अहमस्मि प्रत्यमजाः

८ ०१ अहमस्मि प्रथमजा ...{Loading}...
सायणोक्त-विनियोगः

1सप्तमे सौर्यादिपशूनां सूक्तान्यभिहितानि । अष्टमे वेहदादिपशूनां सूक्तान्युच्यन्ते । ते च पशवः शाखान्तरे समाम्नाताः । तन्न सूत्रकारणोदाहृतम् - ‘सान्नाय्ये वेहतभालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - बह्वृचा आरण्यकाण्डे त्रिविधमन्नमामनन्ति - ‘त्रेधा विहितं वा इदमन्नमशनं पानं खादः’ इति । तस्याशनादेस्त्रिविधस्यान्नस्याभिमानिनी या देवता तदीयानि वचनान्यस्मिन्सूक्ते प्रतिपाद्यन्ते ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् अ॑स्मि प्रथम॒जा (=प्रथमजनयिता) ऋ॒तस्य॑ (=यज्ञस्य)
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒, स इद् ए॒व मा (अन्नरूपं) ऽऽवाः॑ (=आवृणोति [पश्चात्])
अ॒हम् (दात्रे) अन्न॒म्, (अदत्वा) अन्न॑म् अ॒दन्त॑म् अद्मि

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ ।
पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒वमावाः᳚ ।
अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि ।

सायण-टीका

अहं अन्नस्वामी देवः ऋतस्य यज्ञस्य प्रथमजाः प्रथमं जनयिताऽस्मि । यज्ञस्य हविर्जन्यत्वाद्धविषोऽन्न रूपत्वात् ।

तादृशोऽहमन्नस्वामी पूर्वं पुरा देवभ्यः देवार्थं अमृतस्य नाभिः बन्धकोऽस्मि । नह्यति बघ्नात्यमृतमिति नाभिः । देवा ह्यमृतमुपजीवन्ति । अमृतं चान्नविशेषः, तस्मादहमेवामृतस्य संपादकः ।

यः श्रद्धालुः पुमान् मा मामन्नरूपं ददाति ब्राह्मणादिभ्यः प्रयच्छति स हदेव स दाता स्वयमेव मा मामन्नदेवं आवाः आवृणोति स्वीकरोतीत्यर्थः । द्वौ हि लोके पुरुषौ दाता चादाता च । तत्राऽद्यः कालान्तरे भोक्तुं मां संगृह्णाति । यावद् अन्नम् इदानीं दीयते तावदेव कालान्तरे शतधा सहस्रधा वर्धते । तस्माद् दातैव मां संगृह्णाति ।

यस् त्व् अन्तिमो माम् अदत्त्वा स्वयम् एवात्ति
अहम् एवान्नम् अद्मीत्य् अभिमन्यते
तम् अन्नम् अदत्ताभिमानिनम् अन्न-देवो ऽहम् अद्मि
तं विनाशयामि ।
अदातुः कालान्तरेऽन्नाभावात् ॥

सायणोक्त-विनियोगः

2अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्व॑म् (मरण/नरक-)अ॒ग्नेर् अपि॑ दह॒त्य् अन्न॑म् (अदातारम्)
य॒त् तौ (→ऽदाता, दाता च) हा॑ ऽऽसते, अहम्(←स्वरः??) उत्त॒रेषु॑ ।
व्यात्त॑म् अस्य (=अन्न-देवस्य) प॒शव॑स् (=ये ऽदातारस् तान्प्रति) सु॒जम्भ॑म् ।
पश्य॑न्ति॒ धीरा॒ (→दातारः), प्रच॑रन्ति॒ पाकाः॑ (=मूढा [अदातारः])

सर्वाष् टीकाः ...{Loading}...
मूलम्

पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् ।
य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शव॑स्सु॒जम्भ᳚म् ।
पश्य॑न्ति॒ धीरा॒ᳶ प्रच॑रन्ति॒ पाकाः᳚ ।

सायण-टीका

यद् इदम् अन्नम् अग्नेर् अपि पूर्वम्
अदातृभिर् भुज्यते
तद् इदम् अन्नं तं भोक्तारं दहति

अथ भुक्तम् अन्नम् उदराग्निर्
दिन-मात्रेण दहति पाचयति ।

आदाता तु भोक्ता भुज्यमानेनान्नेन तदानीम् एव दह्यते
नरकहेतोः प्रत्यवायस्य तदैवोत्पन्नत्वात् ।
अत एवाहुः - ‘अदाता विषमश्नुते’ इति ।

यत्तौ हा प्रयत्नवन्तावेव आसाते दाता चादाता चेत्युभौ तिष्ठतः । दाता हि दानार्थं प्रयत्नं करोति, इतरस्तु भोजनार्थम् । तयोर्मध्ये ये पुरुषा दातुः पक्षे वर्तन्ते त एवोत्तराः श्रेष्ठाः ।
तेषूत्तरेषु दातृषु कालान्तरेष्व् अहम् अक्षीणो वसामि ।

ये पशवो मूढा अदातारः तान्प्रति अस्य अन्नदेवस्य मुखं व्यात्तं विवृत्तं सुजम्भं तीक्ष्णदन्तोपेतं वर्तते खादयाम्य् अदातॄनिति सर्वदोद्युङ्क्त इत्यर्थः । एतमन्नदेवस्याभिप्रायं दातारो धीराः बुद्धिमन्तः पश्यन्ति जानन्ति । अत एवाददतः पाकाः बाला मूढाः प्रचरन्ति प्रकर्षेण भक्षयन्त्येव न तु किंचिदपि ददति ॥

सायणोक्त-विनियोगः

3अथ पुरोडाशस्य पुरोनुवाक्यामाह - अन्नदेवोऽहमन्नमदातारं जहामि परित्यजामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

जहा॑म्य् अ॒न्यन्, न ज॑हाम्य् अ॒न्यम् ।
अ॒हम् अन्नं॒, (उक्त-नियम-)वश॒म् इच् च॑रामि
(दात्रदात्रोः) स॒मा॒नम् अर्थं॒ (→नियमं) पर्ये॑मि (केवलम्) - “भु॒ञ्जत् (=पालयन्)
को माम् अन्नं॑ मनु॒ष्यो॑ दयेत?"।

सर्वाष् टीकाः ...{Loading}...
मूलम्

जहा᳚म्य् अ॒न्यन् न ज॑हाम्य॒न्यम् ।
अ॒हमन्न॒व्ँ वश॒म् इच् च॑रामि ॥ 59 ॥
स॒मा॒नम् अर्थ॒म् पर्ये॑मि भु॒ञ्जत् ।
को माम् अन्न॑म् मनु॒ष्यो॑ दयेत ।

सायण-टीका

अन्यं तु दातारं न जहामि । अहमन्नं अन्नदेवरूपोऽहं वशम् इत् स्ववशमेव यथा भवति तथा चरामि
अदातुः परित्यागो दातृस्वीकारश्चेत्य् एतत् स्ववशत्वम् ।
यः पुमान् भोगदानयोः समानः सन् धनमर्थयते तं समानं अर्थयितारं भुञ्जन् पालयन्नहं पर्येमि परितः प्राप्नोमि ।
यातु भोगमात्रलम्पटस्तं न पालयामि नापि तं पर्येमीत्यभिप्रायः ।
एवम् अदातृ-परित्यागेन दातृ-पक्षपातेन च वर्तमानं मां को मनुष्यो दयेत रक्षेन् निवारयेत् ।
न कोपि मां निवारयितुं शक्त इत्यथः ॥

सायणोक्त-विनियोगः

4अस्य पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

परा॑के॒ (→लोके) अन्नं॒ निहि॑तं लो॒क ए॒तत् ।
विश्वै॑र् दे॒वैः पि॒तृभि॑र् गु॒प्तम् अन्न॑म् ।
यद् अ॒द्यते॑ लु॒प्यते॒, यत् प॑रो॒प्यते॑ (=बहिस्त्यज्यते) (अस्मिल्ँ लोके)
श॒त॒त॒मी (=.०१), सा त॒नूर् मे॑ बभूव (पर-लोके)

सर्वाष् टीकाः ...{Loading}...
मूलम्

परा॑के॒ अन्न॒न्निहि॑तल्ँ लो॒क ए॒तत् ।
विश्वै᳚र्दे॒वैᳶ पि॒तृभि॑र्गु॒प्तमन्न᳚म् ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।

सायण-टीका

प्रूर्वस्मिन् मन्त्रे वशम् इच्चरामि मां को दयेतेति यत् स्वातन्त्र्यम् उक्तं
तदुपपादयितुं स्वमाहात्म्यमत्र वर्ण्यते ।
द्विविधो ह्यन्नस्य व्यवहारः पारलौकिक ऐहिकश्चेति ।
तत्र पराके परलोके दूरस्थे पित्रादिलोके एतद् अन्नं निहितम् । दाता हि देवलोके पितृलोके वा ममेदं भूयादित्यभिप्रेत्यैव ब्राह्मणेभ्यो ददाति । अतो दत्तमन्नं दूरस्थे लोके निहितं भवति । तच्चान्नं तत्तल्लोके विश्वैः सर्वैः देवैः पितृभिश्च स्वार्थं गुप्तं रक्षितं भवति । यदग्नौ हुतं यच्च ब्राह्मणेभ्यो दत्तं तदेवोपजीव्य देवाः पितरश्च वर्तन्ते । एवं पारलौकिकोऽन्नव्यवहार उक्तः । ऐहिकोऽपि व्यवहार उच्यते - यदन्नमद्यते प्राणिभिर्भक्ष्यते, यच्च विदग्धं सत् भाण्डे अपि भवति पर्युषितत्वेन वा पूतीभवति तादृशं लुप्यते नष्टं भवति । यच्च परोप्यते स्वकीयैश्वर्यप्रकटनाय बहिः परित्यज्यते सा सर्वाप्यैहिकामुष्मिकान्नरूपा मे अन्नस्वामिनो देवस्य शततमी शतसंख्यापूरणी तनूः । स च सर्वोऽपि लेश एवेत्यर्थः । ईदृशं मदीयं माहात्म्यम् ॥

सायणोक्त-विनियोगः

5अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हान्तौ॑ च॒रू (=कुम्भौ) स॑कृद् दु॒ग्धेन॑ पप्रौ(←पूरणे)
दिवं॑ च पृश्नि (=स्वल्पम् [अपि]) पृथि॒वीं च॑ सा॒कम् ।
तत् सं॒पिब॑न्तो॒ न मि॑नन्ति (=हिंसन्ति आत्मनः) वे॒धसः॑ ।
नैतद् भू॒यो भव॑ति॒, नो कनी॑यः (अपि च पर्याप्तः)

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् ।
तथ्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ ।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥

सायण-टीका

पुनरपि माहात्म्यमेव प्रपञ्च्यते ।
तत्रायं दृष्टान्तः -
यथा लोके बहुक्षीर-प्रदाया गोः सकृद् दुग्धेन
महान्तौ चरू प्रौढौ कुम्भौ पूरयति एवमत्रापि पृश्नि स्वल्पमपि दत्तमन्नं दिवं च पृथिवीं च साकं लोकद्वयमपि सह पूरयति । अग्नौ ब्राह्मणेषु वा दत्तमन्नं मन्त्रपूतं सत्सहस्रधा फलति । अत एवान्यत्राम्नायते - ‘यावदेका देवता कामयते यावदेका तावदाहुतिः प्रथते’ इति । तदन्नं संपिबन्तः सम्यग्भक्षयन्तः वेधसः बुद्धिमन्तः न मिनन्ति न हिंसन्ति स्वात्मानमन्नं वा न विनाशयन्ति । दानपूर्वकं भक्षणं सम्यग्भक्षणं तत्कुर्वन्तः पुरुषा अन्नं न हिंसन्ति, दत्तस्यान्नस्य च वर्धमानत्वात् । स्वात्मानमपि न हिंसन्ति, प्रवृद्धस्यान्नस्य च चिरभोक्तृत्वात् । अपि चैतद्गोजनार्थमन्नं न भूयो नापि कनीयः, भूयस्त्वे स्यादजीर्तिः कनीयस्त्वे नास्ति क्षुन्निवृत्तिः । एतदेवाभिप्रेत्य स्मर्यते - ‘नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः’ इति । एवं दानपुरस्सरं युक्तेन प्रमाणेन भुञ्जानान्पुरुषान् लोकद्वये पालयतीत्यर्थः ॥

सायणोक्त-विनियोगः

6अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नं॑ प्रा॒णम्, अन्न॑म् अपा॒नम् आ॑हुः
अन्नं॑ मृ॒त्युं तम् उ॑ जी॒वातु॑म् (=जीवनौषधिम्) आहुः
अन्न॑म् ब्र॒ह्माणो॑ ज॒रस॑व्ँ वदन्ति
अन्न॑म् आहुᳶ प्र॒जन॑नम् प्र॒जाना᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन्न॑म्प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्न॑म्मृ॒त्युन्तमु॑ जी॒वातु॑माहुः ।
अन्न॑म्ब्र॒ह्माणो॑ ज॒रस॑व्ँवदन्ति ।
अन्न॑माहुᳶ प्र॒जन॑नम्प्र॒जाना᳚म् ।

सायण-टीका

सर्वव्यवहारकारणत्वादस्यान्नस्य माहात्म्यमविवादम् । तत्कथमिति तदुच्यते - योयं प्राणवायुरूर्ध्वं संचरति यश्चापानवायुरधः संचरति तावुभावन्नजन्यबलादेव संचरतः । अतस्तयोरन्नात्मकत्वमाहुः । रसवैषम्येण व्याधिद्वारा मारकत्वादन्नं मृत्युमाहुः । तमेवान्नदेवं जीवातुं जीवनौषधमाहुः । तच्च लोके प्रसिद्धम् । ब्रह्माणः आयुर्वेदशास्त्राभिज्ञा ब्राह्मणाः अन्नमेव जरसं वदन्ति जराहेतुमाहुः । केनचिदाहारविशेषण सहसा अतिपलितत्वप्राप्तिरित्यायुर्वेदप्रसिद्धिः । अन्नमेवेन्द्रियवृद्धिद्वारा प्रजानां प्रजननं उत्पादकमाहुः ॥

सायणोक्त-विनियोगः

7अथ हविष एव विकल्पितामन्यां पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

मोघ॒म् अन्न॑व्ँ विन्दते॒ अ-प्र॑-चेताः (अदातृत्वेन लक्षितः)
स॒त्यम् ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म् पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मोघ॒मन्न॑व्ँविन्दते॒ अप्र॑चेताः ।
स॒त्यम्ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म्पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सायण-टीका

योऽयमदाता सोऽयं अप्रचेताः प्रकृष्टज्ञानरहितः मोघं व्यर्थमेव अन्नं विन्दते लभते । तदेतत्सत्यं ब्रवीमि न केवलं वैयर्थ्यं किंतु सः अयमदत्तोऽन्नपदार्थः तस्य दानरहितस्य पुरुषस्य वध इत् वध एव वधवद्बाधकमेवेत्यर्थः । तत्र वैयर्थ्यं तावत्स्पष्टीक्रियते - योऽयमदाता सोऽयमन्नेनार्यमादिकं देवं न पुष्यति अग्नावाहुत्यभावात् । सखायं अतिथ्यादिरूपं मनुष्यं न पुष्यति दानाभावात् । अतः परलोके अनुपयोगेन वैयर्थ्यम् । वधहेतुत्वं स्पष्टीक्रियते - केवलादी केवलं भुङ्क्ते न तु ददाति सोऽयं केवलाधो भवति पापमेव संपादयति न तु किञ्चिदपि पुण्यम् सोऽयं वध एव, नरकहेतुत्वात् ॥

सायणोक्त-विनियोगः

8अथ हविषो विकल्पिता याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् मे॒घस् स्त॒नय॒न् वर्ष॑न्न् अस्मि
माम् अ॑दन्त्य्, अ॒हम् अ॑द्म्य् अ॒न्यान् ॥ 61 ॥
अ॒हꣳ सद् अ॒मृतो॑ भवामि
मद् आ॑दि॒त्या अधि॒ सर्वे॑ तपन्ति

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम्मे॒घस्स्त॒नय॒न्वर्ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥
अ॒हꣳ सद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।

सायण-टीका

योऽयं मेघः स्तनयन् गर्जन् वर्षश्च वर्तते सोऽयं मेधोऽपि अहमन्नदेवः अस्मि । अग्नौ हुतस्यान्नस्य मेघरूपेण परिणतत्वात् । अत एव स्मर्यते - ‘अग्नौ प्रास्ताऽऽहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः’ इति । दातारो ये सन्ति ते मामदन्ति सुखेन भक्षयन्ति । अन्यांस्तु दानरहितानहमेवाद्मि विनाशयामि । अहमेव दातॄणां पथ्यं सत् अमृतो भवामि अमरणहेतुर्भवामि देवत्वं प्रापयामीत्यर्थः । सर्वेऽप्यादित्या मत् अन्ननिमित्तत्वादधिकत्वेन तपन्ति । अन्नाभावे ते स्वयमेव न जीवेयुः कुतस्तपेयुरित्यर्थः ॥