गायत्र्यः

ॐ निशाकराय विद्महे
कलानाथाय धीमहि
तन्नः सोमः प्रचोदयात् ॥

ॐ क्षीरपुत्राय विद्महे
अमृततत्त्वाय धीमहि
तन्नश्चन्द्रः प्रचोदयात् ॥

ॐ क्षीरपुत्राय विद्महे
महाकालाय धीमहि
तन्नश्चन्द्रः प्रचोदयात् ॥

ॐ सोमात्मजाय विद्महे
अमृततत्त्वाय धीमहि
तन्नः सोमः प्रचोदयात् ॥

ॐ अत्रिपुत्राय विद्महे
सागरोद्भवाय धीमहि
तन्नश्चन्द्रः प्रचोदयात् ॥