प्रैतु ब्रह्मणस्पतिः

प्रैतु ब्रह्मणस्पतिः ...{Loading}...

ऋक्

ऋग्वेदः १.४०.३
ऋषिः कण्वो घौरः
देवता ब्रह्मणस्पतिः
छन्दः बृहती
सायणः अत्र। श्रौतेविनियोगः - महावीराग्निपात्र-नयने।

प्रैतु॒ ब्रह्म॑ण॒स् पतिः॒
प्र दे॒व्ये॑तु सू॒नृता॑ +++(वाग्देवी)+++।
अच्छा॑ वी॒रं नर्यं॑ +++(=नरेभ्यो हितम्)+++ +++(ब्राह्मणोक्त-हविष्)+++प॒ङ्क्तिरा॑धसं +++(=साधकं)+++
दे॒वा य॒ज्ञं न॑यन्तु नः ॥

पदपाठः

प्र । ए॒तु॒ । ब्रह्म॑णः । पतिः॑ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता॑ ।
अच्छ॑ । वी॒रम् । नर्य॑म् । प॒ङ्क्तिऽरा॑धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒ ॥

साम

प्रैइ+++([])+++: तूउ ।। ब्र०ह्माणस्पतीः । प्रा+++([])+++दाइ, वियॆ । तू+++([])+++सूनृताअ । अ+++([])+++छा, अवाइराअ० । न+++([])+++र्य०पा । इङ्ती+++([])+++रा, अ, धाआसा, अ० । दे+++([])+++वा,अया, ङ्ञाअ० । ना,+++([])+++अया, अअऔहूवाअ । तू,+++([])+++नाः ॥