चित्तिस् सृक्

चित्ति॒स्स्रुक् ।
चि॒त्तमाज्य॑म् ।
वाग्वेदिः॑ ।
आधी॑तं ब॒र्॒हिः ।
केतो॑ अ॒ग्निः ।
विज्ञा॑तम॒ग्निः ।
वाक्प॑ति॒र्होता॑ ।
मन॑ उपव॒क्ता ।
प्रा॒णो ह॒विः ।
सामा॑ध्व॒र्युः ।