रामं स्कन्दं हनूमन्तं
वैनतेयं वृकोदरम् ।
शयने यः स्मरेन् नित्यं
दुःस्वप्नस् तस्य नश्यति ॥
स मे कामान् कामकामाय मह्यं
कामेश्वरो वैश्रवणो ददातु ॥
कुबेराय वैश्रवणाय
महाराजाय नमः ।
स्वस्ति प्रजाभ्यः परिपालयन्तां,
न्याय्येन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं,
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः
पृथिवी सस्य-शालिनी ।
देशोऽयं क्षोभ-रहितो
ब्राह्मणाः सन्तु निर्भयाः ॥ २॥
अपुत्राः पुत्रिणः सन्तु
पुत्रिणः सन्तु पौत्रिणः ।
अधनाः सधनाः सन्तु
जीवन्तु शरदां शतम् ॥ ३॥
सर्वे भवन्तु सुखिनः,
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु
मा कश्चिद् दुःखभाग्भवेत् ॥
देवताभ्यः पितृभ्यश्च ...{Loading}...
देवताभ्यः पितृभ्यश्च
महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै
नित्यम् एव नमो नमः ॥
शरलोक(=Sherlock H)लोचनशरै रहस्यपशवः कथं नु मुच्येरन्। प्रत्यक्षं च परोक्षं भेदं त्यक्त्वा प्रकाशन्ते॥