(atharvan mantra-s for the invocation of the god तार्क्ष्यो अरिष्टनेमिः in the sun.)
३० रोचसे दिवि ...{Loading}...
रोच॑से दि॒वि रोच॑से अ॒न्तरि॑क्षे॒ पत॑ङ्ग पृथि॒व्यां रो॑चसे॒ रोच॑से अ॒प्स्व१॒॑न्तः।
उ॒भा स॑मु॒द्रौ रुच्या॒ व्या᳡पिथ दे॒वो दे॑वासि महि॒षः स्व॒र्जित् ॥
३१ अर्वाङ्परस्तात्प्रयतो व्यध्व ...{Loading}...
अ॒र्वाङ्प॒रस्ता॒त्प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित्प॒तय॑न्पत॒ङ्गः।
विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न्प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त् ॥
३२ चित्रश्चिकित्वान्महिषः सुपर्ण ...{Loading}...
चि॒त्रश्चि॑कि॒त्वान्म॑हि॒षः सु॑प॒र्ण आ॑रो॒चय॒न्रोद॑सी अ॒न्तरि॑क्षम्।
अ॑होरा॒त्रे परि॒ सूर्यं॒ वसा॑ने॒ प्रास्य॒ विश्वा॑ तिरतो वी॒र्या᳡णि ॥