०४ त्वं नो ...{Loading}...
त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो(=क्रोधो ) ऽव॑ यासिसीष्ठाः(=यक्षीष्ठाः) ।
यजि॑ष्ठो॒ (हविर्)वह्नि॑तम॒श् शोशु॑चानो॒(=देदीप्यमानः)
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।
०५ स त्वं ...{Loading}...
स त्वन् नो॑ अग्ने ऽव॒मो(=मूलभूतो) भ॑व॒+ऊ॒ती(त्या)
(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)
नेदि॑ष्ठो(=अन्तिकतमो) अ॒स्या उ॒षसो॒ व्यु॑ष्टौ(=व्युष्टायाम्) ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि(=खाद) मृ॑डी॒कँ(=सुखयितारं [हविः]) सु॒हवो॑ न एधि ।
(अग्नीवरुणाभ्याम् इदं न मम)
१६ त्वमग्ने अयाऽस्यया ...{Loading}...
त्वम् अ॑ग्ने अ॒या(=एतव्यः/ प्रत्येता) ऽस्य्
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)