प्रातः स्मरामि हृदि संस्फुरद् आत्मतत्त्वं
सच्-चित्-सुखं परम-हंस-गतिं तुरीयम् ।
यत् स्वपन-जागर-सुषुप्तम् अवैति नित्यं
तद् ब्रह्म निष्कलम् अहं, न च भूतसङ्घः (शरीरात्मकः) ॥ ॥
प्रातर् भजामि मनसा वचसाम् अगम्यं
वाचो विभान्ति निखिला यद् अनुग्रहेण ।
यन् नेति नेति वचनैर् निगमा अवोचुस्
तं देव-देवम् अजं अच्युतं आहुर् अग्रयम् ॥
प्रातर् नमामि तमसः परम् अर्कवर्णं
पूर्णं सनातन-पदं पुरुषोत्तमाख्यम् ।
यस्मिन्न् इदं जगद् अशेषं अशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥
श्लोक-त्रयम् इदं पुण्यं
लोक-त्रय-विभूषणम् ।
प्रातःकाले पठेद् यस् तु
स गच्छेत् परमं पदम् ॥