व्युषि सविता

०५ सूर्याराधनम् ...{Loading}...

व्युषि सविता भवस्य्,
उदेष्यन् विष्णुर्,
उद्यन् पुरुष,
उदितो बृहस्पतिर्,
अभिप्रयन् मघवा,
+इन्द्रो वैकुण्ठो माध्यन्दिने,
भगो ऽपराह्ण,
उग्रो देवो लोहितायन्न्।
अस्तमिते यमो भवसि। १
(“indra vaikuNTha as the midday sun is related to the statement in the sUkta of indra vaikuNTha which is recited after the nightly drinking of soma, where indra in first person says: mamAnIkaM sUryasyeva duShTaram | (my splendor like that of the sun is difficult to surpass)” - MT)

अश्नसु(=अश्मसु मेघेषु वा) सोमो राजा,
निशायाम् पितृराजस्,
स्वप्ने मनुष्यान् प्रविशसि, पयसा पशून्। २
विरात्रे भवो भवस्य्,
अपररात्रे ऽङ्गिरा, अग्निहोत्र-वेलायाम् भृगुः। ३

तस्य तद् एतद् एव मण्डलम् ऊधः।
तस्यैतौ स्तनौ यद् वाक् च प्राणश् च।
ताभ्याम् मे धुक्ष्वाध्यायम् ब्रह्मचर्यम् प्रजाम् पशून् स्वर्गं लोकं सजात-वनस्याम्(=पूज्यताम्)। ४
एता आशिष आशासे।
भूर् भुवस् स्वः। उदिते शुक्रम्(=भाम्) आदिश - तद् अत्मन्(नि) दधे ५ ५

पञ्चमोऽनुवाकस्समाप्तः