+++(काठकब्राह्मणम् अन्यत्र।)+++
आदित्यस् तेजस्वी - तेजो अस्मिन् यज्ञे यजमाने दधातु ॥१ ॥
शुक्रो भ्राजस्वी - भ्राजो अस्मिन् यज्ञे यजमाने दधातु ॥२ ॥
बृहस्पतिर् वाक्पतिर् - वाचो अस्मिन् यज्ञे यजमाने दधातु ॥३ ॥
बुधो बुद्धिमान् बुद्धिम् - अस्मिन् यज्ञे यजमाने दधातु ॥४ ॥
अर्को+++(→भौमः)+++ यशस्वी - यशो अस्मिन् यज्ञे यजमाने दधातु ॥५ ॥
सौरः+++(→शनिः)+++ सुरभिः - सुरभिम् अस्मिन् यज्ञे यजमाने दधातु ॥६ ॥
चन्द्रमा आयुष्मान् - आयुर् अस्मिन् यज्ञे यजमाने दधातु ॥७ ॥
राहुर् अभयम् - अभयम् अस्मिन् यज्ञे यजमाने दधातु ॥८ ॥
केतुर् अनपरोध्य् - अनपरोधम् अस्मिन् यज्ञे यजमाने दधातु ॥९ ॥
ध्रुवो धैर्यवान् - धैर्यम् अस्मिन् यज्ञे यजमाने दधातु ॥१० ॥
अगस्त्यो वीर्यवान् - वीर्यम् अस्मिन् यज्ञे यजमाने दधातु ॥११ ॥
प्रेद्धो अग्ने दीदिहि पुरो नो
यत्र देवाः पूर्वे पुराणाः ॥
यत्रासौ वैश्वानरः स्तोकातिथिस्
तत्रेमं यज्ञं यजमानं च धेहि ॥१ ॥
इमो अग्ने वीततमानि हव्या
प्रेदं हविः प्राष्ट्रेमान् स्तोकान्।
स्तोकातिथिः स्तोकजूतिः पतत्र्य्
अथा ह्य् अग्ने अमृतत्वं च धेहि ॥२ ॥