देशगीतिका
गुणगणमण्डित-यदुवरलसिता
राजति भारतमाता ।
नीति-बोधक-परात्-पर-गीता
बोधक-योगि-जनाप्ता ॥ १॥
रम्य-सुरालय-सरिद्-आक्रीडैः
भव्य-सुललित-निजाङ्गा ।
अभिमत-सिद्धा धन्या
शुभ-फल-वृद्धि-सुमान्या
जीयाद् भारत-शोभा ॥ २॥
अनुदिन-मङ्गल-दायक-दयया
भारत-माता जयतात् ।
जयतात्, जयतात्, जयतात्
निज-जन-गणम् अवतात्
भारत-माता जयतात् ॥ ३॥
- श्री सीतारामाचार्यः