०५ अभ्यातानमन्त्राः ...{Loading}...
विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1येन कर्मणेर्त्सेत् तत्राभ्यातानान् सप्तदश स्रुवाहुतीर्जुहोति - अग्निर्भूतानामित्यादीन् ॥
मूलम् (संयुक्तम्)
अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑व॒त्विन्द्रो᳚ ज्ये॒ष्ठाना᳚य्ँय॒मᳶ पृ॑थि॒व्या वा॒युर॒न्तरि॑ख्षस्य॒ सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नख्ष॑त्राणा॒म्बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रस्स॒त्याना॒व्ँवरु॑णो॒ऽपाꣳ स॑मु॒द्रस्स्रो॒त्याना॒मन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु॒ सोम॒ ओष॑धीनाꣳ सवि॒ता प्र॑स॒वानाꣳ॑ रु॒द्रᳶ प॑शू॒नान्त्वष्टा॑ रू॒पाणा॒व्ँविष्णु॒ᳶ पर्व॑तानाम्म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु
सङ्क्षेपः
अ॒ग्निर्भू॒ताना॒म् [अधि॑पतिः॒ स मा॑व॒तु, अ॒स्मिन्ब्रह्म॑न्न् (अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे) अ॒स्मिन्क्ष॒त्रे॑ ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म् अ॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू॑त्याम् [स्वाहा]]…।
इन्द्रो॑ ज्ये॒ष्ठानाम् ……। य॒मः पृ॑थि॒व्या…। वा॒युर॒न्तरि॑क्षस्य॒…।
सूर्यो॑ दि॒वः…। च॒न्द्रमा॒ नक्ष॑त्राणा॒म्…। बृह॒स्पति॒र्ब्रह्म॑णः…।
मि॒त्रः स॒त्याना॒म्…। वरु॑णो॒ऽपा॑म्…। स॑मु॒द्रः स्रो॒त्याना॒म्…।
अन्न॒ँ साम्रा॑ज्याना॒म् अधि॑पति॒ तन्मा॑वतु॒…।
सोम॒ ओष॑धीनाम्…। सवि॒ता प्र॑स॒वानाम्…।
रु॒द्रः प॑शू॒नाम्…। त्वष्टा॑ रू॒पाणाम्…। विष्णुः॒ पर्व॑तानाम्…। म॒रुतो॑ ग॒णाना॒म् अधि॑पतय॒स् ते मा॑वन्तु॒…।
पित॑रः पितामहाः परेऽवरे॒ ततास् ततामहा इ॒ह मा॑वत …। …।…।
विश्वास-प्रस्तुतिः
अ॒ग्निर्भू॒ताना॒म् अधि॑पति॒स् स मा॑व॒तु
[अ॒स्मिन् ब्रह्म॑न्न् (अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑व॒तु
[अ॒स्मिन् ब्रह्म॑न्न् (अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]]॥
भट्टभास्कर-टीका
हुत्वाहुत्वा वाचयति - पितरः पितामहा इति । इयं जगती अतिजगती वा । ‘आशिषि’ इति तृतीयपादान्तः । अग्निः भूतानां प्रजानां अधिपतिः स्वामी स माऽवतु रक्षतु स्वाहुतमिदमस्तु तस्मा इति । ‘अधिपतिस्स माऽवतु’ इति सर्वत्रानुषज्यते । यत्र तु लिङ्गभेदो वचनभेदो वा भवति तत्राम्नायत एव स विशेषः, यथा - ‘अन्नं साम्राज्यानामधिपति तन्माऽवतु’ ‘मरुतो गणानामधिपतयस्ते माऽवन्तु’ इति ॥
विश्वास-प्रस्तुतिः
इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
2इन्द्रो ज्येष्ठानामधिपतिः [वृद्धतमानां लोकपालानाम्] ॥
विश्वास-प्रस्तुतिः
य॒मᳶ पृ॑थि॒व्याः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
य॒मᳶ पृ॑थि॒व्याः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
3यमोग्निविशेषः, ‘अग्निर्वाव यम इयं यमी’ इति । यम एव वा ॥
विश्वास-प्रस्तुतिः
वा॒युर॒न्तरि॑ख्षस्य [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
सूर्यो॑ दि॒वः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
च॒न्द्रमा॒ नख्ष॑त्राणाम् [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
वा॒युर॒न्तरि॑ख्षस्य [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
सूर्यो॑ दि॒वः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
च॒न्द्रमा॒ नख्ष॑त्राणाम् [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
4-6वायुरन्तरिक्षस्येत्यादि ॥ गतम् ॥
विश्वास-प्रस्तुतिः
बृह॒स्पति॒र्ब्रह्म॑णः [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
बृह॒स्पति॒र्ब्रह्म॑णः [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
7बृहस्पतिर्ब्रह्मणः ऋत्विजोधिपतिः ब्राह्मणजनेर्वा । बृहस्पतिशब्दो वनस्पत्यादित्वादाद्युदात्तः ॥
विश्वास-प्रस्तुतिः
मि॒त्रस्स॒त्याना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
मि॒त्रस्स॒त्याना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
8मित्रस्सत्यानां सत्यवताम् ॥
विश्वास-प्रस्तुतिः
वरु॑णो॒ऽपाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
वरु॑णो॒ऽपाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
9वरुणोपां स्थावराणाम् । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
स॑मु॒द्रस्स्रो॒त्याना॒म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
स॑मु॒द्रस्स्रो॒त्याना॒म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
10समुद्रस्स्रोत्यानां स्रोतसि भवानां नद्यादीनाम् । ‘स्रोतसो विभाषा ड्यड्ड्यौ’ इति ड्यः ॥
विश्वास-प्रस्तुतिः
अन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
अन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
11अन्नं साम्राज्यानां सम्यग्राजवतां अधिपति मा अवतु ॥
विश्वास-प्रस्तुतिः
सोम॒ ओष॑धीनाम् [अधि॑पति॒स् स मा॑व॒तु]
,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
सोम॒ ओष॑धीनाम् [अधि॑पति॒स् स मा॑व॒तु]
,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
12सोम ओषधीनां फलपाकान्ताम् ॥
विश्वास-प्रस्तुतिः
स॒वि॒ता प्र॑स॒वाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
स॒वि॒ता प्र॑स॒वाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
13सविता प्रसवानां अनुज्ञानानाम् ॥
विश्वास-प्रस्तुतिः
रु॒द्रᳶ प॑शू॒नाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
रु॒द्रᳶ प॑शू॒नाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
14रुद्रः पशूनां द्विपदां चतुष्पदां च । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
त्वष्टा॑ रू॒पाणा᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
त्वष्टा॑ रू॒पाणा᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
15त्वष्टा रूपाणां रूपणीयानाम् ॥
विश्वास-प्रस्तुतिः
विष्णु॒ᳶ पर्व॑तानाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
मूलम्
विष्णु॒ᳶ पर्व॑तानाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]
भट्टभास्कर-टीका
16विष्णुः पर्वतानां धारणानां धराधराणां तेषामपि धारकत्वात् ॥
विश्वास-प्रस्तुतिः
म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु {अ॒स्मिन्ब्रह्म॑न् + अ॒स्मिन्ख्ष॒त्रे᳚ + अस्यामा॒शिष्य॒स्याम् पु॑रो॒धाया॑म् + अ॒स्मिन्कर्म॑न् + अ॒स्यान्दे॒वहू᳚त्याम् ॥}
मूलम्
म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु {अ॒स्मिन्ब्रह्म॑न् + अ॒स्मिन्ख्ष॒त्रे᳚ + अस्यामा॒शिष्य॒स्याम् पु॑रो॒धाया॑म् + अ॒स्मिन्कर्म॑न् + अ॒स्यान्दे॒वहू᳚त्याम् ॥}
भट्टभास्कर-टीका
17मरुतो गणानां संघातानामधिपतयः ते मा अवन्तु ॥
विश्वास-प्रस्तुतिः
पित॑रᳶ पितामहाᳶ परेऽवरे॒ तता᳚स्ततामहा इ॒ह मा॑ऽवत ।
मूलम्
पित॑रᳶ पितामहाᳶ परेऽवरे॒ तता᳚स्ततामहा इ॒ह मा॑ऽवत ।
भट्टभास्कर-टीका
18पितरः इत्यादीनि षडामन्त्रितपदानि । पितृततशब्दयोः पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अन्येषां तु निघातः । तत्र पितरः उत्पादयितारः । तेषां पितरः पितामहाः । जीवपितृतार्थं पितामहग्रहणम् ॥
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ॥ इति ॥
सप्तमादूर्ध्वं ये विप्रकृष्टास्ते परे । ततोर्वाचीनास्सान्नीकृष्टाः अवरे । तताः येभ्यो दीयते पिण्डस्ते तताः पित्रादयस्त्रयः । तेषां पितरस्ततामहाः ये न पृथक्पिण्डभाजः उभयत्रापि पिण्डभाजश्च । ते सर्वे यूयमिह कर्मणि वर्तमानं मां अवत रक्षत ।
विश्वास-प्रस्तुतिः
अ॒स्मिन् ब्रह्म॑न्न् (अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥ [16]
मूलम्
अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू᳚त्याम् [16]
भट्टभास्कर-टीका
अस्मिन्नित्यादि । ‘निमित्तात्कर्मसंयोगे’ इति सर्वा निमित्तसप्तमी । अस्मिन् ब्रह्मन् ब्राह्मणे जातिनिर्देशोयं, इयं ब्राह्मणजातिस्संपद्यतामिति । ब्राह्मणस्य निमित्तं वा । ‘ऊडिदम्’ इति सप्तम्या उदात्तत्वम् । क्षत्रे क्षत्रजातौ । आशिषि आशासनीये फले प्रजापश्वादौ । ‘आशासः क्वौ’ इतीत्वम्, ‘शासिवसि घसीनां च’ इति षत्वम् । पुरोधायां पुरस्करणे सर्वेषां प्राधान्ये । पुरस उपसर्गभावात् ‘आतश्चोपसर्गे’ इति भिदादिर्द्रष्टव्यः । कर्मणि क्रियमाणे क्रियाविशेषे देवहूयां देवानामाह्वाने पूजायाम् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥
इति तृतीये चतुर्थे पञ्चमोनुवाकः ॥