यत् ते अग्ने ...{Loading}...
यत्ते॑ अग्ने॒ ...{Loading}...
मूलम् (संयुक्तम्)
यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [11]
विश्वास-प्रस्तुतिः
यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।
मूलम्
यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।
भट्टभास्कर-टीका
5यत्ते अग्ने इत्यादि यजुः ॥ तेजो दीप्तिः ।
विश्वास-प्रस्तुतिः
यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।
मूलम्
यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।
भट्टभास्कर-टीका
वर्चोन्नम् ।
विश्वास-प्रस्तुतिः
यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥
मूलम्
यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥
भट्टभास्कर-टीका
हरः बलम् । त्वदीयैस्तेजःप्रभृतिभिः मदीयेन यागेन वर्धभानैर्हेतुभिः अहं तेजःप्रभृतिमान् भूयासमिति ॥
इति तृतीये पञ्चमे तृतीयोनुवाकः ॥