श्रीरस्तु श्री रामचन्द्रपरब्रह्मणेनमः श्री विखनसे नमः उत्तम ब्रह्मविद्यासारः पञ्चमाधिकारः अथ चतुर्चि रधिकारै र्विस्तरे णोक्ता सर्दा नवगु मशक्तानां सतां सुखबोधायोत्तम ब्रह्मविद्यासारसङ्ग्रहभ्योयं पञ्च माधिकारः प्ररभ्यते, अयरच पूर्वमुदाहृताना मानु शासनिक वचनानां विवरणरूप तत्र हि युधिष्टिरो भीष्मं पृच्छति– यदेयं परमं कृत्य मनुषेयं महात्मभिः, सारं मे सर्वशास्त्राणां वक्तु मर स्यनुग्रहात्। यत्स्वरूपं, परमं सर्वोत्कृष्टं, ज्ञेयं ज्ञातव्यं, परमशब्दस्य मध्यमणिन्याये नोभयत्रान्वयः यत्परमं कृत्य मनुषेय प्रश्नद्वयं भवति। सर्वशास्त्राणां शासनाच्छास्त्रमित्युक्ते र्वेदादीना मित्यर्थः सारं तात्पर्य विषयभूत मनु प्लेय मित्यर्थः। अथभीष्मस्योत्तरः :- श्रूयता मिद मत्यन्तं गूढं संसारमोचनं, श्रोतव्यं च त्वया सम्यक् ज्ञातव्यं च विशाम्पते। पुण्डरीकः पुराविप्रः पुण्यतीर्थजलाप्लुतः, नारदं परिपप्रच्छ श्रेयो योगिवरं मुनिं। 3 स्वयं सारज्ञोपि भीष्मः युधिष्ठिराय स्वाभिप्रायोत्तरे वृद्धसम्मतिं दर्शयितुं पुण्डरीक नारद संवाद मभिधत्ते। पुण्डरीकाभ्यो विप्रः नारदं श्रेयः पप्रच्छेति। दुहादित्वात् पृच्छतेः द्विकर्मकत्वं तीर्थजलाप्लुत इत्यनेन तस्य परिशुद्धत्वं। परमविषयजिज्ञासोत्पत्ति श्च बोध्यते। नारद श्चाब्रवी देनं ब्रह्म णोक्तं महात्मना। 3 तेन 108 उत्तम ब्रह्मविद्यासारः अत्र ब्रह्मणेति विखनसशब्दवाच्य ए वोच्यते। स एवहि “नारायण परायणो निर्द्वन्द्वो मुनिः, विष्णुः परमः, नारायण परं ब्रह्म ध्याय" न्नित्यादिना त्र वक्ष्यमाणभगवत्पारम्यं, “नारायणमर्चये" दित्यादिना तदर्भनस्य मोक्षो पायत्वं च स्वसूत्रे प्राचीकशत्। चतुर्मुख एव कि म प्युद्दिश्य शुद्धसत्त्वेन मनसा भगवन्तं खवनापरनाम्ना ध्याने नानन्दय विखनसनामा भू दिति पूर्वं दर्शितं। नारदः :- श्रुणुष्वावहितस्तात ज्ञानयोग मनुत्तमं, अप्रभूतं प्रभूतार्धं वेद शास्त्रार्थ सारकम्। अप्रभूतं शबतो नविस्तरं, प्रभूतार्दं अरबहुळं, वेदशास्त्राणां, सारकं हेयांशरहितं, ज्ञानयोगं, श्रुणुष्व सावधानं श्रुणु। अव। प्रथमं नारायण शब्दं व्युत्पादयति। यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः, स एव सर्वभूतात्मा नर इत्यभिधीयते। प्रकृतेः प्रधानात्, परतः परस्तात् वर्तमानः, “आदित्य वर्णं तमस स्तु पारे" इति श्रुतेः। पञ्चविंशकः चतुर्विंशति तत्त्वव्यतिरिक्तः, चतुर्विंशतितत्त्वानि पृथिव्यादीनि, पुरुषः, परित्युच्यते। नराजातानि तत्त्वानि नाराणिति ततो विदुः तान्येव चां नं तस्य तेव नारायण स्स्मृतः। नरसम्भूतत्वात्तत्त्वानि नारशब्दवाच्यानि “आत्मन आकाश स्सम्भूतः। आकाशद्वायु” रीत्यादिश्रुतेः। तानि, अयनं स्थानं, तस्यास न्निति शेषः, “यः पृथिव्यां तिष्ठ” न्नि त्यादिश्रुतेः। अनेन परमपुरुषस्य नाम्नैव सर्वकारणत्व सर्वान्तर्यामित्वादि सिद्धिरि त्यवगम्यते। अव तदेवोपपादयति। नारायणा जगत्सर्वं सर्गकाले प्रजायते, तस्मि न्नेव पुनस्तच्च प्रळये प्रविलीयते। पञ्चमाधिकारः 109 सर्गकाले स्पष्टो। नारायणात् सर्वं जायते। पुनः तत् जगत्। तस्मि, प्रविलीयते “नारायणा तवर्तन्ते नारायणे प्रलीयन्ति" इतिश्रुतेः अनेन जगतो मिथ्यात्वं नेति बोध्यते सत्याद्वस्तुनो मिथ्योत्पत्त्यनुपपत्तेः। नारायणः परं ब्रह्म तत्त्वं नारायणः परः परा दपि परश्चासौ तस्मा न्नास्ति परात्परम्। नारायणः परं ब्रह्म, स एव परं ब्रह्म परन्तत्त्व परमात्मादि शब्दवाच्य इत्यर्थः अनेन “सत्यं ज्ञान मनन्तं ब्रह्मे” त्यादिश्रुतिप्रतिपाद्यो नारायण ए वेति बोधितं। असौ परा धवी वरः “परात्परंयन्महतोमहान्त" मिति श्रुतेः। तस्मात्परात्, परन्नास्तिक्वचि द्य्रह्म रुद्रादीनां परत्वप्रतिपादनं तुतेषां नारायणात्मकत्वादिति बोध्यते। तस्मिन् पर्वणि एकोनचत्वारिंशाध्याये “निशासुप्तो थ भगवान् क्षपान्ते प्रत्यबुध्यत, पश्चा द्भुद्द्वाससरावः” इत्यारभ्य “हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलजङ्घुनिं। भूतभव्यभविष्यस्य कर्तार मनघं विभुं। मूर्तिमन्तं महात्मानं विश्वशम्भुं स्वयम्भुव” मिति,
ब्रह्म-विद्या-सार-सङ्ग्रहः
वासुदेवं तथा विष्णु मात्मानं च तथा विदुः, सञ्ज्ञाभेदै स्स ए वैक स्सर्वशास्त्राभिसंस्तुतः विदुः, त मेम नारायणं पाञ्चरात्रिणो वासुदेवं वैखानसाविष्णुं विदुः, अन्ये आत्मानं विदुः। एक एव नारायणो वैखानसादिशास्त्रेषु विष्ण्वादि सञ्ज्ञाभेदैस्तुत इत्यर्थः तदुच्यते आश्वमेधिके— “विष्णुं च पुरुषं सत्य मच्युतं च युधिष्ठिर, अनिरुद्धं च मां प्राहु र्वैखान विदो जनाः। अन्ये त्वेपं विजानन्ति मां राजन् पाञ्चरात्रिणः, वासुदेवं च राजेन्द्र सङ्कर्षण मथापि वा। प्रद्युम्नं चानिरुद्धं च इत्यारभ्य सञ्ज्ञाभेदेन मूर्तय" इति। अत्र— “यज्वभि र्यज्ञपुरुषो वासु देवश्च सात्वतैः, वेदान्तवेदिभि र्विष्णु" रीति पराशरवचन म व्यनु सन्धेयं। अत्र वेदान्त वेदिशब्देन वैखानसा गृह्यन्त इति पूर्वं प्रपञ्चितं। 110 उत्तम ब्रह्मविद्यासारः आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः इद मेकं सुनिष्पन्नं ध्येयो नारायण स्सदा। 00 शास्त्ररूपक्षीरार्णवं मथित्व सदा नारायणो ध्येय इति। ज्ञानरूप ममृतं निष्पन्न मित्यर्धः। “त मेवं विद्वा नमृत इह भवति, नान्यः पन्था अयनाय विद्यते” इति श्रुतेः। तस्मात्त्वं गहनान् सर्वान् त्यक्त्वा शास्त्रार्थविस्तरान् अनन्यचेता थ्यायस्व नारायण मजं विभुं। मुहूर्त मपि योध्याये न्नारायण मतस्धितः, सो पि तद्धति माप्नोति किं पुन स्तत्परायणः। G0 गहनान् दुरवगाहान् दुष्करा नित्यर्थः सर्वान् मोक्षमार्गान्, त्यक्त्वा, नारायणं ध्यायस्व। नारायण ध्यानरूपं सुगमं मार्गं प्रविशेत्यर्थः। चतुर्दु जपहोमार्चन ध्यानेषु ‘अव। एवं श्रीशास्त्रोक्त विधया पूजामार्गेषु ध्यान मुक्त्वा जप माह ॥ नमो नारायणायेति यो वेद ब्रह्म शाश्वतं, अन्तकाले जप न्नेति त द्विष्णोः परमं पदं। 03 यद्यप्यत्र “अन्तकाले जप” न्निति श्रीमदष्टाक्षरमन्तरपोनन्त काल उक्तः, तथाकपि तत्पूर्व मपि नित्यं तज्ञपः कार्यः उच्यते हि श्रीशास्त्रि भगवता मरीचिना— “सावित्रीपूर्व मष्टाक्षरं द्वादशाक्षरं वा जपे दिति। साविता भगवत्परत्वं पूर्व मुपपादितम्। स्तदर्गानु अव। एवं जपं विधाय तदर्चनादिकं विधते— श्रवणा न्मनना च्चैव गीति स्तुत्यर्चनादिभिः। आराध्यं सर्वदा ब्रह्म पुरुषेण रीतैषिणा श्रवणात् वेदान्तश्रवणात्, मननात् पुनःपुन सन्धानात्। अनन्तरं निदिध्यासनप्रकार माह-गीति स्तुत्यर्चनाभि रिति, आदि शब्देन नमस्कारहोपुनराहमादिकं गृह्यते। ब्रह्म नारायणः, आराध्यं। यद्य व्यत्रार्चन मपि गीत्यादिभि स्सामान्येन विहितं, तथापि तदेव प्रधानं; गीत्यादीनां तदङ्ग त्वे च उपपत्तेः। अते पात्र वक्ष्यते— “नारदे नैव मुक्त स्तुन विप्रोभ्यर्च यद्धरिं इति। अत्राङ्गिनोकर्चनस्य प्रतिपादनेन तदङ्गानि जपध्यानहोम प्रणाम G C पञ्चमाधिकारः 111 स्तोत्राणि च कृतवा निति गम्यते। अत्रार्चनशब्दिन प्रतिमाराधन रूपबाह्यार्चन मेवूच्यते; स्तुति नमस्कारादीनां तदङ्गत योपपत्तेः। अत एव भगवान् विखना स्सूत्रे प्रति मार्चनं विधायतदं ते— “पुरुषसूक्तेन संस्तूय प्रणामं कुर्या दिति विधत्ते। भगवताकपि गीयते “मद्याजीमां नमस्कुरु" इति। श्रुतिभिश्च— “विष्णवे चार्चत" धृतो कर्ध्वपुण्ड्रः पर विशितारं विष्णुम्परं पूजयति स्वशक्त्या” “क्रियावानेष ब्रह्मविदां वरिष्ठ" इत्यादभिः पूजा विधीयते। “निचाय्य तं मृत्युमुखा त्प्रमुच्यत” इति श्रुतिः। नाचाय्य पूजयित्वेत्यर्थः। “चायपूजा निशामनयो"रिति धातोर्यप्। वेदान्त शास्त्रे च—“अप् संराधने प्रत्यक्षानुमानाभ्या” मिति भगवदाराधनं विनात स्याप्राप्यत्व मुच्यते अनेका स्स्मृतय श्चोदाहृताः। स्मर्यतेच प्रतिमायामर्चनं “सुरूपां प्रतिमा” मित्यादिना। श्रीभागवतेच—“यमादिभि र्योगपथै रान्वीक्षक्याच वद्यया, ममार्चोपासनाभि र्वा नान्यं योग्यं स्मरे न्मुनिः” इत्यभिधीयते। लिप्यते न स पापेन नारायणपरायणः, पुनाति सकलं लोकं सहस्रांशु रिवोदितः। Ox नारायणपरायणः जपार्चनध्यानादिभि र्नारायणैकनिष्ठः, पापेन न लिप्यते; “यथा पुष्करवालाने आपो नश्लेष्यन्त” इत्यादिश्रुतेः। सकलं लोकं पुनाति। यथा स्वालोकमात्रेण सूर्य स्तमोनिरस्य लोकं विमलीकुरुते, तथा भगवत्सरो पित्यर्थः अग्रेकप्य स्मिन् पर्वणि षट्तिंशच्छततमाध्याये भगवत्सराणां प्क पावनत्वं वक्ष्यते। यथा—" इमेच भारत श्रेष्ठ विज्ञेयाः पज्कि पावनाः इत्यारभ्य “यतयो मोक्षधर्मज्ञायोगिन श्चरितव्रताः पाञ्चरात्रविदो मुख्यास्तथा भागवताः परे। वैखानसाः कुल श्रेष्ता निरता, श्शाङ्गधारिणि, ये चेतिहासं प्रयता श्शावयन्ति द्विजोत्तमा" निति। अत्र वैखानसा इति विखनसा इति विखनस्सूत्रिणो भिधीयन्ते। तेषां कुल श्रेष्ठत्वं श्रीमन्नारायणपरतया सर्वोत्तमसूत्र संस्कृतकुल जातत्वात्। तेषां वैखानससूत्रिणां श्रेष्ठत्वं दश भिर्हेतुभि श्रीश्रीनिवासदेशी केन 112 उत्तम ब्रह्मविद्यासारः समुपपादितं। यथा “सर्वसूत्राणा मादिमत्वात्। जगत्कारण भूतेन विखनसा प्रणीतत्वात्, प्रधानकर्मसु श्रुतिमागान् नुसारित्वात्, मन्वाद्यै स्वीकृत त्वात्, समन कसर्वक्रियावत्त्वात्, निषेकसंस्कारादि मत्त्वात्, अष्टादशसंस्कारात्म कत्वाल्, साङ्गक्रिया कलापवत्त्वात्। अखिल जगदेक कारणभूत श्रीमन्नारायणैक परत्वात्, तत्सूत्रोक्त धर्मानुष्ठा नवता मेवभगवत्रियतमोपपत्तेः" इत्यादिना। भगवान् भृगुर प्याह—“यत्सूत्राद्यन्त मध्येषु भगवान् विष्णु रव्ययः, यष्टव्यो गीयते यस्मात्सर्वसूत्रोत्तमं तु तत्।" पुनस्त तैव— “वैष्णवं सूत्रमेतत्तु सर्वसिद्धिकरं परं, आद्यत्वा त्सर्व सूत्राणां वैष्णव त्वाछ्च तत्तु वैमयाकु वर्तितं। तद्व त्काश्य पात्रिमरीचिभि" रिति। भृगोश्च वैखानसत्वं हारीतस्मृता वुच्यते— “श्रातं महर्षिभिः प्रोक्तं वसिष्ठाद्यै पुरातनैः, वैखानसैश्च भृग्वाद्यै" रिति। भृगो र्महर्षिश्रेष्ठत्वं भगवता गीयते —“महर्षीणां भृगुरह" मिती। ब्रह्मकैवर्ते—“यथा मुनीनां विखना अदि भूत उदाहृतः। सूत्राणां तत्प्रणीतं तु यथा श्रेष्ठतरं स्मृत”मिति। पुनराह हारीतः—“पूर्वं विखनसे विष्णुः प्रोक्तवान् स्वयमच्युतः, भृगोः प्रोक्तं विखनसा भृगुणा च ममेरितमिति। सीतो पनिषदि— “वैखानसृषेः पूर्वं विष्णोर्वाणी समुच्चे” दित्यारभ्य “वैखानस मतः श्रीवेङ्कटगिरिमाहात्म्ये– “वैखान सैर्महाभागैरर्चापयनराधि” पेति। कुलश्रेष्ट्ला इत्यनेन नारायण परसूत्र संस्कृतकुल सम्भवादेव तेषां श्रीवैष्णनाग्र्यत्वं सिद्ध्यति। ततो न तप्तचक्रधारणाधिक मिति गम्यते। तेषां परमैकान्तित्वं च सूत्रोक्त विष्णुबलि कर्मसिद्धं। अतेपुच्यते—“निरता श्शार्ण धारिणिति। पाञ्चरात्रे पौष्करे—“विप्रा वैखानसाख्या येतेभक्ता स्तत्त्व मुच्यते, एकान्तिन स्सुसत्त्वसाः देहान्तं नास्ययाजिन"इति। शान्तिपर्वणि — “मस्त्रिणां तु सहस्रेभ्यो ब्रह्मचारि विशिष्यते” इत्यारभ्य “वेदान्तिक सहस्रेभ्यो विष्णुभक्तो विशिष्यते, विष्णुभक्त सहस्रभो विप्रो वैखानसोवर पर” मिति। वाराहे पञ्चमाधिकारः 113 तेषां इति। याज्ञवल्क्यश्चाह–“वैखानसोवैदिकेषु ब्रह्मनिर्दिष्ट माचरेत्, तं ब्राह्मणं तु दृष्वैव सर्वपापं व्यपोहती” ति; ब्रह्मणा, विखनसानिर्दिष्टमित्यर्थः। वैखानससूत्रिणाम्भगवदेकपरत्वं देवतान्तराश्रयणाभावेन सर्वेषां प्रत्यक्षत श्रीवैष्णवत्व दर्शना देवावगम्यते। अन्यसूत्रिणोहिनतथा दृश्यं ते। एवं च श्रीवैखानसानां श्रीवैष्णवत्वं जन्मसिद्धं, इतरेषां तु कर्मसिद्ध मित्यवधीयते। ब्रह्मचारी गृहोस्तोकपि वानप्रस्तोकथभिक्षुकः, केशवाराधनं हित्वानैव याति परां गतिम्। अ त्राराधनशब्दे नार्चन मेवाभिधीयते, नान्यत्। तस्यार्चन परत्व मेव बहुभि र्वचनैः पूर्व मुपपादितं। अनेन यती नां क्वचित् बाह्यार्चननिषेधो देवतान्तर विषयतया योज्यः तेषां नारायण स्स्मर्तव्यः कीर्तनीयो ध्येयोकर्बनी य श्चेतिसिद्धं। क्रतुराह “ध्यायते कर्चयते योकान्यं विष्णुलिङ्गमु पाश्रितः, कल्प कोटिशतै श्चापि गति स्तस्य न विद्यत” इति। जन्मान्तरसहस्रेषु दुर्लभा तद्दता मतिः, तद्भक्तवत्सलं देवं समाराधय सुव्रत। जन्मान्तरसहस्रेषु कृतं सुकृतं विना, तद्गता मतिः तस्मिन् निश्चला भक्तिः, दुर्लभा; “जन्मान्तर सहस्रेषु तपोध्यान समाधिभिः। नराणां क्षीणपापानां कृष्ण भक्तिः प्रजायत” इति वचनात्। भगवानप्याह—“बहूनां जन्मना मन्ते ज्ञानवान् मां प्रपद्यत” इति। प्रपन्नाना मेन भगवदाराधनेकधिकार इति पूर्वं निर्णीतं। भक्तवत्सलं। भक्तनिष्ठदोषा नवि गुण त्वेन गृहन्त मित्यर्थः। श्री शास्त्रेच– “भक्त्या नारायण मुपासीत, सोपि भक्तवत्सल त्वात् भक्तानुकम्पया स्वमायां विमोचयती” ति। अतएव मोक्षस्य आराधननियोग साध्यत्वेकपि ना नित्यत्वं; तन्नियोगस्य माया रूप प्रतिबन्धनिवृत्ति साधकत्वात्। प्रतिबन्धके निवृत्ते शुद्धं मनो ब्रह्मापरोक्षज्ञानसाधनं भवती त्युक्तं। अतोमोक्षो नित्यः आराधय, भक्त्या चर्च येत्यरः। 114 उत्तम ब्रह्मविद्यासारः नारदेनैव मुक्तस्तु सविप्रोकभ्यर्चय द्दरिं। आराधयेत्यु पदेश स्यार्चनविधित्वं दर्शयितनुभ्यर्चयदित्युक्तं। तस्य भक्ति रावश्यकि; “पत्रं पुष्पं फलं तोयं यॆमेभक्त्या प्रयच्छती"ति भगवदुक्तेः सूत्रे भगवान् विखना अ प्याह—“भक्त्या भगवन्तं नारायण मर्चये”दिति। स्वप्ने 5पि पुण्डरीकाक्षं शङ्खचक्रगदाधरं। किरीटकुण्डलधरं लसच्छी वत्सकौस्तुभं, तं दृष्ट्वा देवदेवेशं प्राणमत्सम्भ्रमान्वितः। DO OF भगवन्त मर्चयन् स पुण्डरीकः पुण्डरीकाक्षं स्वप्ने दृष्ट्वा प्राणमत्। अ। अथ प्रत्यक्षदर्शनमह— अथ कालेन महता तथा प्रत्यक्षतां गतः, संस्तुत स्तुृतिभि र्वेदै रेवगन्धर्व किन्नरैः। अथ तेनैव भगवानात्मलोक मधोक्षजः, गत स्सम्पूजित स्सर्वै स्स योगिनिलयो हरिः। DO 06 तथा पूर्वोक्त प्रकारेण शङ्खचक्रादि लक्षणान्वितः, तेनैव पुण्डरीकेन सप्लैन, आत्मलोकं परमपदं, गतः, भगवान् प्रत्यक्षमागत्य पुण्डरीकं वैकुण्ठं प्रापयदित्यर्थः तथा श्रीशास्त्रि—” सोकव्यपुनरा वृत्तिकं दिव्यलोकं प्रापय”तीति भगवदाराधकानां भगवता स्वपद पापणं पुनरावृत्तिराहित्यं चाभिधीयते। अव। सर्वज्ञो भीष्मो महात्मने धर्मसुताय निष्कृ ष्टार्थमु पदिशति। तस्मा त्त्व मपि राजेन्द्र तद्भक्त सत्परायणः अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमं। यथा योगं यावच्छक्यं, पुरुषोत्तम मर्चयित्वा भजस्व प्रकारान्तरेण केवलं भगवद्भजनं न कार्यं, अङ्गसहिते नार्चने नैव कार्य मित्यर्धः। अङ्गानि तु जपध्यानादीनीति। पञ्चमवेद त्वेन प्रसिद्दे महाभारते क्वचित्कथित्येपि देवतान्त राणां महिम्नि, विगदि तेष्वपि मोक्षोपायान्तरेषु, निखिलवेद वेदान्त शास्त्रपर्यवसन्न मरद्वय मने नाध्याये नाभिहत मित्यवगम्यते। ततैक्वोर्थः। श्रीमन्नारायण एव परमात्मा सर्वकारण मिति पञ्चमाधिकारः 115 मुमुक्षुभि सदर्चन मेव कार्यमिति। उपसंहारे तदर्चन स्यैव विधानात्; भगवान्नारदः पुण्डरीकाय स्वेन निश्चित मर मुपदिश त्युपसंहारे—“देवं समाराधये” ति। युधिष्ठिरस्य “अभ्यर्चय द्धरि” मिति तदनुष्ठान मुक्त्वाततस्स्वप्ने भगवद्दर्शनं ततः प्रत्यक्षदर्शनं ततः परमपद प्रापणं च प्राह ततोर्चनं परमपदप्राप्ता परमोपाय इति सर्व मनवद्यं। येषां भक्ति रधीश्वरेकस्त्रि जगतां श्रीवल्लभे ब्रह्मणि श्रेयोदान चणेत्र तत्र च हरे दर्चावतारे दृढम् विश्वासं जनये त्तदर्चनविधौ नैयत्य मत्यूर्जितम् तेषा मेष विशेषतो वितनुयाद्ग्रन्थः प्रमाणान्वितः। इति श्रीरामभद्रदासदासस्य श्रीवैखानसात्रेयकुल तिलक श्रीवरद राजसूरिनन्दनस्य श्रीकृष्णाम्बि कागर्भसम्भवस्यश्रीविखनसाचार्यचरणा रविन्दस्मरणजनितश्रीमन्नारायण पारम्यावगमस्य सुन्दर राजस्य कृति पूत्तम ब्रह्मविद्यासारे पधिकार श्रीरामभद्रः प्रियतां उत्तमब्रह्म विद्यासारः। सम्पूर्णः ESTEAL 41923VAIKHÄNASA ĀGAMA BOOKS T।T।D। PUBLICATIONS *1। Vimanarchanakalpa *2। Samurtarchanadhikara 3। Prakeernadhikara 4। Yajnadhikara *5। Khiladhikara *6। Kriyadhikara 7। Vasadhikara *8। Kasyapa Jnanakanda *9। Vaikhanasa Gruhya Sutra with commentary Deekshita। by 10। Vaikhanasa Agamam 11। Archana Tilakam 12। Archana Navaneetam Srinivasa 13। Sri Vaikhanasa Sandhyavandanam 14। Uttama Brahma Vidya Saramu 15। Sri Vaikhanasa Mahima Manjari 16। Sri Vaikhanasa Siddhanta Lesadarsam 17। Sri Vaikhanasa Upakhyanam 18। Ananda Samhita 19। Dhyana Muktavali 20। Trisati 21। Ahnikamrutam
- In Devanagari Script। All other books are in Telugu Script T।T।D। Religious Publications Series No। 503 Price Rs। Rs 35/00 कापाडण्डि धर्मान्नि · तिरुमल එට कापाडुतुन्दि। मिम्मल्नि काव तिरुपति देवस्थानमुलु