छन्दः

गेयता

द्राविडेषु छन्दश्शैथिल्यं राजतेतराम्। गीत-कर्षणप्रधानान्य् उचारणानि भवन्ति।
यत्र च्छन्दसि गेयस्पर्शोऽल्पतरः, पादवैषम्यं च वर्तते,
तादृशेन कृतम् पद्यम् “इयल्” इत्य् एव परिगण्यते,
न त्व् “इशै"(=गेयतरं) इति।

पण् इति गेयतालक्षणान्य् उच्यन्ते।

सीर् इति वर्ण-गणः - पदं वा पद-भागं वापि स्यात्। विशिष्टनियमा भवन्ति।

भेदाः

४ विधाः, येषु भवन्त्य् उपप्रकाराः।

वॆण्-पा - तिरुक्कुरल्-छन्दः। १-पादे ४ सीर्-गणाः। २-पादे ३ सीर्-गणाः।

लघूकरणम्

“ऒण्(=उज्ज्वल)-तॊडियाळ्(=केयूरा) तिरु-मगळुम्,
नीयुम् ए नि(ल्)लान् इऱ्‌पव्”

इति मात्रापरिवर्तनार्थं संयुक्ताक्षरत्यागो ऽप्य् अनुमतः - यदि तेनार्थविपर्ययो न स्यात्।

शब्दालङ्कारः

पादादिप्रासः (मोनै) प्रसिद्धः। अनुप्रासः (यदुगै) च।

अन्तादि-रूपं पद्यमालारचनम् अपि स्मरण-सौकर्याय कल्पते।
क्वचित् तत्र समानार्थक-शब्दान्तरम् अपि युज्यते।
(अन्तादि-रूपाभावे पद्यादि-शब्दावली पृथक् स्मरन्ति +आनुपूर्वी-स्मरणाय। )