नमस् ते सदा वत्सले मातृ-भूमे
त्वया हिन्दु-भूमे सुखं वर्धितोऽहम्।
महा-मङ्गले पुण्य-भूमे त्वदर्थे
पतत्व् एष कायो नमस् ते नमस् ते॥१॥
प्रभो शक्तिमन् हिन्दु-राष्ट्राङ्ग-भूता
इमे सादरं त्वां नमामो वयम्।
त्वदीयाय कार्याय बद्धा कटीयम्
शुभाम् आशिषं देहि तत्-पूर्तये॥
अजय्यां च विश्वस्य देहीश शक्तिं
सुशीलं जगद् येन नम्रं भवेत्।
श्रुतं चैव +++(देहि)+++ यत् कण्टकाऽऽकीर्ण-मार्गं
स्वयं स्वीकृतं नः सुगं कारयेत्॥२॥
समुत्कर्ष-निःश्रेयसस्यैकम् उग्रम्
परं साधनं नाम वीर-व्रतम्।
तद् अन्तःस्फुरत्व् अक्षया ध्येयनिष्ठा
हृदन्तः प्रजागर्तु तीव्राऽनिशम्।
विजेत्री च नः संहता कार्य-शक्तिर्
विधायास्य धर्मस्य संरक्षणम्।
परं वैभवं नेतुम् एतत् स्वराष्ट्रं
+++(कार्यशक्तिः)+++ समर्था भवत्व् आशिषा ते भृशम्॥३॥