एकात्मता-स्तोत्रम्

परमात्मा

ॐ सच्-चिद्-आनन्द-रूपाय
नमो ऽस्तु परमात्मने।
ज्योतिर्-मय-स्वरूपाय
विश्व-माङ्गल्य-मूर्तये ॥ १ ॥

भूतादिकम्

प्रकृतिः पञ्च-भूतानि
ग्रहा लोकाः स्वरास् तथा।
दिशः कालश् च सर्वेषां
सदा कुर्वन्तु मङ्गलम्।। २।।

भारतम्

रत्नाकराधौतपदां
हिमालयकिरीटिनीम्।
ब्रह्म-राजर्षि-रत्नाढ्यां
वन्दे भारत-मातरम् ॥ ३ ॥

गिरयः

महेन्द्रो मलयः सह्यो
देवतात्मा हिमालयः।
ध्येयो रैवतको विन्ध्यो
गिरिश् चारावलिस् तथा ॥ ४ ॥

नद्यः

गङ्गा सरस्वती सिन्धुर्
ब्रह्मपुत्रश् च गण्डकी।
कावेरी यमुना रेवा
कृष्णा गोदा महानदी ॥ ५ ॥

नगराणि

अयोध्या मथुरा माया
काशीकाञ्ची अवन्तिका।
वैशाली द्वारिका ध्येया
पुरी तक्षशिला गया ॥ ६ ॥

प्रयागः पाटलीपुत्रं
विजयानगरं महत्।
इन्द्रप्रस्थं सोमनाथः
तथा ऽमृतसरः प्रियम् ॥ ७ ॥

ग्रन्थाः

चतुर्-वेदाः पुराणानि
सर्वोपनिषदस् तथा।
रामायणं भारतं च
गीता षड्-दर्शनानि च ॥८॥

जैनागमास् त्रिपिटकाः
गुरुग्रन्थः सतां गिरः।
एषः ज्ञान-निधिः श्रेष्ठः
श्रद्धेयो हृदि सर्वदा ॥९॥

स्त्रियः

अरुन्धत्य् अनसूया च
सावित्री जानकी सती।
द्रौपदी कण्णगी गार्गी
मीरा दुर्गावती तथा ॥१०॥

लक्ष्मीर् अहल्या चन्नम्मा
रुद्रमाम्बा सुविक्रमा।
निवेदिता शारदा च
प्रणम्या मातृ-देवताः ॥११॥

देव-पुरुषाः

श्रीरामो भरतः कृष्णो
भीष्मो धर्मस् तथार्जुनः।
मार्कण्डेयो हरिश्चन्द्रः
प्रह्लादो नारदो ध्रुवः ॥१२॥

हनुमान्‌ जनको व्यासो
वसिष्ठश् च शुको बलिः।
दधीचि-विश्वकर्माणौ
पृथु-वाल्मीकि-भार्गवाः ॥१३॥

भगीरथश् चैकलव्यो
मनुर् धन्वन्तरिस् तथा।
शिविश् च रन्तिदेवश् च
पुराणोद्गीत-कीर्तयः ॥१४॥

बुद्धा जिनेन्द्रा गोरक्षः
पाणिनिश् च पतञ्जलिः।
शङ्करो मध्व-निम्बार्कौ
श्रीरामानुज-वल्लभौ ॥१५॥

झूले-लालोऽथ चैतन्यः
तिरु-वल्लुवरस् तथा।
नायन्मारालवाराश् च
कम्बश् च बसवेश्वरः ॥१६॥

देवलो रविदासश् च
कबीरो गुरुनानकः।
नरसिस् तुलसीदासो
दशमेशो दृढव्रतः ॥१७॥

श्रीमच्-छङ्कर-देवश् च
बन्धू सायणमाधवौ।
ज्ञानेश्वरस् तुकारामो
रामदासः पुरन्दरः ॥१८॥

बिरसा सहजानन्दो
रामानन्दस् तथा महान्‌।
वितरन्तु सदैवैते
दैवीं सद्गुण-स्संपदम्‌ ॥१९॥

भरतर्षिः कालिदासः
श्रीभोजो जकणस् तथा।
सूरदासस् त्यागराजो
रसखानश् च सत्कविः ॥२०॥

रविवर्मा भातखण्डे +++(गीतविद्वान्)+++
भाग्यचन्द्रः स भूपतिः।
कलावंतश् च विख्याताः
स्मरणीया निरन्तरम्‌॥२१॥

अगस्त्यः कम्बु-कौण्डिन्यौ
राजेन्द्रश् चोलवंशजः।
अशोकः पुश्यमित्रश् च
खारवेलः सुनीतिमान्‌ ॥२२॥

चाणक्य-चन्द्रगुप्तौ च
विक्रमः शालिवाहनः।
समुद्रगुप्तः श्रीहर्षः
शैलेन्द्रो बप्प-रावलः ॥२३॥

लाचिद्-भास्कर-वर्मा च
यशो-धर्मा च हूणजित्‌।
श्रीकृष्ण-देवरायश् च
ललितादित्य उद्बलः ॥२४॥

मुसुनूरि-नायकौ तौ
प्रतापः शिवभूपतिः।
रणजित्-सिंह इत्येते
वीरा विख्यात-विक्रमाः ॥२५॥

वैज्ञानिकाश् च कपिलः
कणादः सुश्रुतस् तथा।
चरको भास्कराचार्यो
वराहमिहिरः सुधीः ॥२६॥

नागार्जुनो भरद्वाजः
आर्यभटो वसुर् बुधः। ध्येयो वेङ्कटरामश् च
विज्ञा रामानुजादयः ॥२७॥

रामकृष्णो दयानन्दो
रवीन्द्रो राममोहनः।
रामतीर्थो ऽरविंदश् च
विवेकानन्द उद्यशाः ॥२८॥

दादाभाई गोपबन्धुः
तिलको गान्धिर् आदृताः।
रमणो मालवीयश् च
श्रीसुब्रह्मण्य-भारती ॥२९॥

सुभाषः प्रणवानन्दः
क्रान्तिवीरो विनायकः।
ठक्करो भीमरावश्च
फुले+++(4)+++ नारायणो गुरुः ॥३०॥
+++(फुले-भीमरावान्तर्भवो न श्रेयस्ये । उभावपि हिन्दुक-विरोधिनौ। P1. )+++

संघ-शक्ति-प्रणेतारौ
केशवो माधवस्तथा।
स्मरणीयाः सदैवैते
नव-चैतन्य-दायकाः ॥३१॥

अनुक्ता ये भक्ताः प्रभुचरण-संसक्त-हृदयाः
अनिर्दष्टा वीरा अधि समरम् उद्ध्वस्त-रिपवः।
समाजोद्धर्तारः सुहित-कर-विज्ञाननिपुणाः
नमस् तेभ्यो भूयात् सकल-सुजनेभ्यः प्रतिदिनम्‌ ॥ ३२॥

फलम्

इदम् एकात्मता-स्तोत्रं
श्रद्धया यः सदा पठेत्‌।
स राष्ट्रधर्म-निष्ठावान्
अखण्डं भारतं स्मरेत्‌ ॥३३॥