Mapping of certain deities with the days of the 2 fortnights as per the kaTha tradition: As far as we know pATora is a hapax.
अग्नेः पक्षतिः
सरस्वत्या निपक्षतिः
सोमस्य तृतीया
ऽपां चतुर्थ्योषधीनां पञ्चमी
रुद्रस्य षष्ठी
मरुताँ सप्तमी
बृहस्पतेर् अष्टमी
मित्रस्य नवमी
वरुणस्य दशमीन्द्रस्यैकादशी
विश्वेषां देवानां द्वादशी
द्यावा-पृथिव्योः पार्श्वं
यमस्य पाटोरः ॥
वायोः पक्षतिः
सरस्वतो निपक्षतिश्
चन्द्रमसस् तृतीया
नक्षत्राणां चतुर्थी
सवितुः पञ्चमी
संवत्सरस्य षष्ठी
सर्पाणाँ सप्तम्य्
अर्यम्णोऽष्टमी
धातुर् नवमी
त्वष्टुर् दशमीन्द्राण्या एकादश्य्
अदित्या द्वादशी
द्यावापृथिव्योः पार्श्वं
यम्याः पाटोरः ॥
An alternative mapping provided in the maitrAyaNIya shruti -
इन्द्राग्न्योः पक्षतिः
सरस्वत्या निपक्षतिर्
इन्द्रस्य तृतीया
बृहस्पतेश् चतुर्थी
निरृत्याःपञ्चमी
इन्द्राण्याःषष्ठी
सर्पाणां सप्तमी
विष्णोर् अष्टमी
अर्यम्णो नवमी
धातुर् दशमी
इन्द्रस्यैकादशी
वरुणस्य द्वादशी
यम्यास्त्रयोदशी
द्यावा-पृथिव्योर् दक्षिणं पार्श्वम्
विश्वेषां देवानां उत्तरं॥