जनवरीमासस्यैकादशे दिनाङ्के संस्कृतभारत्या कालिफ़ोर्नियाराज्यस्य सुन्निवेलनगरे आयोजिते कार्यकर्तृदृढीकरणकार्यक्रमे उपचत्वारिंशज् जना आगताः। युवत्या विद्यालयछात्रया वारिजाख्यया कार्यक्रमोऽयं दक्षतया चालितः। तत्प्रेरणया तत्रोपस्थितेन प्रत्येकेनाऽपि स्वपरिचय-दायित्व-वचन-पुरस्सरं कृतं तत्रत्यान्यजनस्य कस्यचन सद्गुणकीर्तनम्, येन सभा मैत्रिभावपूर्णताम् अगात्। संस्कृतभारत्या अमेरिकाराष्ट्रसङ्घटनमन्त्री पद्मकुमारार्यो ऽभाषत। भिन्नैर् दृष्टान्तैश् चतुरैस् तेन कार्यकर्तृलक्षणानि स्थिरता-सरलता-सहकार-सन्तोष-सौम्यत्व-प्रभृतीनि प्रतिपादितानि। स्मेरमुखैस् संस्कृतभारतीकार्यकर्तृभिः परिवेष्टेन स्वादुभोजनेन समं सहृदयैस् साकं स्वादुसम्भाषणानि अप्यजायन्त प्रायेण संस्कृताध्ययनकेन्द्रितानि। अनेनोप्तानां संस्कृतप्रसारणसङ्कल्पात्मकबीजानां फलानि कौतुकेन प्रतीक्षामहे!