प्रदक्षिणावर्त-शिखः
शुचि-लोमा मखा-कृतिः ।
हव्य-भुग् भूत-भव्येशो
हव्य-भाग-हरो हरिः ॥
सोम-पः सुमहा-तेजा
भूतेशः सर्व-भूत-हा ।
अधृष्यः पावको भूतिर्
भूतात्मा वै स्वधाधिपः ॥
स्वाहा-पतिः साम-गीतः
सोम-पूताशनो ऽद्रिधृक् ।
देव-देवो महा-क्रोधो
रुद्रात्मा ब्रह्म-संभवः ॥
लोहिताश्वं वायु-चक्रं
रथम् आस्थाय भूतकृत् ।
धूम-केतुर् धूम-शिखो
नील-वासाः सुरोत्तमः ॥
उद्यम्य दिव्यम् आग्नेयम्
अस्त्रं देवो रणे महत् ।
दानवाणां सहस्राणि
प्रयुतान्य्य् अर्बुदानि च ॥
ददाह भगवान् वह्निः
संक्रुद्धः प्रलये यथा ।
प्राणो यः सर्वभूतानां
हृदि तिष्ठति पञ्चधा ॥
विस्तारः (द्रष्टुं नोद्यम्)
While agni is praised as the great commander of the army of the gods in the shruti, we have few accounts of martial prowess in the purANa-s. However, here is one great piece from the harivaMsha that might be fragment from a proto-purANa. -MT