०८ अग्निर् मे वाचि ...{Loading}...
अ॒ग्निर् मे॑ वा॒चि श्रि॒तः । वाग्घृद॑ये । हृद॑यं॒ मयि॑ । अ॒हम् अ॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि ॥
वा॒युर् मे॑ प्रा॒णे श्रि॒तः …।
सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः …। च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः …।
दिशो॑ मे॒ श्रोत्रे॑ श्रि॒ताः …।
आपो॑ मे॒ रेत॑सि श्रि॒ताः…।
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता …।
ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः …॥
इन्द्रो॑ मे॒ बले॑ श्रि॒तः …। प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः … ।
ईशा॑नो मे म॒न्यौ श्रि॒तः …।
आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः…।
पुन॑र् म आ॒त्मा पुन॒रायु॒र् आगा॑त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒म् आगा॑त् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑र् वावृधा॒नः । अ॒न्तस् ति॑ष्ठत्व् अ॒मृत॑स्य गो॒पाः ॥