वेङ्कटनाथः

श्रीमान् वेङ्कट-नाथार्यः
कवि-तार्किक-केसरी ।
वेदान्ताचार्य-वर्यो मे
संनिधत्तां सदा हृदि ॥

रामानुज-दया-पात्रं
ज्ञान-वैराग्य-भूषणम् ।
श्रीमद्-वेङ्कट-नाथार्यं
वन्दे वेदान्त-देशिकम् ॥

कवि-तार्किक-सिंहाय
कल्याण-गुण-शालिने ।
श्रीमते वेङ्कटेशाय
वेदान्त-गुरवे नमः ॥