स्वप्नेषु का भाषा?

अस्मिन् विषये कदाचित् मात्रा +Pushpa Dikshit वर्यया चर्चितम्।गतरात्रौ तावदेवम् स्मरामि। (अधः स्वप्नकथने लिटं प्रयुञ्जे।)

प्रथमे स्मृते स्वप्ने पित्रा सह प्रयातुर् मे ऽपकर्तॄन् दुष्टशुनकान् पलायनात् परं पुनराक्रम्य ताडयन्नहं मातृभाषां हेब्बारतमिळं बभाषे पितरमुद्दिश्य (शुनकानुद्दिश्य कया भाषितमिति न स्मर्यते - आङ्ग्लमिति चिन्तयामि)।

द्वितीये स्मृते स्वप्ने कस्मिंश्चिन् मन्दिरे दुर्गासूक्तं वदता केनचिद् वृद्धब्राह्मणेन “शन्योः” इति विशिष्य प्रयोगे कृते, अन्येषु विप्रेषु “शं योः / शय्ँयोः” इति साधुर् भवति इति चर्चयत्सु (प्रादेशिकभाषाभ्यां), तत्र कारणं किमिति वचने असमर्थेषु च, मया “अनुस्वारस्य ययि परसवर्णः” इत्यादिकमवादि संस्कृतेन।

तृतीये स्मृते स्वप्ने सर्वेऽप्य् आङ्ग्लिकमेव बभाषिरे। तत्र कुब्जाः मायाविना गाण्डाल्फ़वर्येण “Lord of the rings”-नायकेन नीयमानाः किञ्चन गृहम् आक्रममाणेभ्यो बृहत्कृमिभ्यो ररक्षुः, रक्षणार्थं स्वव्यवस्थां च चक्रुः।