वन्दे मातरम्

{ }

वन्दे मातरम्।
सुजलां सुफलाम्
मलयज-शीतलाम्
श+++(स)+++स्य-श्यामलाम्
मातरम्।
(वन्दे मातरम्।)

शुभ्र-ज्योत्स्ना-पुलकित-यामिनीम्
फुल्लकुसुमित-द्रुमदल-शोभिनीम्
सुहासिनीं सुमधुर-भाषिणीम्
सुखदां वरदां मातरम्॥ १॥
(वन्दे मातरम्।)

कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले
कोटि-कोटि-भुजैर् धृत-+++(प्र)+++खर-करवाले+++(=खड्गे)+++, अबला केन मा एत बले।
बहुबलधारिणीं
नमामि तारिणीं
रिपुदलवारिणीं
मातरम्॥ २॥
(वन्दे मातरम्।)

तुमि विद्या, तुमि धर्म
तुमि हृदि, तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारई प्रतिमा गडि मन्दिरे-मन्दिरे [मातरम्]॥ ३॥
(वन्दे मातरम्।)

त्वं हि दुर्गा दश-प्रहरण-धारिणी
कमला कमल-दल-विहारिणी
वाणी विद्यादायिनी,
नमामि त्वाम्
नमामि कमलाम्
अमलाम् अतुलाम्
सुजलां सुफलाम्
मातरम्॥४॥
(वन्दे मातरम्।)

वन्दे मातरम्
श्यामलाम् सरलाम्
सुस्मिताम् भूषिताम्
धरणीं भरणीं
मातरम्॥ ५॥
(वन्दे मातरम्।)