११-१२ सहस्रशीर्षम् ...{Loading}...
विश्वास-टिप्पनी
अत्र कृत्रिमस्वरा हि राजन्ते मुद्रितग्रन्थेषु। पद्यगानम् इव गृहीतुम् उचितम्।
विश्वास-प्रस्तुतिः ...{Loading}...
स॒ह॒स्र॒-शी॑र्षन् दे॒व॒व्ँ
वि॒श्वाक्ष॑व्ँ वि॒श्व-शं॑-भुवम् ।
विश्व॑न् ना॒राय॑णन् दे॒व॒म्
अ॒क्षरं॑ पर॒मं प्र॒भुम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
स॒ह॒स्र॒शीर्॑षन्दे॒व॒व्ँ वि॒श्वाक्ष॑व् विँ॒श्वशं॑भुवम् ।
विश्व॑न्ना॒राय॑णन्दे॒व॒म॒क्षरं॑ पर॒मं प्र॒भुम् ।
सायण-टीका
पूर्वानुवाकान्ते हृदयपुण्डरीक उपास्यं यन्महेश्वरस्वरूपं निर्दिष्टं तस्मिन्नुपास्यगुणविशेषा अस्मिन्ननुवाके विशेषेण प्रदर्श्यन्ते। तत्र प्रथमामृचमाह–
स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम्। विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प्र॒भुम्, इति।
देवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः। कीदृशं देवम्। सहस्रशीर्षं सहस्र-शब्देनापरिमितत्वमुपलक्ष्यते। अनन्तशिरस्कमित्यर्थः। सर्वजगदात्मकं विराड्रूपं महेश्वरस्य देहः। तथा सत्यस्मादादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वम्। अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षाणीन्द्रियाणि तदीयान्येवेति विश्वाक्षत्वम्। विश्वस्य सर्वस्य जगतः शं सुखमस्माद्भवतीति विश्वशंभुः(भूः), तादृशम्। उक्ते सहस्रशीर्षे विराड्रूपे देहेऽवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते। विश्वं जगदात्मकम्। आरोपितस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात्। नाराय-णशब्दस्य निर्वचनं पुराणेषु दर्शितम्
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः "
इति।
१ ग. ०वाच्यव०। २ ख. विस्तरेण। ३ झ. ०रस्कत्वम्। ४ ग. ०चनम्। ५ ग. झ. ०तमित्य०। ६ ख.। ०र्थः। स०।
[[728]]
जगत्कारणेषु पञ्चभूतेष्ववस्थित इत्यर्थः। यद्वा प्रकृतेः प(तिर्न)रः। तस्माज्जातिनि श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०]
यानि तानि नारशब्देनोच्यन्ते। तान्येतान्येवायनं स्थानं यस्य स नारायणः। स एवेन्द्रमित्रादिरूपेणावस्थितत्वाद्देव इत्युच्यते। तथा च शाखान्तरे मन्त्र आम्नात: — “इन्द्रं मित्रं वरुणमग्निमाहुः " इति। न क्षरतीत्यक्षरः, अश्नुत इति वा तस्याक्षरत्वम्। कारणत्वेनोत्कर्षात्परमत्वम्। नियन्तु समर्थत्वात्प्रभुत्वम्।
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒श्वतः॒ पर॑मन् नि॒त्य॒व्ँ
वि॒श्वन् ना॑राय॒णँ ह॑रिम् ।
विश्व॑म् ए॒वेदं पुरु॑ष॒स्
तद् विश्व॒म् उप॑जीवति ॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
वि॒श्वतः॒ पर॑मन्नि॒त्य॒व्ँ वि॒श्वन्ना॑राय॒णँ ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ॥
सायण-टीका
द्वितीयामृचमाह— वि॒श्वतः॒ पर॑मं नि॒त्यं॒ वि॒श्वं ना॑राय॒ण ँ ह॑रिम्। विश्वमे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति, इति।
विश्वतो जगतो जडवर्गात्परममुत्कृष्टम्। ऋग्भेदेन पुनरुक्तिपरिहारो द्रष्टव्यः। यद्वा स्तुतिरूपत्वादनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः।विनाशरहितत्वान्नित्यत्वम्। सर्वात्मकत्वाद्विश्वत्वम्। नारायणत्वं पूर्वमेवोक्तम्। पापस्याज्ञानस्य च हरणाद्धरित्वम्। यदिदं विश्वमिदानीमज्ञानदृष्ठ्या प्रदृश्यते तत्सर्वं वस्तुतत्त्वदृष्ट्या पुरुषः परमात्मैव। स च परमात्मा तद्विश्वमुपजीवति स्वस्य व्यवहारार्थमाश्रयति।
विश्वास-प्रस्तुतिः ...{Loading}...
पति॒व्ँ विश्व॑स्या॒त्मेश्व॑रँ॒
शाश्व॑तँ शि॒वम् अ॑च्युतम् ।
ना॒राय॒णं म॑हा-ज्ञे॒य॒व्ँ
वि॒श्वात्मा॑नं प॒राय॑णम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
पति॒व्ँ विश्व॑स्या॒त्मेश्व॑रँ॒ शाश्व॑तँ शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒य॒व्ँ वि॒श्वात्मा॑नं प॒राय॑णम् ।
सायण-टीका
तृतीयामृचमाह— पतिं॒ विश्व॑स्या॒ऽऽत्मेश्व॑र॒ ँ शाश्व॑त ँ शि॒वम॑च्युतम्। ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम्, इति। विश्वस्य जगतः पालकत्वात्पतिः। आत्मनां जीवानां नियाकत्वादीश्वरः। निरकान्तरं वर्तमानत्वाच्छाश्वतः। परममङ्गलत्वाच्छिवः। न च्यवत इत्यच्युतः। नारायणत्वं पूर्वमुक्तम्। ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वान्महाज्ञेय(त्व)म्। जगदुपादानत्वेन तदभेदाद्विश्वात्मत्वम्। उत्कृष्टाधारत्वात् परायणत्वम्। सर्वमप्यारोपितं जगदधिष्ठाने वर्तते।
विश्वास-प्रस्तुतिः ...{Loading}...
ना॒राय॒ण-प॑रं ब्र॒ह्म॒-
त॒त्वन् ना॑राय॒णः प॑रः ।
ना॒राय॒ण-प॑रो ज्यो॒ति॒र्-
आ॒त्मा ना॑राय॒णः प॑रः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ना॒राय॒णप॑रं ब्र॒ह्म॒ त॒त्वन्ना॑राय॒णः प॑रः ।
ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।
सायण-टीका
चतुर्थीमृचमाह—
- ना॒राय॒ णः प॑रं ब्रह्मतत्त्वं ना॑राय॒णः प॑रः। नाराय॒ णः प॑रो ज्यो॒तिरा॒त्मा ना॑राय॒णः प॑रः, इति।
- ग. पुस्तके पूर्वार्धोत्तरार्धव्यत्यासो वर्तते—“नारायणपरो ध्याता ध्यानं नारायणः परः " इत्यधिकं च।
१ ख. ०त्यश्रुत। २ झ. ०रः, न च्युत। ३ ख. झ. ०रमा नि०। ४ ग. ०व्यः। ०स्तु। ५ ख. ०ज्ञानाद्द्दश्य०। ६ ग. झ. ०त्पतिम्। आ०। ७ ग. ०श्वरं नियन्तारम्। नि०। ८ ग. झ. ०श्वतम्। प०। ९ ग. झ. ०च्छिवम्। न। १० ग. ०च्युतम्। ना०। ११ ख. ०रकत्वं परा०। १२ ख. ०यणं प०। १३ ख. ०यणप०।
[[729]]
[प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव परमुत्कृष्टं सत्यज्ञानानन्दादिवाक्यैः प्रतिपाद्यस्य ब्रह्मणस्तत्त्वम्। अतो नारायणः पर एवाऽऽस्मा म त्वपरो मूर्तिविशेषः। तथा परो ज्योतिर्यदेदुत्कृष्टं ज्योतिश्छन्दोगै: — “परं ज्योतिरुपसंपद्य " इत्याम्नातं तदपि नारायण एव। तस्मान्नारायणः परमात्मा।
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च॑ कि॒ञ्चिज् ज॑गत्य् अ॒स्मि॒न्
दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ।
अन्त॑र् ब॒हिश् च॑ तत् स॒र्व॒व्ँ
व्या॒प्य ना॑राय॒णस् स्थि॑तः ।(25)
सर्वाष् टीकाः ...{Loading}...
मूलम्
यच्च॑ कि॒ञ्चिज्ज॑गत्य॒स्मि॒न्दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्ब॒हिश्च॑ तत्स॒र्व॒व्व्ँया॒प्य ना॑राय॒णस्स्थि॑तः ।(25)
सायण-टीका
पञ्चमीमृचमाह—
यच्च॑ किं॒चिज्ज॑गत्स॒र्वं॒ दृश्यते॑ श्रूयते॑ श्रू॒यतेऽपि॑ वा। अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः
इति।
* जगत्यस्मिन्निति पाठो भाष्यानुरोधी, स वर्तते क्वचिदिति ग. पुस्तकटिप्पणीतो ज्ञायते।
अस्मिन्वर्तमाने जगति यत्किंचित्समीपवर्ति वस्तुजातं दृश्यते। अपि वा दूरस्थं श्रूयते। तत्सर्वं वस्तुजातमयं नारायणोऽन्तर्बहिश्च व्याप्यावस्थितः। यथा कटकमुकुटाद्याभरणस्योपादानकारणं सुवर्णमन्तर्बहिर्व्याप्यावतिष्ठते। तद्वत्।
विश्वास-प्रस्तुतिः ...{Loading}...
अन॑न्त॒म् अव्य॑यङ् क॒विँ
स॑मु॒द्रे ऽन्त॑व्ँ वि॒श्व-शं॑भुवम् ।
प॒द्म॒-को॒श-प्र॑तीका॒शँ॒
+++(तद्-आसनम्)+++ हृ॒दय॑ञ् चाप्य् अ॒धो-मु॑खम् +++(नोर्ध्वमुखं लोकवत्)+++ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अन॑न्त॒मव्य॑यङ्क॒विँ स॑मु॒द्रेन्त॑व्ँ वि॒श्वशं॑भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒शँ॒ हृ॒दय॑ञ्चाप्य॒धोमु॑खम् ।
सायण-टीका
षष्ठीमृचमाह— अन॑न्तमव्य॑यं क॒वि ँ स॑मु॒द्रेऽन्तं॑ वि॒श्वशं॑भुवम्। प॒द्म॒को॒शप्र॑तीका॒श॒ ँ हृ॒दयं॑ चाप्य॒धोमुखम्, इति।
अत्र पूर्वार्धेन नारायणस्य वास्तवस्वरूपं संक्षिप्योपन्यस्यते।
अनन्तं देशपरिच्छेदरहितम्।
अव्ययं विनाशरहितम्।
कविं चिद्रूपेण सर्वज्ञम्।
समुद्रे ऽतिबहुलत्वेन समुद्रसदृशे संसारे ऽन्तम् अवसानरूपम्।
यदा नारायणस्य स्वरूपं जानाति
तदा संसारः क्षीयत इत्यर्थः।
विश्वशंभुवं सर्वस्य संसारसुखस्योत्पत्तिकारणरूपम्। “एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात्। ईदृशं नारायणस्वरूपमुपासीतेति शेषः। उत्तरार्धेनोमासनस्थानम् उच्यते—
पद्मकोशप्रतीकाशं यथा लोकेऽष्टदलकमलस्य कोशो मध्यच्छिद्रं
तत्सदृशं
तच् च हृदय-शब्द-वाच्यम्।
लौकिकं पद्मम् ऊर्ध्वाभिमुखं हृदयपद्मं त्व् अधोमुखम् इति विशेषः।
विश्वास-प्रस्तुतिः ...{Loading}...
अधो॑ नि॒ष्ट्या+++(=ग्रीवा-बन्धः)+++ वि॑तस्त्या॒न्+++(←१२-आङ्गुल्याम् [नाभिं यावत्])+++ तु॒
ना॒भ्याम् उ॑परि॒ +++(मध्ये)+++ तिष्ठ॑ति ।
हृ॒दय॑न् तद् वि॑जानी॒या॒द्
वि॒श्वस्या॑यत॒नं म॑हत् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्तु॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
हृ॒दय॑न्तद्वि॑जानी॒या॒द्वि॒श्वस्या॑यत॒नं म॑हत् ।
सायण-टीका
सप्तमीमृचमाह— अधो॑ नि॒ष्ठ्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति। +हृदयं तद्विजानीयाद्विश्वस्या॑ऽऽयत॒नं म॑हत, इति।
+पदत्रयमनिश्चितस्वरकम्।
१ ख. ०नादि०। २ ख. ०वाक्यप्र०। ३ ख. ०परस्तीति शे०। ४ ख. झ. ०नमु०। ५ झ. लोके शतद०। ६ ०तस्त्यां तु ना। ७ ग. ०ति। जालमालाकुलं भाति विश्व०। ९२
[[730]]
निष्टिर् ग्रीवाबन्धः, तस्या अधस्ताद्वर्तते।
तत्रापि नाभ्याम् उपरि नाभिदेशस्योर्ध्वभागे
वितस्त्यान्ते द्वादशाङ्गुल-परिमिता वितस्तिस्तस्यामतीतायामुपरि तिष्ठति।
तद् एतन् निष्टि-नाभ्योर् मध्य-देश-वर्ति कमलं
हृदयम् इति विजानीयात्। तच्च हृदयं विश्वस्य सर्वस्य जगतो महदायतनम्। मनस्तावद्भृदयपुण्डरीके वर्तते “चन्द्रमा मनो भूत्वा त्द्ददयं प्राविशत् " इति श्रुत्यन्तरात्। तेव च मनसा स्वप्नवत्सर्वमिदं जगत्कल्पितम्। “मनोमूलमिदं द्वैतं यत्किंचित्सचाराचरम् " इति संप्रदायविद्भिरुक्तत्वात्।
विश्वास-प्रस्तुतिः ...{Loading}...
सन्त॑तँ सि॒राभि॑स्+++(=नाडीभिस्)+++ तु॒
लम्ब॑त्य् आ-+++(पूर्वोक्त-पद्म)+++कोश॒-सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रँ +++(सुषुम्ना-नाडी-नालं)+++ सू॒क्ष्मं
तस्मि॑न्त् स॒र्वं प्रति॑ष्ठितम् ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
सन्त॑तँ सि॒राभि॑स्तु॒ लंब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रँ सू॒क्ष्मं तस्मि॑न्त्स॒र्वं प्रति॑ष्ठितम् ।
सायण-टीका
अष्टमीमृचमाह— संत॑त ँ शि॒लाभिस्तु॒ लम्ब॑त्याकोश॒संनि॑भम्। तस्यान्ते॑ सुषि॒र ँ सू॒क्ष्मं तस्मि॑न्त्स॒र्वं प्रतिष्ठितम्
, इति।
आकोशः। पद्मस्य मुकुलं तत्संनिभं तत्सदृशं हृदय-कमलं लम्बति शरीरे- मध्ये ऽधोमुखत्वेनावलम्बते।
तच् च शिराभिर् नाडीभिः संततं परितः सम्यग्व्याप्तम् “शतं चैका च हृदयस्य नाड्यः " इति श्रुत्यन्तरात्।
तस्य हृदयस्यान्ते समीपे सूक्ष्मं सुषिरं छिद्रं सुषुम्ना-नाडी-नालं तिष्ठति तस्मिन्सुषिरे सर्वमिदं जगत्प्रतिष्ठितमाश्रितम्। तत्र मनसि प्रविष्टे सति सर्वजगदाधारस्य ब्रह्मणोऽभिव्यज्यमानत्वात्।
विश्वास-प्रस्तुतिः ...{Loading}...
तस्य॒ +++(→सुषुम्ना-नाड्या)+++ मद्ध्ये॑ म॒हान् अ॑ग्निर् +++(पाचको वैश्वानरः)+++
वि॒श्वार्चि॑र् वि॒श्वतो॑मुखः ।
सोऽग्र॑-भु॒ग् विभ॑जन् ति॒ष्ठ॒न्न्
आहा॑रम् अज॒रः क॒विः ।+++(5)+++
सर्वाष् टीकाः ...{Loading}...
मूलम्
तस्य॒ मद्ध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।
सायण-टीका
नवमीमृचमाह—
तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः। सोऽग्र॑भु॒जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः*, इति।
* एतदग्रे ग. पुस्तके मूले “तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य संतताः " इत्य् अधिकम्।
तस्य सुषुम्नालस्य मध्ये महान्प्रौढोऽग्निर्वर्तते। स च विश्वार्चिर्बहुज्वालोपेतः। अत एव ज्वालाविशेषैः परितोऽवस्थितासु सर्वासु माडीषु संसारणाद्विश्वतोमुखो बहुविधेश्वररूपः। सोऽग्निग्रभुक्, स्वस्य पुरतः प्राप्तमन्नं भुङ्क्त इत्यग्रभुक्।
स च भुक्तमाहारं शरीरे सर्वावयवेषु विभजन् प्रसारयंस्तिष्ठन्, अवस्थित इत्यर्थः।
तथा च भगवतोक्तम्
“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् "
इति॥
तस्माद्भुक्तमन्नमासौ जरयति न तु स्वयं जीर्यत इत्यजरः। अत एव कविरभिज्ञः कुशल इत्यर्थः।
१ ग. ०र्ध्वदेशभा०। २ ग. ०तस्त्यां द्वा०। ३ ख. ०स्यामुप०। ४ ग. शिराभि०। ५ झ. कोशः। ६ झ. ०मलमाल०। ७ ग. ०षुम्णाना०।। ७ ग. ०षुम्णाना०। ८ ग. ०षुम्णाना०। ९ ख. ०विधे ०स्थिर०। ग. ०विधैश्व०।
[[731]]
विश्वास-प्रस्तुतिः ...{Loading}...
स॒न्ता॒पय॑ति स्वन् दे॒हम्
आपा॑द-तल॒-मस्त॑कम् ।
तस्य॒ मद्ध्ये॒ वह्नि॑-शिखा +++(→जीवः)+++
अ॒णीयो॑र्ध्वा व्य॒वस्थि॑ता (←द्रविडपाठे लिङ्गव्यत्ययः) ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
स॒न्ता॒पय॑ति स्वन्दे॒हमापा॑दतल॒मस्त॑कम् ।
तस्य॒ मद्ध्ये॒ वह्नि॑शिखा अ॒णीयो॑र्द्ध्वा व्य॒वस्थि॑तः ।
सायण-टीका
दशमीमृचमाह— सं॒ता॒पय॑ति स्वं दे॒हमापा॑दतल॒वस्त॑कम्। तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो॑र्ध्वा व्य॒वस्थि॑ता, इति। पादतलमारभ्य मस्तकपर्यन्तं कृत्स्नमपि स्वकीयं देहं सर्वदा संतापयति। सोऽयं शरीरगतः संतापोऽग्निसद्भावे लिङ्गम्। तस्य ज्वालाविशेषैः कृत्स्नदेहव्यापिनोऽग्नेर्मध्ये वह्निशिखा काचिज्ज्वालाऽणीयाऽत्यन्तसूक्ष्मोर्ध्वा सुषुम्नानाडीनालेनोर्ध्वं ब्रह्मरन्ध्रपर्यन्तं प्रसृत्य व्यवस्थिता विशेषेणावस्थिता।
विश्वास-प्रस्तुतिः ...{Loading}...
नी॒ल-तो॑य-द॑-मध्य॒-स्था॒
वि॒द्युल्-ले॑खेव॒ भास्व॑रा ।
नी॒वार॒-शूक॑वत्+++(=धान्यान्त-त्वक्-कण्टकवत्)+++ त॒न्वी॒
पी॒ताभा॑ स्यात् त॒नूप॑मा ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
नी॒लतो॑यद॑मद्ध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ताभा॑स्यात्त॒नूप॑मा ।
सायण-टीका
एकादशीमृचमाह— नी॒लतो॑यदमध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा। नी॒वार॒शूक॑वत्त॒न्वी पी॒ता भा॑स्वत्य॒णूप॑मा, इति। तोयमुदकं ददातीति तोयदो मेघः, स च वर्षितुं जलपूर्णत्वान्नीलवर्णः। तादृशस्य मेघस्य मध्ये स्थिता विद्युल्लेखेव। सेयं पूर्वोक्ताऽग्निशिखा भास्वरा प्रभावती नीवारबीजस्य शूकं दीर्घं पुच्छं यथा तनु भवति तद्वदियं शिखा तन्वी बाह्यवह्निशिखेव पीता भास्वती पीतवर्णा दीप्तियुक्ता भवेत्। सा चाणूपमा लौकिकानां तनूनां सूक्ष्मवस्तूनामुपमा भवितुं योग्या।
विश्वास-प्रस्तुतिः ...{Loading}...
तस्या॑श् शिखा॒या म॑द्ध्ये
प॒रमा॑त्मा व्य॒वस्थि॑तः ।
स ब्रह्मा॒ स शिव॒स् सेन्द्र॒स्
सोऽक्ष॑रः पर॒मस् स्व॒राट् ।।(26)
सर्वाष् टीकाः ...{Loading}...
मूलम्
तस्या॑श्शिखा॒या म॑द्ध्ये प॒रमा॑त्मा व्य॒वस्थि॑तः ।
स ब्रह्मा॒ स शिव॒स्सेन्द्र॒स्सोऽक्ष॑रः पर॒मस्स्व॒राट् ।। (26)
सायण-टीका
द्वादशीमृचमाह— तस्याः॑ शिखा॒या म॑ध्ये प॒रमा॑त्मा व्य॒वस्थितः। स ब्रह्मा॒ स शिवः॒ सेन्द्रः सोऽक्ष॑रः पर॒मः स्व॒राट्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येकादशोऽनुवाकः॥ ११॥
तस्याः पूर्वोक्ताया वह्निशिखाया मध्ये जगत्कारणभूतः परमात्मा विशेषेणावस्थितः। तस्योपासनार्थमल्पस्थानत्वेऽपि न स्वयमल्पः, किंतु सर्वदेवात्मकः। ब्रह्मा चतुर्मुखः, शिवो गौरीपतिः, इन्द्रः स्वार्गाधिपतिः, अक्षरो जगद्धेतुर्मायाविशिष्टोऽन्तर्यामीश्वरः “क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते " इति भगवतोक्तत्वात्। परमो मायारहितः शुद्धश्चिद्रूपः। अत एव पारतन्त्र्याभावात्स्वराट्स्वयमेव राजा।
१ झ. ०स्तकः। त०। २ ख. ०द्भावो लि०। ३ ख. ०र्मध्येऽपि व०। ४ ग. ०षुम्णाना०। ५ ग. ०ह्निज्वालेव ६ ग. ०किकीनां। ७ ख. झ. ब्रह्म। ८ ग. झ. ०वः स हरिः से०। ९ झ. ०द्धचिद्रू०।
[[732]]
सहस्रशीर्षमित्यादिवाक्यप्रतिपाद्यं तत्त्वं पद्मकोश पद्मकोशप्रतीकाशमित्यादि- वाक्योक्तप्रकारेण ध्यायेदिति तात्पर्यार्थः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदिनिषद्येकादशोऽनुवाकः॥ २१॥
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तँ स॒त्यं प॑रं ब्र॒ह्म॒
पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒
वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ऋ॒तँ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ।
सायण-टीका
अथ द्वादशोऽनुवाकः।
पूर्वोक्त-प्रकारेणोपासीनस्य पुरुषस्योपास्यदेवतानमस्कारार्थमेकामृचमाह–
ऋ॒त ँ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्। ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमः॑, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि द्वादशोऽनुवाकः॥ १२॥
यदेतत्परं ब्रह्म तत्सत्यमबाध्यम्। सत्यं च द्विविधम्, व्यावहारिकं पारमार्थिकं च। हिरण्यगर्भाद्गिकं रूपं व्यावहारिकं सत्यं तन्निवारेण पारमार्थिकसत्यं प्रदर्शयितुमृतं सत्यमिति विशेष्यते। अत्यन्तसत्यमित्यर्थः। तादृशं ब्रह्म स्वभक्तानुग्रहायोमामहेश्वरात्मकं पुरुषरूपं भवति। तत्र दक्षिणे महेश्वरभागे कृष्णवर्णः। उमाभागे वामे पिङ्गलवर्णः। स च योगेन स्वकीयं रेतो ब्रह्मरन्ध्रे धृत्वोर्ध्वरेता भवति। त्रिनेत्रत्वाद्विरूपाक्षः। तादृशं परमेश्वरमनुस्मृत्येति शेषः। विश्वरूपाय जगत्कारणत्वेन सर्वजगदात्मकाय विरूपाक्षाय पुरुषायैव नमस्कारोऽस्तु॥
इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वादशोऽनुवाकः॥ १२॥