१२५ अहं रुद्रेभिः ...{Loading}...
०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत ...{Loading}...
अहं᳓ रुद्रे᳓भिर् व᳓सुभिश् चराम्य्
अह᳓म् आदित्यै᳓र् उत᳓ विश्व᳓देवैः ।
अहं᳓ मित्रा᳓व᳓रुणोभा᳓+++(←“देवताद्वन्द्वे च।”)+++ बिभर्म्य्
अह᳓म् इन्द्राग्नी᳓ अह᳓म् अश्वि᳓नोभा᳓ ॥ १॥
०२ अहं सोममाहनसं ...{Loading}...
अहं᳓ सो᳓मम् आहन᳓सं +++(=मर्दयित्वोत्पादितं)+++ बिभर्म्य्
अहं᳓ त्व᳓ष्टारम् उत᳓ पूष᳓णं भ᳓गम् ।
अहं᳓ दधामि द्र᳓विणं हवि᳓ष्मते
सुप्राव्ये३᳓+++(←अव् रक्षणतृप्त्यादौ)+++ य᳓जमानाय +++(सोमं)+++ सुन्वते᳓ ॥ २॥
+++(सुप्राव्ये - चतुर्थ्येकवचने यणि ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’ इति सुपः स्वरितत्वम्।)+++᳓
०३ अहं राष्ट्री ...{Loading}...
अहं᳓ रा᳓ष्ट्री+++(=राज्ञी)+++ संग᳓मनी व᳓सूनां
चिकितु᳓षी +++(=ज्ञात्री)+++ प्रथमा᳓ यज्ञि᳓यानाम् ।
तां᳓ मा देवा᳓ व्यदधुः पुरुत्रा᳓ +++(=बहुविधं)+++
भू᳓रिस्थात्रां भू᳓र्या वेश᳓यन्तीम् ॥ ३॥
०४ मया सो ...{Loading}...
म᳓या सो᳓ अ᳓न्नम् अत्ति यो᳓ विप᳓श्यति
यः᳓ प्रा᳓णिति य᳓ ईं शृणो᳓त्य् उक्त᳓म् ।
अमन्त᳓वो मा᳓न् त᳓ उ᳓पक्षियन्ति +++(=उपवसन्ति)+++
श्रुधि᳓ श्रुत श्रद्धिवं᳓ ते वदामि ॥ ४॥
०५ अहमेव स्वयमिदं ...{Loading}...
अह᳓म् एव᳓ स्वय᳓म् इदं᳓ वदामि
जु᳓ष्टं देवे᳓भिर् उत᳓ मा᳓नुषेभिः ।
यं᳓ काम᳓ये तं᳓-तम् उग्रं᳓ कृणोमि
तं᳓ ब्रह्मा᳓णं त᳓म् ऋ᳓षिं तं᳓ सुमेधा᳓म् ॥ ५॥
०६ अहं रुद्राय ...{Loading}...
अहं᳓ रुद्रा᳓य ध᳓नुर् आ᳓तनोमि
ब्रह्म-द्वि᳓षे श᳓रवे ह᳓न्तवा᳓+++(6.1.200 इति स्वरः)+++ उ ।
अहं᳓ ज᳓नाय सम᳓दं कृणोम्य्
अहं᳓ द्या᳓वा-पृथिवी᳓ आ᳓विवेश ॥ ६॥
०७ अहं सुवे ...{Loading}...
अहं᳓ सुवे पित᳓रम् अस्य मूर्ध᳓न्
म᳓म यो᳓निर् अप्स्व् अ᳓१᳓न्तः᳓ समुद्रे᳓ ।
त᳓तो वि᳓तिष्ठे भु᳓वना᳓नु वि᳓श्वो-
ऽता᳓मूं᳓ द्यां᳓ वर्ष्म᳓णा+++(=vertex)++++उ᳓पस्पृशामि ॥ ७॥
०८ अहमेव वात ...{Loading}...
अह᳓म् एव᳓ वा᳓तऽइव प्र᳓वाम्य्
आर᳓भमाणा भु᳓वनानि वि᳓श्वा ।
परो᳓ दिवा᳓ पर᳓ एना᳓+++(=अनया)+++ पृथिव्या᳓
+एता᳓वती महिना᳓ स᳓म्बभूव ॥ ८॥