महीम् ऊ षु ...{Loading}...
म॒हीम् ऊ॒ षु मा॒तरँ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम ।
तु॒वि॒+++(=प्रवृद्ध)+++-क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीँ+++(=उरुगमनां)+++
सु॒शर्मा॑ण॒म् अदि॑तिँ+++(=अखण्डनीयां)+++ सु॒प्रणी॑तिम् ॥
महीम् ऊ षु ...{Loading}...
Keith
The mighty mother of the righteous,
The spouse of holy order, let us invoke to aid us,
The powerful, the unageing, the wide
Aditi, who giveth good protection and good guidance.
भट्टभास्कर-टीका
महीं महतीं महनीयां वा मातरं मातृस्थानीयां वा सुव्रतानां शोभनकर्मणां पुरुषाणाम् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ऋतस्य सत्यस्य यज्ञस्य वा पत्नीं पालयित्रीं तुविक्षत्रां बहुलां बहुधनां वा । त्रिचक्रादित्वाद् उत्तरपदान्तोदात्तत्वम् ।
अजरन्तीम् अविनाशां उरूचीम् उरु महतोञ्चतीं बहुप्रकारगातिं वा । ‘चौ’ इति पूर्वपदस्य दीर्घत्वं उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् ।
सुशर्माणं सुसुखाम् । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् ।
अदितिम् अखण्डनीयां सुप्रणीतिं सुखेन शर्मणां प्रणेत्रीम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तत्र च ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
ईदृशीं महीं देवीम् अवसे रक्षणाय तस्यास्तर्पणाय वा हुवेम सुष्ठु आह्वयामः । व्यत्ययेन शः । पूर्ववत्सम्प्रसारणम्, ‘सुञः’ इति सोस्संहितायां षत्वम् । उ इति पादपूरणे । ‘अन्येषामपि दृश्यते’ इति तस्य संहितायां दीर्घत्वम् ॥
मूलम्
म॒हीमू॒ षु मा॒तरँ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम ।
तु॒वि॒क्ष॒त्त्राम॒जर॑न्तीमुरू॒चीँ सु॒शर्मा॑ण॒मदि॑तिँ सु॒प्रणी॑तिम् ॥