देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां