञ् जया॒न् प्राय॑च्छत् ।

तान् अ॑जुहोत् ।

ततो॒ वै दे॒वा असु॑रानजयन् ।

मूलम्

दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।

स इन्द्रᳶ॑ प्र॒जाप॑ति॒मुपा॑धावत् ।

तस्मा॑ ए॒ताञ्जया॒न्प्राय॑च्छत् ।

तान॑जुहोत् ।

ततो॒ वै दे॒वा असु॑रानजयन् ।

भट्टभास्कर-टीका

3अथ जयानां ब्राह्मणं - देवासुरा इत्यादि ॥

विश्वास-प्रस्तुतिः

यद् अज॑य॒न्
तज् जया॑नाञ् जय॒त्वम् ।
स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ -
जय॑त्य् ए॒व ताम् पृत॑नाम् ॥ [15]

मूलम्

यदज॑य॒न् तज्जया॑नाञ्जय॒त्वम् ।
स्पर्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व ताम्पृत॑नाम् ॥ [15]

भट्टभास्कर-टीका

तज्जयानां जयत्वमिति । जयति परसेनामेतैरिति जयाः ॥

इति तृतीये चतुर्थे चतुर्थोनुवाकः ॥