श्रीवैष्णव-गुरुपरम्परा-स्तुतिः

श्रीगुरुपरम्परा

॥ श्रीः ॥

श्रीमते रामानुजाय नमः
श्रीमते वेदान्तमहागुरवे नमः

श्रीमते रामानुजाय नमः ।
श्रीलक्ष्मीनृसिंह परब्रह्मणे नमः ।

अस्मद्गुरुभ्यो नमः ।
अस्मत्परमगुरुभ्यो नमः ।
अस्मत्सर्वगुरुभ्यो नमः ।
श्रीमते वेदान्तगुरवे नमः ।
श्रीमते रामानुजाय नमः ।
श्री-पराङ्कुश-दासाय नमः ।
श्रीमद्-यामुनमुनये नमः ।
श्रीराम-मिश्राय नमः ।
श्रीपुण्डरीकाक्षाय नमः ।
श्रीमते नाथमुनये नमः ।
श्रीमते शठकोपाय नमः ।
श्रीविष्वक्सेनाय नमः ।
श्रीश्रियै नमः ।
श्रीधराय नमः ॥

विश्वास-प्रस्तुतिः

अस्मद्-देशिकम् अस्मदीय-परमाचार्यान् अशेषान् गुरून्
श्रीमल्-लक्ष्मण-योगि-पुङ्गव–महा-पूर्णं मुनीनां मुनिम् ।
रामं पद्म-विलोचनं मुनिवरं, नाथं, शठ-द्वेषिणम्
सेनेशं, श्रियम्, इन्दिरा-सहचरं नारायणं संश्रये ॥

मूलम्

अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून् ।
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णं मुनीनां मुनिम् ॥
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणम् ।
सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ॥

विश्वास-प्रस्तुतिः

सर्व-देश-दिशा-कालेष्व्
अव्याहत-पराक्रमः ।
रामानुजार्य-दिव्याज्ञा
वर्धताम् अनुवर्धताम् ॥ ३॥

मूलम्

सर्वदेशदिशाकालेष्वव्याहतपराक्रमः ।
रामानुजार्यदिव्याज्ञा वर्धतामनुवर्धताम् ॥ ३॥

विश्वास-प्रस्तुतिः

रामानुजार्यदिव्याज्ञा
प्रतिवासरम् उज्ज्वला ।
दिगन्त-व्यापिनी भूयात्
सा हि लोकहितैषिणी ॥ ४॥

मूलम्

रामानुजार्यदिव्याज्ञा प्रतिवासरमुज्ज्वला ।
दिगन्तव्यापिनी भूयात्सा हि लोकहितैषिणी ॥ ४॥

विश्वास-प्रस्तुतिः

श्रीमन् श्रीरङ्गश्रियम् अनुपद्रवाम् अनुदिनं संवर्धय ।(द्विः)

मूलम्

श्रीमन् श्रीरङ्गश्रियमनुपद्रवामनुदिनं संवर्धय ।
श्रीमन् श्रीरङ्गश्रियमनुपद्रवामनुदिनं संवर्धय ।

विश्वास-प्रस्तुतिः

नमो रामानुजार्याय
वेदान्तार्थप्रदायिने ।
आत्रेय-पद्मनाभार्य-
सुताय गुण-शालिने ॥

मूलम्

नमो रामानुजार्याय
वेदान्तार्थप्रदायिने ।
आत्रेयपद्मनाभार्य-
सुताय गुणशालिने ॥

विश्वास-प्रस्तुतिः - देशिक-परम्परायाम्

रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ॥
श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥ ६॥

मूलम्

रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ॥
श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥ ६॥

विश्वास-प्रस्तुतिः - जामातृ-परम्परायाम्

श्रीशैलेश-दयापात्रं
धीभक्त्यादि-गुणार्णवम् ।
यतीन्द्र-प्रवणं वन्दे
रम्य-जामातरं मुनिम्॥

मूलम्

श्रीशैलेश-दयापात्रं
धीभक्त्यादि-गुणार्णवम् ।
यतीन्द्र-प्रवणं वन्दे
रम्य-जामातरं मुनिम्॥

विश्वास-प्रस्तुतिः

लक्ष्मी-नाथ-समारम्भां
नाथ-यामुन-मध्यमाम् ।
अस्मद्-आचार्य-पर्यन्तां
वन्दे गुरुपरम्पराम् ॥ ७॥

मूलम्

लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ७॥

विश्वास-प्रस्तुतिः

यो नित्यम् अच्युत-पदाम्बुज-युग्म-रुक्म-
व्यामोहतस् तद्-इतराणि तृणाय मेने ।
अस्मद्-गुरोर् भगवतो ऽस्य दयैक-सिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ८॥

मूलम्

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ८॥

विश्वास-प्रस्तुतिः

माता पिता युवतयस् तनया विभूतिः
सर्वं यद्(→अङ्घ्रि-युगलम्) एव नियमेन मद्-अन्वयानाम् ।
आद्यस्य नः (शठकोपाख्यस्य) कुल-पतेर् वकुलाभिरामं
श्रीमत्-तद्-अङ्घ्रि-युगलं प्रणमामि मूर्ध्ना ॥ ९॥

मूलम्

माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ९॥

हिन्दी

मै अपने शिरस से श्री नम्माऴ्वार को अभिनंदन (प्रणाम) करता हूँ,
जो श्रीवैष्णवों (प्रपन्न-जन) के कुल के अधिपति नेता है,
जो मघिऴम () फूलों से सुसज्जित है,
जिनके दिव्यचरण श्रीवैष्णवश्री (धन-संपत्ति) से भरपूर है
और जो सब श्रीवैष्णवों के माता, पिता, पत्नी, बच्चा, दिव्य धन इत्यादि और सब कुछ है ।

विश्वास-प्रस्तुतिः

भूतं(=भूतत्ताऴ्वार्) सरश्(=पोय्गै-आऴ्वार्) च महद्-आह्वय(=पॆय्याऴ्वार्)–भट्ट-नाथ(=सगोद-विष्णुचित्त)-
श्री-भक्ति-सार(=तिरुमडिसै)–कुल-शेखर–योगि-वाहान्(=तिरुप्पान्)
भक्ताङ्घ्रि-रेणु(=तोण्डरडिप्पोडि)–पर-काल(=तिरुमङ्गैयाऴ्वार्)–यतीन्द्र-मिश्रान्
श्रीमत्-पराङ्कुश-मुनिं(=शठकोपं स-मधुर-कविं) प्रणतोऽस्मि नित्यम् ॥ १०॥

मूलम्

भूतं सरश्च महदाह्वयभट्टनाथ-
श्रीभक्तिसारकुलशेखरयोगिवाहान् ।
भक्ताङ्घ्रिरेणुपरकालयतीन्द्रमिश्रान्
श्रीमत्पराङ्कुशमुनिं प्रणतोऽस्मि नित्यम् ॥ १०॥

हिन्दी

आलवारों के दोनों प्रकार के नाम हैं-(1) सरोयोगी (पोयगैआलवार), (2) भूतयोगी (भूतत्तालवार), (3) महद्-योगी (पेय आलवार), (4) भक्तसागर (तिरुमडिसै आलवार), (5) शठकोप या परांकुश मुनि (नम्म आलवार), (6) मधुर कवि, (7) कुलशेखर, (8) विष्णुचित्त (परि आलवार), (9) गोदा या रंगनायकी (आंडाल), (10) विप्रनारायण या भक्तपदरेणु (तोंडरडिप्पोलि), (11) योगवाह या मुनिवाहन (तिरुप्पन), (12) परकाल या नीलन्‌ (तिरुमंगैयालवार)।

विश्वास-प्रस्तुतिः

गुरु-मुखम् अनधीत्य प्राह वेदान् अशेषान्
नर-पति-परिक्लृप्तं शुल्कम् आदातु-कामाः ।
श्वशुरम् अमर-वन्द्यं रङ्गनाथस्य साक्षात्
द्विज-कुल-तिलकं तं विष्णु-चित्तं नमामि ॥ ११॥

मूलम्

गुरुमुखमनधीत्य प्राह वेदानशेषान्
नरपतिपरिक्लृप्तं शुल्कमादातुकामाः ।
श्वशुरममरवन्द्यं रङ्गनाथस्य साक्षात्
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ ११॥

इति श्रीगुरुपरम्परा ॥