पृक्षस्य वृष्णो

पृक्षस्य वृष्णो ...{Loading}...

ऋक्

ऋग्वेदः ६.८.१
ऋषिः भरद्वाजो बार्हस्पत्यः
देवता वैश्वानरोग्निः
छन्दः जगती
सायणो ऽत्र

संहिता

पृ॒क्षस्य॒+++(=पृक्षं हविर्लक्षणम् अन्नं तद्वतः)+++ वृष्णो॑+++(=वर्षितुः)+++ अरु॒षस्य॒+++(=आरोचमानस्य)+++ नू सहः॒+++(=बलम्)+++
प्र नु वो॑चं वि॒दथा॑ +++(=यज्ञे)+++ जा॒तवे॑दसः ।
वै॒श्वा॒न॒राय॑ म॒तिर् नव्य॑सी॒+++(=नवतरा)+++ शुचिः॒
सोम॑ इव पवते॒ चारु॑र् अ॒ग्नये॑ ॥

पदपाठः

पृ॒क्षस्य॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । नु । सहः॑ । प्र । नु । वो॒च॒म् । वि॒दथा॑ । जा॒तऽवे॑दसः ।
वै॒श्वा॒न॒राय॑ । म॒तिः । नव्य॑सी । शुचिः॑ । सोमः॑ऽइव । प॒व॒ते॒ । चारुः॑ । अ॒ग्नये॑ ॥

साम

हा+++([])+++उ ।।त्रिः ।।
ऊ+++([])+++ऊ ।। द्विः ।। ऊ+++([])+++उवा+++([])+++अ ।
ह+++([])+++उवाअ ।
ह+++([])+++स्, हहस् । अ+++([])+++र्चि श्शोचि स्तपो हराः ।
पृ+++([]प्र)+++क्षस्य, वृ+++(वि)+++ष्णो अर्ष, स्या नू स+++(मा)+++, अहाः ।
प्र+++([])+++नो, वचो, विदधा, जा । तावेदा, असाइ । वै+++([])+++श्वानराय, मतिर्न, व्या से शू, उचीः । सो+++([])+++म इव पवतेचा, रूरग्ना, या, इ । हा+++([])+++उ ।। त्रिः ।। ऊ+++([])+++उ ।। द्विः ।। ऊ,+++([])+++उ । वा,+++([])+++अ । हा+++([])+++उवाअ । ई+++([])+++ई ॥