भट्टभास्करो ऽत्र।
35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...
अना॑ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
38 पुरुषसम्मितो यज्ञः ...{Loading}...
पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वँ हि वेत्थ॑ यथात॒थम् ।
41 यत्पाकत्रा मनसा ...{Loading}...
यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन् ।
यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥115॥
विनियोगः
- बोधायनः - सर्वत्रानाज्ञातप्रायश्चित्तेष्व् “अनाज्ञातम्पुरुषसंमित इत्येता"भ्याँ स्रुवाहुती जुहुयात्।