श्रीरस्तु श्रीनिवासायनमः उत्तम ब्रह्मविद्यासारः चतुर्थाधिकारः
“मुनीनां विखना मुनि” रिति वचना त्सर्वमुनिश्रेष्तो विखनसब्रह्मा भगवदर्चनं विधाय तस्य मोक्षोपायत्वं कथयति -“नारायण मर्चयेत्त द्विष्णो” रीत्यादिना। तन्मतं हि मतं श्रुति मूल मेव स्यात्, यतो निखिलवेदसाक्षात्कारचुञ्चु र्मनुरपि तन्मत मङ्गीकृत्य “वैखानसमते स्थित” इति वानप्रस्थधर्मं विधत्ते। अस्य भारुचि प्रभृति व्याख्याने -“वैखानसमते विखनो मुनि प्रतिपादित विधा”विति स्थितं सहि भगवदंश सम्भूतो हिरण्य गर्भः। ननु हिरण्य गर्भा दन्योविखना इत्यव गम्यते, आनन्द संहिता यान्तथाभिधाना, दिति चे, दुच्यते -~- नान्य श्चतुर्मुखा द्विखनाः; “विखनसाकर्थितो विश्वगुप्तय"इति भागवते कन्यत्र चकोशी ब्रह्मणो विखनश्शब्दवाच्यत्व कथनात्। आनन्द संहितायां तथा प्रतिपादन स्याय माशयः-प्रथमं नारायण नाभे रातो ब्रह्मा जगत्सृष्टो रजोगुणयुक्तोक्पि भृग्वादीन् महा मुनीन् भगवत्परान् स्रष्टुं केवलं सत्त्व माश्रित्य नारायण मध्यायत्। तदानीं विशेषखनना द्विखना इत्यभूत्। खननं ध्यानं, तथोच्यते भारते- “विशेषखनना द्यस्माद्भावना मुनिसृष्टये, तस्माद्विखनसो नाम्ना स आसि दण्डजः प्रियः"इति। अण्डो ब्रह्मा, विखनोनाम्ना सहितो भगवत्तिय आसी दित्यर्थः। अतोयं महात्मा चतुर्वक्त्रत्वादि रहितं रूपान्तर मादाय भगवदाराधनशास्त्र मुपलब्धुं मुनि वेषधारी भगवन्त मुद्दिश्यतपस्तेपे। देवानां विग्रहान्तरग्रहण मस्तिति शारीरक मीमांसायं प्रत्यपादि। श्रीशास्त्रि “ततः परं चतुर्व जटाकाषाय दण्डभ्भत्, नैमिशारण्यमासाद्य मुनिब्बन्द निषेवितम्। तप सप्ताश्वचीरं कालं ध्यायं सैजस्तुवैषवं, पश्चादपश्य द्विष्णक्त मा। गमं विस्तरा त्तदा। सङ्क्षिप्य सारमादायचतुर्थाधिकारः 57 शाणोल्लिखितरत्नवत्, धाता विखनसोनाम्ना मरीच्यादिसुतान् मुनीन् अबोधय दिदं शास्त्र” मित्यादिना प्रतिपादितोकः प्रकाश्यते। श्रीशास्त्र पुरातन्त्रे शौनकादिमुनिभिः पृष्टो भगवान् भृगुराह- “अणो रणीया स्रह्माणं महास्तं महतः प्रभुं व्यापिनं विश्वकर्माणमनादिं सदसस्पतिं। अभूषण मलिप्ताङ्गं तेजसा ज्वलितं विभुं, वैखानसं विधातारं विरिञ्चं तं चतुर्मुखं, जटाचीराम्बरधरं वल्कलाजिनधारिणं, प्रणम्य शिरसाश्रेष्ठ” मित्यादि। भगवता शौनकेन विष्णुधर्मे प्रथमाध्याये धीयते “प्रवक्ष्यामि यथापूर्वं मत्सित्रा कथितं मम, तस्यापि किल तत्पित्रातस्तॆ चाह किलोशनाः ते नापि भृगुमाराध्य प्राप्त माराधनं हरेः, सकाशाद्भह्मणः प्राप्तं भृगुणान्पि महात्मना” इत्यादि। एवं भगवते एकादशस्कन्धे– “पुत्रेभ्यो भृगुमुख्येभ्यो यदा ह भगवा नज” इति भगवदाराधनं भृगुमुख्येभ्यो भगवता विधात्रोक्त मित्युच्यते। अत श्शुद्धसत्त्वनिष्ठस्य भगवद्ध्यानरतस्यब्रह्मणो विखनसाख्यावगम्यते, तन्नाम चान्वर्धं शान्तिपर्वण्युच्यते - “स्रष्टुं सतु समुद्युक्तो ब्रह्मयो निमयः प्रभुः खनित्वा चात्मनात्मानं धर्मादिगुणसंयुतं। ध्यान माविश्ययोगेन ह्यासी द्विखनसो मुनि” रीति। नव-पद्मोद्भव स्याग्रज"मिति विखनसो ब्रह्मज्येष्ठत्व मुच्यते, तत्कथं तयारैक्य? मिति शङ्क्यं;चतुर्मुखस्य पद्मोद्भवत्वं क्वचिदण्डजत्वं क्वचि दन्यथा जननं चाभिधीयते। अत्रकल्पभेदेन समाहितम्। पद्मसम्भव रूप जननात् पूर्वस्मिन् जन्मनि यश्चतुर्मुख स्स एव ब्रह्मा विखना इत्यव गम्यते। अतः पद्मजाग्रजत्व मुपपाद्यते। पूर्वोक्त विधया तस्य तपश्चरण समये या देवी परिचचार, सा योगप्रभा नाम तत्कळत्र मितीयोज्यं। सर्वधा चतुर्मुख एव विखनामहामुनिः। तत्पुत्रा भृग्वादयः। तेषामपि भेदकथनम् पूर्वोक्तरीत्या समाधेयं। भृग्वादीनां जन्म च विविध मुच्यते। तत्तकारो कन्यत्र द्रष्टव्यः। एवं च चतुर्मुखो रजसा जगत्प्रष्टृत्वावस्थायां स्रष्टा लोकेशः पितामह इत्यादिशभै र्व्यपदिश्यते। सत्त्वेन मुनि सृष्टा भगवन्त मुद्दिश्य तपश्चरणे सूत्रप्रणयने च भगवदेक 58 उत्तम ब्रह्मविद्यासारः निष्ठत्वावस्थायां विखनाः विखनसः वैखानसः इत्यादिश बैर्व्यपश्यते, इति समञ्जसम् अथवा क्वचित्कल्पे भगवतो नाथेश्चतुर्वक्त्र उरसो विखनाश्च जातः। ता वन्योन्यम्भिन्ना वपि भगव द्विशेषां शतया भेदरहितौ व्यपदिश्येते। कल्पान्तरे तु चतुर्मुख एव पूर्वोक्त विधया विखना इति न विरोधः।
श्री-विखनोमुनेः परम-वेदान्ताचार्यत्वम्
अथ तस्य परम वेदान्ता चार्यत्व मुपपाद्यते। “तस्मिन् य दन्त स्तदुपासितव्यम्” “विष्णवेचार्चत” इत्यादिश्रुतिभिः परमात्मनो नारायण स्यार्चनरूप मुपासनं विधीयते। भगवान् विखनाः स्वसूत्रे तत्र तत्र -“नारायण परायणो निर्द्वन्द्वो मुनि” रित्युपक्रमे उत्तवान्। श्रूयते च -“तमेव विदित्वामु निर्भव” तीति -“विष्णुः परमः” इति च।(सू] “अध्यात्मरतो ध्यानयोगी नारायणं परम्ब्रह्म ध्याय"न्नि त्यादिना भगवत्पारम्यं प्रकाश्य तस्यामूर्ताराधनं समूर्ताराधनं च प्रयोगविधिना समदर्शयत्। अमूर्ताराधन मग्ना वाहुतिरूपं। समूर्तार्चनं प्रतिमार्चनं। न च - अन्यै रपि सूत्रकारै रेतद्द्वितय मुच्यते, त दिदं च सूत्रं तत्सम मेष, को विशेष? इति वाच्यं; केचि त्सूत्रकारास्सामान्ये नाहुतिरूप कर्माणि विदधिरे। न तु प्रतिमार्चनं, केचित्तु देवतान्तरसाधारण्येन विष्णोश्च प्रतीमार्चनं व्यधत। अतस्तानि सूत्राणि नहि नारायण पराणि। इदन्तु सूत्रं भगवदेकपरं। तत्तत्कर्मान्ते वैष्णव मस्त्रहोम विधिना भगवदर्पणं सूचितं भवति। वैष्णवा मना अतो देवादयः। अतसैः कर्मभिस्सद्वारक माराधनं भवति। उच्यते हि -“सर्वेकपि वैदिकाचाराः।।।।।।। हरि” रिति -“अथाग्नौ नित्यहोमार्ते” इत्यादि। नारायणस्यैव समूर्तार्चनं विधाय तदन्तॆ तस्य मोक्षो पायता मभिव्यङ्ञुं “तद्विष्णोः परमं पदं गच्छतीति विङ्ञयत” इत्यभि दधे। किञ्च मन्नान्तरदेवतान्तर प्रयोजनान्तरा भावेन विष्णुबल्याख्यं भगवत्प्रपत्ति कर्म विधीयतेकस्मिन् सूत्रे। तेन प्रपत्ति स्पर्ध्यतीति बहुधा प्रपञ्चित मस्मदाचार्यै श्रीवैखानस महिम मज्जर्यादौ। अत ए वान्यसत्रीण इव श्रीवैखानसा नानादैवत परान प्रथमाधिकार 59 च भवन्ति, परस्तु भगवदेकपराः। एवं प्रकारद्वयेन भगवदाराध कानां वैदिक विधिना प्रसन्नानां श्रीवैखानसाना मनेमुक्ति स्सिद्ध्यतीति मत्वा भगवान् विखनाश्चरम कर्मविधानारम्भेकर्चिरादि मार्गं प्रदर्शयत्। तन सूत्रकारैरह्ममेध विधौ विनियुक्ता न्मन्घं श्छात्र विनियुङ्क। तन्मत मनुसृत्य भृग्वादयो महामुनय श्रीशास्त्रे परब्रह्मणो नारायणस्य स्वरूपं, प्रकृतिपुरुषयोश्च स्वरूपं, भगवत्समूर्ता राधनं प्रपञ्चयन्ति कथयन्ति। च सकलोपनिषदर्थसारं च। अतशीवैखानस सूत्रं, शास्त्रं च वेदान विवर्त मिति निश्चियते। तथासति कुतोन स्या द्भगवतो विखनसः परम वेदान्ताचार्यत्वं? “वेदैश्चसर्वै रह मेव वेद्य” इति भगवद्युक्त्या सर्ववेद वेदान्ताप्रतिपाद्य नारायण परं सूत्रं भगवान् विखनाः प्रणिनाय। लोके वेदान्त प्रवर्तकानां वेदान्ता चार्यत्वं प्रथते। कुतस्संशयो भगवद्व्यासाधिभ्योरपि परमस्य प्रथमं वेदान्त प्रवर्तकस्य भगवतो विखनसः परम वेदान्ता चार्यत्व? किं च, भगवत श्चतुर्मुखस्य पूर्वकाण्ड पवर्तकत्वाव स्थायां स्रष्टृत्वादि शब्दवाच्यत्व। मुत्तरकाण्ड प्रवर्तकत्वाव स्थायां विखनसादि शब्दव्याच्यत्वं। तस्मा दुत्तर काण्ड्यातारो मरीचिभृग्वादयः, अन्येपूर्वकाण्डाध्यतारः। अत मुण्डोपनिषदि ब्रह्मा अधर्वायेत्युक्तं। अत श्शिशास्त्रवेदिनां श्रीवैखानस सूत्रिणां वेदान्त वेदित्वव्यवहारः। अत्र श्रीकृष्णकुमारा ख्यस्य श्रीवैखानस दासस्यान्यसूत्रिणो रामानुज सम्बन्धिन श्रीवैष्णवाग्र्यस्यकृतौ प्रौढव्यञ्जिकायां सप्तमाधिकारे स्थिताः केचि दंशा विलिख्यर्ते। यथा -“धर्मेचारेच कामेच मोक्षे च भरतरभ, यदि हास्ति त दन्यत्रयन्ने हास्तिन त त्क्वचितो इत्युक्तं, तथाविधे पञ्चम वेदत्वेन प्रसिद्दे महाभारते अश्वमेध पर्वणि भगवदाराधन तनूभेदं जिज्ञासुना धर्मतनयेन -“कथं त्व मर्चनीयोक्स? मूर्त यः कीदृशो ? विभो ! वैखानसाः कथं ब्रूयुः ? कथं वा 60 पञ्चि उत्तम ब्रह्मविद्यासारः पाञ्चरात्रिकाः?” इति पृष्टो भगवानुवाच -“स्थण्डिले पद्मकं कृत्वा साष्टपत्रं सकर्णिकं, अष्टाक्षर विधानेन अथवा द्वादशाक्षरैः, वैदिकै रपिवा मनोर्मम सूक्तेन वा पुनः, स्थापितं मां ततस्तस्मि न्न रचयित वा न्नर्चयित समाहित” इति। श्रीमदष्टाक्षरकल्पं, प्रणवकल्पं, गायत्री कल्पञ्च, श्रीमति श्रीशास्त्रे निर्णीतं। श्रीशास्त्रमिति वैखानसं। “विष्णुं च पुरुषं सत्यमच्युतं च युधिष्ठिर, अनिरुद्धं च मां प्राहु र्वैखान विदो जनाः अन्येत्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः, वासुदेवं च राजेन्द्र सङ्कर्षण मथापि वा। प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं पृचक्षते” इति -“वैदिकै सान्त्रिकै र्वापि पूजये द्विष्णु मव्ययं, पञ्चमूर्ति विधानेन चतुर्मूर्ति विधानतः” इति। ‘विष्णुशब्द ग्रहणं तत्र त स्यादि मूर्तित्वा’ दिति काश्मीर सूरिसूनुन्यायसार पद वासुदेव पण्णितः, सङ्कर्षण संहितायां पूजयेत्पञ्च रात्रैश्च तनैर्मोक्ष फलप्रदैः, वैखानसोकैर्मन्तैश्च दिव्यै स्सर्वार्थसिद्धय” इति - वैखानससूत्रे - “विष्णुं पुरुषं सत्य मच्युत मनिरुद्दमिति पञ्चव्यूहे नावस्थितं भगवन्तं नारायण मर्चये” दिति निखिल वेदान्त विदग्रेसरेण भगवता विखनसा समभिहितत्वात्। भगवतः पञ्चथा व्यूहावस्थानं प्रत्यक्ष श्रुतिमूलं वा? अनुमेय श्रुति मूलत्वेन प्रसिद्ध केवल स्मृतिमूलंवा? उभयमूलमिति ब्रूमः; स्मृति रुपन्यस्ता। इयं श्रुतिः -“अन्नात् प्राणाभवन्ति भूतानां प्राणै र्मनो मनसश्च विज्ञानं विज्ञाना दानन्दो ब्रह्मयोनि स्सवा एषपुरुषः पञ्चधा पञ्चात्मा, येन सर्व मिदं प्रोतं।“इति। अस्य शास्त्रस्य विष्णुशब्द प्राधान्यात् वेदान्तसिदैक शेष मिदं शास्त्रं; “सोमेन यजेतेति” स्वरूपविधेः प्रयोगविधिप्रश्न ब्राह्मण कल्प सूत्राणां “तस्मिन् यदन्तस्तदुपासितव्यं” “कारणन्तु ध्येयः” इति वेदान्त वाक्यसिद्ध भगवद् ब्रह्मोपासनविधेश्च प्रयोग प्रकार विधिरूपत्वात्। एतद्वैखानस शास्त्रविद एव वेदान्तविद इति व्यवहारः; “यज्वभि र्यज्ञपुरुषो वासुदेवश्च सात्वतैः, वेदान्त वेदिभि र्विष्णुः चतुर्थाधिकारः 61 प्रोच्यते यो नतोकस्मि तं इति पुलस्त्य वसिष्ठमहेश्वरवरदान लब्धतत्त्वावबोधेन देवतापारमार्थ्यविदा भगवता पराशरेणोक्तत्वाच्छ। अत्र “यज्वभि र्यज्ञपुरुष"इति। अय मपि वैखानस विषयः; कथं? अमूर्त भगवद्यजनपरैः वेदविद्भि र्वैखानसैः यज्ञपुरुष अत्युच्यते, समूर्त भगवद्यजनपरै र्वेदान वेदिभि र्वैखानसै र्विष्णु रीति प्रोच्यत इति भावः। यज्ञपुरुषं विष्णु मिति यज्ञपुरुष समाख्यवन्तं वैखानसवेदिभि र्विप्रैः जगदभिवृद्ध्यर्थं याजयेत्। विष्णुसमाख्यावस्तं वेदान्त वेदिबि र्विप्रैर्वैखानससूत्रिभि राजये वृद्धमनुवचनमप्यस्ति। अर्जवे राजधर्मानु वर्णने –“वेदान्तवेधि र्वि पॆ सद्वैखानससूत्रिभिः, याजये दृज्ञपुरुषं विष्णुं जगद्धितः"इति। स्थानप्रामाण्येन वैखानससूत्रिभिरिति साने यज्वभरित्युक्तमिति गम्यते। यज्वभिरिति स्थाने वैखानससूत्रिभिरिति वा। एतदुक्त ं–विखनससूत्रोक्ताग्निष्टोमाद्यमूर्त भगवद्यजनेन, समूर्त भगवद्यजनेन च भगवन्तं राजा दिति राजा तदुक्त यज्ञपुरुषं वैखानस सूत्रिभि र्वेदान विद्भि- विप्रै र्याजयेत्। विष्णुं वैखानससूत्रिभि र्वेदान विद्भिर्वि पै राजयेत्। इत्युभयत्र वैखानससूत्रिभिर्वेदान्त विद्भि रिति योजनीयं। श्रु] “यदेव विद्य याकरोति तदेव वीर्यवत्तरं भवति"इति श्रुतिः। अत्रामूर्त समूर्तयजने। नेज्यो विष्णु रिति। उभय काण्डनिपै स्समाराध्योविष्णु रीति यावत्’। इति यथाधर्मे चारे चेत्या रभ्य एतदन्तं तद्ग्रन्थप्रकारो लिखितः। अत्र सात्वतै रिति सात्वतशास्त्र वेदिन उच्यनै। सात्वतं नाम पाञ्चरात्रं। तथा वेदान्त वेदिभिरिति श्रीशास्त्रवेदिनः वैखानसा उच्यन्तॆ। यथा पाञ्चरात्रिणः वासुदेवादीः भगवस्फूर्ति- कथयन्ति, तथा वैखानसा विष्ण्वादी स्ताः प्रतिपादयन्ति। पुरुषादयो दैविक व्यूहमूर्तयः, वासु देवादयो मानुष्य व्यूहमूर्तयः। सर्वमूर्तिनां विष्णुमूर्ति र्मूलभूता। इत्यलं पल्लवितेन। एवञ्च श्रीवैखानसशास्त्रस्य वेदान्तत्वं सुसिद्धं; भगवतो विखनसः प्रथमं तच्छास्त्रप्रवर्तकत्वा द्वेदान्ता चार्यशब्दवाच्याना मग्र्यत्वं न केनापि निह्नोतुं शक्यं। किञ्च आदौ भगवान्नारायण एव स्वाराधनशास्त्रं विखनसब्रह्मणे उपदिष्टवा निति स्पष्टमभ्यदायि। तत सच्छासकृत्त्वं 62 उत्तम ब्रह्मविद्यासारः प्रथमं भगवत एव। ततस्तेन गीयते -“वेदै श्च सर्वै रह मेव वेद्यो वेदान्तृद्वेदवि देव चाहं” इति। वेदान्तकृत्त्वं नाम श्रीवैखानस शास्त्रकारत्व मि त्यवगम्यते। किञ्च, अनेकत्र भगवान् विखना विखन साचार्यइति निर्दिश्यते। भारते - “वैखानसविखनसाचार्य”
- इत्युच्यते। “अधातः पाकयज्ञानां प्रायश्चित्ति” रित्यारभ्य “व्याहृतीनां प्रयोगे यथावद्भवती त्याचार्या ब्रुवत” इत्यादिना भगवद्भो धायन वचनेन भगवतो विखनस आचार्यत्वं दशविध हेतुनिर्णये स्थाप्यते। श्रीशास्त्रेचानन्दसंहितायां श्रीविखनसं प्रति भगवद्व चनं -“विखन स्तवपुत्राणान्त्वमेवहि गुरुःपिता, सनकादि मुनीन्द्राणान्त्व मेव हि गुरु स्स्मृतः तस्मात्वमेव चैतेषां सावित्रीं वक्तु मर्दसि, द्वयं च मूलमन्तादीन् साक्षान्म त्य्रापकान् शुभा”निति, तत्प्रन-“विखनोमुनिनासृष्टा मत्पुत्रा इति कीर्तिताः, त्वया स्पष्टमुनीन्द्राणा माचार्यो विखना स्स्मृत”इति। एवञ्च ‘ब्रह्मसृष्टान् भृग्वादी नारभ्य। परम्परया श्रीवैखानसानां श्रीविखना आचार्य इति सिद्दं। ननु आनन्दसंहितायां - “नारायण सस्वयङ्गर्भेमुद्रां धारयलेनिजा”मिति-“अह मेव गुरु स्तेषा"मिति च - भगवद्वचन मस्ति, कथंविखना आचार्य? इति चे, त्सत्यं। नारायणस्य विष्णुबलि कर्मणि गर्भे चक्राङ्कणकारित्वात्तस्य गर्भवैष्णवानां तेषां प्रथमाचार्यत्वं सिद्धं। ततः तथाविधवैष्णवत्वसाधक विष्णुबलि कर्मविधायकत्वात्, वेदान्त विवर्त भगवदाराधन शास्त्रप्रथम प्रवर्तक त्वात्, भगवतो विखनस श्रीवैखानसाचार्यत्व मविवादम्। अत एवोच्यते श्रीलक्ष्मी वल्लभारम्भां, विखनो मुनि मध्य मा” मिति। अन्येक भगवन्तं लक्ष्मीपति मेव प्रथमाचार्यं तलोकान्यांश्च ब्रूवते -“लक्ष्मीनाथ समारम्भां नाथयामुन मथ्यमा” मिति। अत्राधिकस्यवक्तव्यत्वेपि ग्रन्थ विस्तरभिया विरम्यते। मुण्डकोप निषदि -“ब्रह्मादेवानां प्रधम” इत्यादिना सर्वविद्या प्रतिष्ठा भूतोत्तम ब्रह्मविद्या सम्प्रदाय प्रवर्तका उच्यस्ते। तत्र ब्रह्म शब्देन विखना उच्यत चतुर्थाधिकारः 63 इत्युक्तं। ततोकधर्वशब्देन तच्चिप्यो भृगु रुच्यते - “अधर्वाणो भृगवस्सौम्यास” इति श्रुते रिति च। तस्मा दङ्गीर्नाम महामुनि त्प्रह्म विद्या मीमामग्रही दित्युच्यते। अङ्गी रिति भगवतो मरीति महामुनेर्नामान्तरं मि त्यवगम्यते। कथ? मिति चे द्रूम; श्रीशास्त्रि वासाधिकारेभगवान् भृगुराह -“चतुर्धावैदिको मार्ग मया चैव मरीचिना, आत्रेयः काश्यप श्चेति तच्चमार्गचतुष्टयं” इति। मया, मरीचिना च, कृतौ द्वामार्गा, आत्रेयः, काश्यपश्च, द्वा, एवं मार्गचतुष्टय मित्यर्थः। इत्यारभ्य “प्रतिग्रहाधिकारश्च मया पोकाष्टसंहिता इति स्वग्रन्थान् गणयित्वा “अष्टाशीतिसाहस्राणि सङ्ख्ययाचात्रिरुक्त वा” इत्यत्रि ग्रन्थान् “विदुः षोडश साहस्र ग्रन्था वै काश्यपा स्स्मृता"इति काश्यप ग्रन्थां श्च परिगणय्य “सत्य ज्ञानाह्वया ताभिः ग्रन्ध लक्षं तु चाङ्गिरा” इति। अत्रमरीचि ग्रहणस्ताने अङ्गिरा इत्यु च्यते। तत इमां विद्यांविखनसो भृगुः, भृगो र्मरीचिर्ण ग्राहेत्यवगम्यते। एतेत्रयोपि श्रीशास्त्रकारा इति प्रसिद्धं। तत अङ्गीर साच्चिनको ग्रहिदित्यभिधीयते। शौनकोपि विशेषेण भगवदा राधनं विधत्ते -“शौनकोकहं प्रवक्ष्यामि नित्यं विष्ण्वर्चनं परं, प्रवःपान्त मन्धसोधि इत्यर्धर्बविधानतः” इत्यादिना। एवं च तदुप निषत्सम्प्रदायप्रवर्तकानां चतुर्णांस्पष्टं भगवदाराधन शास्त्रकारत्व मनगम्यते। “प्रवक्ष्यामि यथापूर्व” मित्यारभ्य “तेनापि भृगुमाराध्य प्राप्तमाराधन” मित्यन्तं विष्णुधर्मोक्त शानकवचनं चात्रानुसन्देयं। ततस्तत्रोपनिषदि प्रतिपादिता परविद्य भगवदा राधन रूपेति विदाङ्कुर्वन्तु सन्तः। अस्या मुत्तम ब्रह्म विद्यायां मुख्याधिकारिणो वैखानसा एव; स्वसूत्र एव तथाविध ब्रह्मो पासनस्यविहितत्वात्। वेदान्तोद्विविधः। परमात्म स्वरूप प्रतिपादन पूर्वकं तदुपासन विधायक एकः, अन्यस्तु परमात्मन स्स्वरूपाभिधान पूर्वकं तदुपासन प्रयोगविधायकः। एतदुभय वेदान्ताधिकारिण श्रीवैखानसा इत्युपपन्नं। 64 उत्तम ब्रह्मविद्यासारः अत्र पूर्वपक्षः -मुण्डोपनिषदि परमात्माराधनक्रियावतो ब्रह्म विद्वरिष्ठत्व मुच्यत इत्युक्तं। तत्सत्यं; तदाराधनं नारायण विषय मित्यत्र किम्प्रमाणं? देवतान्तरविषय मस्तु; अन्यत्र देवतान्तर वाचकत्वप्रसिद्धशब्देन परम्ब्रह्म निर्दिश्य तदुपासन विधानात्। श्रूयतेपा -“शम्भु राकाशमध्ये” “शिव एव केवलः” इत्यादि। किञ्च वैखानसाना मेवोत्तम ब्रह्मविद्याया मधिकार इति च न युक्तः। ब्राह्मण सामान्येनानु प्लेयतया निर्दिष्टेन शास्त्रान्तरेण भगवदाराधने सर्वेषां ब्राह्मणानां कुतो नाधिकारः? तच्छास्त्रस्य कथं वावेदान्त त्व? मिति। राधानः परविद्या परमपुरुषपरै वात्र विधीयत इति पूर्वमे वोदीरितं। अन्यवेदान्ता श्चभगवत्परा इति निरणायि पूर्वाचार्यैः गीयते हि भगवता स्वयं,- “वेदैश्च सर्वैरह मेव वेद्य” इति। सत्स्वपि गीतान्तरेषु भगवद्गीतायाः प्रमाणतमत्वं प्राकनॆ स्सर्वैराचार्यैर्यथाभ्युपगतं, न तथाकन्यस्याः। अतः परम पुरुषाराधन मुत्तम ब्रह्मविद्या। अतो देवतान्त राराधनविधायक शास्त्रस्य न वेदास्तत्व सिद्दिः श्रीवैखानसे सामान्यक्रिया स्सर्वा श्चतुर्वेदोद्भवै र्मन्टै र्विधीयन्ता। विशेष क्रिया स्तु पुरुष सूक्ते अकारादिपारमात्म योपनिषदेकाक्षरो पनिषत्प्रभृतिभि र्विधीयनै। तथा। भूतशुद्धिदेह व्यापादयश्चाप निषदैर्मन्त्रॆर्विहिताः। किमधिकेन? वेदमस्त्रं विना न क्यापि क्रिया श्रीवैखानसे यथा, तथा भगव दाराधन विधायक शास्त्रान्तरे यद्यस्ति तस्य वेदान्तत्वे नः किञ्छिन्नं? वैखानसंशास्त्रं शुद्धंवैदिक मिति तच्छास्त्रं परिचिन्वतां स्फुटं विदितं स्यात्। इत्यलं सिद्धसाधनेन। सिद्दं पा पूर्वं दर्शितस्मृत्या श्रीशास्त्रस्य वेदान्तत्वं। श्रीशास्त्रं नाम वैखानस मित्युक्तं। वर्ततेकत्राभियुक्तवचनम् -“श्रीशास्त्र पारङ्गत शेमुषीकै रर्बावतारार्चनकर्मनि, सुविप्रनारायण मुख्यशभै स्सङ्ग्राह्य मर्चा नवनीत मेत"दिति। विप्रनारायणा नाम वैखानसाः; तच्चोच्यते -“शब्दब्रह्मकृताधियोगविधिवत्साक्षात्कृ तात्मेश्वरा श्रीवैखानस धर्मशास्त्र निपुणा ये नैमिशीयालयाः येतत्त्वप्रतिपादकाःकृतधियो ये विप्रनारायणाः प्रख्याताः परिषत्सु वेदविदुषां तेभ्योनमस्कु चतुर्थाधिकारः 65 र्महे” इति। विप्ररूपा नारायणा विप्रनारायणाः, “ना विसुर्विष्णु मर्चये” दित्युक्त्या भगवदाराधकानां साक्षान्ना रायणत्व मविरुदं। प्रथितेषु भगवद्भक्तेषु भक्ताज्ञि रेणुनामा महात्मा श्रीवैखानस निष्टतया विप्रनारायणाख्या मलभते त्यनगम्यते। तच्चरित्रे तस्य विप्र नारायणत्वं प्रसिद्धं; तस्य श्रीवैखानस निष्ठत्वात्। वैखानसस्तोत्र पाठे- “भक्ता ज्ञिरेणुः प्रथमो गुरूणा” मित्यस्ति। सहि ब्राह्मण जातिः। ततो वैखानस मशिश्रय दिति ज्ञायते; वैदिकत्वा दस्य शास्त्रस्य। उक्तविशेष मनुक्तं चान्यत्र द्रष्टव्यमिति। अथ भगवदुपासनस्य फलं श्रुतिस्मृत्यादिभिः प्रदर्श्यते -“तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यतेँयनाय” इति श्रुतिः। तं परपुरुषं, एवं उपास्यं, विद्वान्, विदन्नित्यर्थः स्मृतिः- “सुरूपां।।। तामेन ब्रह्म रूपिणीं” “मद्याजीमां नमस्कुरु। मामेवैष्य” सीति -“नारायणमर्चयेत्त द्विष्णोः परमं पदं गच्छतीति विज्ञायत”इति -‘तमेव चार्चयन्नित्यं ।।। सर्व दुःखातिगो भवे दिति -“आपीठान्मौलि पर्यन्तं पश्यतः पुरुषोत्तमं। पातकान्याशु नश्यन्ति किम्पुन सूपपातकं” नारदीये - “यथाकमृतारं यततां सुराणा मबिमन्थने, पारिजातादि कान्यासन् फलान्यप्रार्थिता न्यपि।एवं मोक्षे कचित्तानां यततामाश संस्कृता, भवन्ति सिद्धयो दिव्याःपुण्यं पुण्यानुबन्धि य"दिति। नच - “विद्वानमृत इह भव"तत्यत्र वेदन स्यैव मुक्त्युपायत्व मुच्यते, तत्कथ मर्चन स्येति शङ्क्यम्; “अद्भ्यस्सं भूत इत्यारभ्य उपलोत्पत्ति स्तोत्ररूपकल्पनं चोक्तं। अत “एवं विद्वा” नित्यस्य, एवं, पूर्वोक्त शिलारूपं परमात्मानं विदन्नित्यर्थः। अथ केवलं तथा वेदनस्य प्रयोजनाभावात् विद्वानिति वेदन पूर्वकतदाराधनं विवक्षितं भवति। भागवते दशमस्कन्धे चतुर्विंशे -“ज्ञात्वाकङ्ञत्वा चकर्माणि जनोकय मनुतिष्ठति, विदुषः कर्मसिद्धि स्प्याद्यथा नाविदुषोभवे दिति। भगवदर्चावतार महिमान मविदित्वा तदारा 66 धनं कुर्वतां स्तद्रूपेणावतारः। सिद्ध्यतीति बोध्यं। उत्तम ब्रह्मविद्यासारः कथ ममृतत्वं स्यात् आराधन सौकर्यादिभि इतं च भगवदाराधनवता ममृतत्वं ननु श्रीशास्त्रे भगवान्मरीचि - “पश्चादाश्रमधर्म संयुक्तो भगवदा राधनं करोति, तदाराधनेन संसारार्णव निमग्नो जीवात्म परमात्मानं नारायणं पश्यति, सोकप्यपुनरावृत्तिकं दिव्य लोकं प्रापयती” ति प्राह। अत्र नारायणदर्शनं भगवल्लोक प्राप्तिर व्यवहितोपाय इत्यवगम्यते, तत्कथ माराधनस्य तथात्व? मिति चे दुच्यते- नारायणं पश्यतीत्यस्यायमाशयः - आराधनेन प्रसन्नः परम कारुणिको भक्तवत्सलः परमात्मा स्वात्मानं दर्शयति, तं जीवात्मा पश्यतीति यथा स्वपद प्रापणं भगवत्कर्तकं, तथा दर्शनमपि। तथाश्रुतिः - य मे वैष वृणुते तेन लभ्य स्त स्यैष आत्मा विवृणुते तनूं स्वा” मिति। तनूं स्वरूपं, विवृणुते, दर्शयतीत्यर्थः। अतो भगव दाराधनं मुक्त्युपाय इति विनिश्चितं। अस्यां परविद्यायां श्री वैखानसामुख्याधिकारिण इत्युक्तं, तत्कथ? मित्याशङ्कया निवृत्यर्थं भूयः परामृश्य तथा निश्चियते। श्रीविखनोमुनि मारभ्य श्रीवैखानसैरे वाविच्छिन्न सम्प्रदाय भगवदाराधन रूपैषा पराविद्याधिगता भवति। तथाहि - “ब्रह्मा देवानां प्रथमस्सं बभूव विश्वस्य कर्ता भुवनस्यगोप्ता, स ब्रह्मविद्यां सर्व विद्याप्रतिष्ठा मधर्वाय ज्येष्ठपुत्राय प्राह, अधर्वणीयां प्रवदेत ब्रह्माकधर्वातं पुरोवाचां ब्रह्मविद्यां, स भारद्वाजाय, सत्यवहाय प्राह भारद्वाजोनङ्गिरसे परापरां, शौनको हवै महाशाल्योङ्गिरसं विधिव दुपपन्नः पप्रच्छे”ति बहु भिर्वचनै त्प्रहैव विखनाइत्युक्तं। अधर्वापरनामाभृगुरितिच, अङ्गीरपरनामा मरीचि रितिच सर्वविद्याप्रतिष्ठां सर्वासां उपनिषदन्तरोक्तानां विद्यानां प्रतिष्ठां पर्यवसानभूमिं, उत्तमामिति यावत्। परावरां पराः अन्या विद्याः अवरा यस्या स्तां, ब्रह्मविद्यां, भगवदाराधनरूपा मित्यर्थः, न चास्याः कथ माराधनरूपत्व?मिति वाच्यं; अस्याः प्रथम प्रवर्तको हिचतुर्थाधिकारः 67 विखनसब्रह्मा, अथ भृगु-, अथ मरीचिः, शौनक अत्यवगम्यते। एते खलु प्रयोगरूपं भगदाराधनशास्त्रं प्राणयिपु विष्णुधर्मोत्तरे रे शौनकः प्राह ब्रह्ममुखा द्भगवदाराधनं भृगु राष्त्रवानिति– “कथयामि यथापूर्वं मत्सित्रा कथितं मम, तस्यापि किल तत्पित्रा तस्तॆ चाह किलोशनाः तेनापि भृगु माराध्य प्राप्त माराधनं हरेः, सकाशाद्र्बह्मणः प्राप्तं भृगुणाकपि महात्मना। प्राप्तंसकाशा देवस्य ब्रह्मणा व्यक्त जन्मनः ”इति, ब्रह्मणा विखनसा। देवस्य नारायणस्य, सकाशा ताप्त मित्यर्थः। विखना नैमिशे तप सप्ता प्रसन्न द्भगवत स्तदाराधनं प्रापेति पूर्व मुदाहृतं। भागवतेच -“निस्सृतं त्वन्मुखाम्भोजाद्यदाह भगवा नजः, पुत्रेभ्योभृगुमुख्येभ्य"इतिच। गारुडे च - “पुरा चतुर्मुखादेशा च्छत्वारो मुनयोकमलाः प्रणीय वैष्णवं शास्त्रं भूमा वभ्यर्चय स्पृप। मरीचि र्मन्दरे विष्णु मर्चयामास केशवं, आदेशा द्रह्मणो विष्णुं श्रीनिवास्ये त्रिर र्चयत्। काश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे भृगु र्मुनि” रिति। किञ्च अस्या
उपनिषद्-वैखानस-शास्त्रैकविषयता
श्री-वैखानस-शास्त्रस्य मुण्डकाद्य्-उपनिषदस् समान-विषयकत्वम्
।। मुपनिषदि यै रा मभि र्भगवान् परमात्मा प्रतिपाद्यते, तन्ना ममूर्ति श्र्शी विखना भगवदाराधने गृष्णाति"विष्णुः पुरुष स्सत्य” इति। श्रूयते -“बृहच्च त दिव्यमचिन्त्यरूप”मिति। बृहच्छट्टिन विष्णु रुक्तः [श्रु] “नमो विष्णवे बृह तेकरोमि” ति श्रुत्यन्तरे उत्तत्वात्। “येनाक्षरं पुरुषं वेदसत्य"मित्यस्यां श्रूयते। अक्षरशब्दवाच्यो विष्णुः। सहस्रनामाध्याये—“स दसत्तर मरमिति विष्णो रक्षरत्वाभिनाधानात्। अत्र - तस्मादात्मस्थं ह्यर्चये द्भूतिकाम” इति येन शब्दान भगवदाराधनं विधीयते, तेन शब्देन श्रीविखनस सूत्रे “नारायण मर्चये"दिति तदेव विधीयते। तत्रहि भूतिकामेन भगवदर्चनस्य “यं यंलोकं मनसा संविभाति विशुद्धसत्वः कामयते यां श्च कामान् तं तं लोकं जयते यांशृकामान् तस्मा दात्मस्थं ह्यार्बये द्भूतिकाम"इति फलमुच्यते। आत्मसमिति, 68 उत्तम ब्रह्मविद्यासारः प्रतिमारूपदेहेस्थितमित्यर्थः। आत्म शब्दस्य देहपरत्व मुच्यते। यद्वा-बुद्धिस्टं भगवन्तं प्रतिमाया मावा ह्यार्चये दिति। बुद्धिन स्यार्च्यत्वानुपपत्ते रिति एवं सकामार्चनस्य फल मभिधाय निष्कामार्चनवल माम्नायते –“स वेदैतत् परं ब्रह्म धामयत्र विश्वं निहितं भाति शुभ्रं उपासते पुरुषंये ह्यकामास्ते शुक्र मेत दतिवर्तन्ति धीरा”इति। न चात्रोपासत इत्यर्चन मुच्यत इति कथ? कथ? मिति शङ्क्यं; इहार्चवरूपक्रियावता मेव ब्रह्मविद्वतिष्ठप्रतिपादनात् “क्रिया वानेष ब्रह्मविदां वरिष्ठ” इति। ब्रह्मविदां उपनिषदन्तरविहित विधया ब्रह्मोपासकानां, क्रियावान् उक्तक्रियावान्, श्रेष्ठ इत्यर्थः। क्रियाशबो पा भगवदर्चने प्रयुज्यते भागवते -“क्रियायोगं समाचक्ष्व भवदाराधन” मिति। अपि च श्रीशास्त्रेएत दुपनिषत्परिपाटी दृश्यते। वासाधिकारे भगवान् भृगुः-“प्रणवो धनु श्शरोह्यात्मा"इत्याह। एत देव वचन मत्राप्ति। मरीचि र्भगवान् ज्ञानकाण्डे -“अग्नेर्विस्फुलिङ्गा” इवेत्याह। अत्रच- “त देतत्सत्यं यथा सुदीप्ता त्पावका द्विस्फुलिङ्गा” इति। तत्रामोदादयो भगवल्लोका श्चत्वार उच्यर्ते। अत्र “वेदान्त विज्ञान सुनिश्चितार्था” इत्यारभ्य “ते ब्रह्मलोके’ द्विति भगवल्लोकानामनेकत्व मुच्यते बहुवचनात्। “ययातदक्षर मधिगम्यत”इति यच्छट्टेन परा विद्या परामृश्यते, तया क्रियारूपयैन भवितव्यं अधिगमने ब्रह्मणः कर्मत्वं भवति। क्रिययाककप्तु मितमं कर्म। सा क्रियाकर्बनध्यावरूपायुज्यते। य द्यपि ध्यानमात्रस्य क्रियात्व मस्ति; तथाकपि क्रियावा नेष इत्यत्र भूमारे मतुप्, इत्युपपद्यते। “आत्मक्रीड आत्मरति रिति रतेः पृथक्रीडोच्यते, क्रीडा तु बहुरूपा। दर्शनस्पर्श विविधोपचार समर्पणनृत्तगीत वाद्य करणादिना भगवान् भक्तबन्धु र्भक्तसख इति चोच्यते। “बालः क्रीडनकै रिवे"ति भगवतो भक्ताः क्रीडामोदः प्रतिपाद्यते। यद्यवि परमात्मा स्वतः करणकळेबररहितः; चतुर्णाधिकारः 69 तथापि भक्ता रुपासन शक्यत्वाय स्वसङ्कल्पिन गृहीतरूप इति श्रूयते -“अवि स्सन्नहितं गुहाचरं नामे"ति। किञ्च– “तपसो वा व्यलिङ्गा"दिति रूप रहित परमात्म विषयज्ञानस्य मुक्त्युपायत्वं निषिद्ध्यते। “यस्य ज्ञानमयं तप” इति तपसो ज्ञानरूपत्वं श्रूयते। एतै रुपायैरिति बहुवचनेन ब्रह्मधामप्रवेशाय बहुभि रुपायैर्भाव्य मिति च ज्ञायते, " उपाया शार्चनकीर्तन नमस्कारादयो युक्ता ः “सततं कीर्तयन्तो मां यतन्तश्चेति भगवदुक्ते :। नच एत द्यो वेदनिहितं गुहायांसो विद्या ग्रन्थिं विकिरणि हसोम्येति श्रूयते ब्रह्मणो हृदयनिहितत्वज्ञानस्य अविद्या गन्थिच्छेदकरत्वे सति कि मन्ये? नेति वाच्यं; त दव्यवहित मेव” “अविस्सन्निहित"मिति श्रवणात्, श्रवणात्। अवि- प्रतिमारूपे णाविर्भूय सन्निहितं भवती त्यर्धः। नच हृदय एव आविर्भूय सन्निहितं स्थित मिति वाच्यं; गुहाचर मित्यने नैव तदर्धसिद्धेः आपि च -“जुष्टं यदा पश्यत्यन्यमस्य। महिमान मेति वीतशोक” इति श्रूयते। जुष्टं अर्चा रूपेण सुखसेव्यतया सर्वै स्संसारिभि र्भक्ता रुमुक्षुभिश्च सेवितं, अन्यं “प्रवृहेन्मुञ्जादि वेषिका” मिति श्रुत्यन्तरात् पृथग्भूत्वा स्थित मित्यर्थः। पश्यति भक्त्या सेवते, अस्य अर्चाव तारस्य। महिमानं च पश्यति, जानाती त्यर्थः तदा वीतशोको भवति। “अवतारस्य सत्यतृव मजह त्स्वस्वभावतां, शुद्धसत्त्व मयत्वं च स्वेच्चामात्रनिदानता। धर्मग्लानौ समुदयस्साधु संरक्षणार्थता, इति जन्मरहस्यं योवेत्ति नास्य पुनर्भव” इति -“जन्म कर्म च मे दिव्य मेवं यो वेत्तितत्त्वतः, त्यक्त्वा देहं पुनर्जन्मनैति मामेति सोकर्जुन। “ततः -“यदा पश्यः पश्यते रुक्मवरं।।।।परमं साम्य मुपै” तीति मुक्तिफलं च श्रूयते। ततः-“प्राणो ह्ये।।।।। परिस्थ"इति। अत्रात्मशब्दस्य परमात्म वाचकत्व मेव वक्तव्यं। ततः"सत्येन लभ्य स्तपसा ह्ये ष आत्मा"इत्यात्म पदवाच्यस्य प्राप्यत्वाभिधानाच्च। 70 उत्तम ब्रह्मविद्यासारः “बृहच्चतदिव्य मचिन्त्यरूपं सूक्ष्मा च्च तत्सूक्ष्मतरं विभाति, दूरात्सदूरे तदीहान्तिके च पश्य त्स्वमैन निहितं गुहाया”मिति दिव्यमचिन्त्यरूपं - बृह द्विष्ण्वाख्यं ब्रह्म।” “नमो विष्णवे बृहते करोमि तिश्रुत्यन्तरं। दूरात्सुदूरे परमपदे, सूक्ष्मात्सूक्ष्म तरं, विभाति। तथोच्यते श्रीशास्त्र तर्ककाण्डे ब्रह्मचिन्ताध्याये—“आपः पृधिव्या स्सूक्ष्मास्तु ताभ्य स्तअज स्ततोकनिलः, तस्मा दाकाश मेतस्मा त्तन्मात्राणि मनीषिणः। तेभ्यस्सूक्ष्मिह्यहङ्कार स्त्रीथाभूय व्यवस्थितः तस्मान्महां स्थिधाभूतो बुद्दिलक्षणलक्षितः तस्मात्तु मूल प्रकृति रव्यूढगुणबृंहिता, ततो व्यष्टि समष्ट्याभ्यो जीवसूक्ष्मतर स्मृतः ततो व्योमपदं विष्णोस्थानमानन्दपूरितं, तस्मात्त त्पञ्च शक्तिस्थं पञ्चोपनिषदात्मकं। पञ्चमूर्ति विभेदेन विभिन्नं विश्वतोमुखं, आभूतसम्प्लवस्थानं स्वरूपं चिदनम्परं। विष्णो रकुण्ठ वीर्यस्य नानाव्यू हैक हेतुकं, " तत षड्गुण सम्पूर्णं लक्ष्मी लक्षण संयुतं सत्यं ज्ञान “मनन्ताख्यं भगवच्छब्दशब्दितं, सूक्ष्मात्सूक्ष्म मिति ख्यातं स्वरूपं रूपवर्जितं। जाति क्रिया स्वरूपगुणसङ्गतं, सूक्ष्मात्सूक्षमवाप्नोति परं ब्रह्माणमव्यय” मिति, तदिहान्तिकेसमीपेच, पश्यत्सु पश्यद्भक्त जनविषये, विभाति श्रीवेङ्कटाद्रिप्रभृति दिव्यस्थानेश्वर्चारूपेण प्रकाशते। अत्रैव श्रुता -“य स्सर्वज्ञ स्सर्ववि द्य स्यैष महिमा भुवि दिव्ये ब्रह्मपुरे ह्येष व्योम्यात्मा प्रतिष्टित”-इति। यस्य महिमा, भुवि श्रीवेङ्कटाद्रिमुख्यभागेषु, दिव्ये ब्रह्मपुरे परमपदे च, प्रतिष्ठितः इति। अथवा, अस्य महिमा ब्रह्मपुरे हृदये, व्योम्नि, परमपदे इति। पुनःपश्यत्सु योगेन साक्षात्कु र्वत्सु, गुहायां हृदयेनिहितं, इहेतिशब्दस्य द्विर्ग्रहणा दयमर्थो युज्यते;इह भवीत्यर्धःभुवि परमात्मा उक्तोभयरूप एव। यथा मुण्डोपनिषदि परमपुरुषस्य विष्णो राराधनं मुक्ति साधन मभि पैति, तथा काठकोपनिषदी विरहितं त्यवगम्यते। उभे अपि प्राय स्संवदतः तथाहि-मुण्डकोपनिषदि - “परात्ररं पुरपष मुपैति दिव्य” मिति - कठोपनिषदि - “अव्यक्ता त्तु परः परुषोव्यापकोवलिङ्ग एवच” इति। मुण्डकोपनिषदि -“नतत्र चतुर्थाधिकारः 71 सूर्योभाति न चन्द्र तारकं नेमा विद्यतो भान्ति कुतोय मग्निः, त मेव भान्तमनु भाति सर्वं तस्य भासा सर्व मिदं विभा” तीति -कठोपनिषदि—“न तत्र सूर्योभाति"इत्यादिकं तुल्यं। मुण्ड कोपनिषदि-“द्वा सुपर्णा सयुजा सखिया समानं वृक्षं परिषस्व जाते, तयो रन्यः पिप्पलं स्वाद्वत्यनश्न न्नन्यो अभिचारनीति “कठे- “ऋतम्पिबन् सुकृतस्य लोके गुहां प्रविष्टा परमे परार्ध्य” इति। ऋतं अवश्यभाव्यतया सत्यं, कर्मफलं, पिबन्ता भुञ्जनै। जीवात्म परमात्मानौ, परमात्मनः कर्मफलानुभवप्रयोजकतया M कर्तृत्व बोध्यं। मुं-“अथपरायया तदरक्षर मधिगम्यत” इति भगवदर्चनक्रियारूपयज्ञे नाक्षरशब्दवाच्यब्रह्माधिगमनमुच्यते। क- “यस्सेतु रीजानाना मक्षरं ब्रह्मयत्पर” मिति। ईजानानां सद्वारतया द्वारतया च यजतां। य। स्सेतुः पोषकः-प्राप्तिश्च। तदक्षरं ब्रह्म इत्यर्थः। यजतां सेतु रीत्यनेन यजनरूपक्रियायाः प्रापकप्राप्यभूतब्रह्म प्रापक्षप्राप्यभूतब्रह्म प्राप्ति साधनत्व मवगम्यते। मुं-“नायमात्मा प्रवचनेन तनूं स्वा” मिति। क- “नायमा त्मे”त्यादि तुल्य मेव। मुं-“नायमात्मा बलहीनेन तपसोवाप्यलिङ्गा"दिति बिम्बाराधनसहितध्यान स्यात्म लम्भकत्व मुच्यते। क-“हृदा मनीषा मनसाकभिक्षिप्त” इति बिम्ब रुच्यते। मुं -“यं यं लोकं मनसा संविभाति ।।। तस्मादात्मस्थं ह्यर्चये द्भूतिकाम” इति-क-“एको वशी सर्वभूतां तरात्मा एकं रूपं बहुधायः करोति, तमात्मस्थं येकनु पश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषां, नित्यानित्यानां चेतनश्चेतनाना मेकोबहूनां योविदधाति कामान् तमात्मस्थं येकनुपश्यन्ति धीरास्तेषां शान्तिश्शाश्वती नेतरेषा"मिति। एकं, रूपं बहुधा श्रीनिवास श्र्शीराम श्रीकृष्ण इत्यादिबहु प्रकारै रर्चारूपै राविर्भवतीत्यर्धः। येनुपश्यन्ति, मुहुर्मुहुः पश्यन्त समर्चयन्तित्यर्थः। बहूनां “चतुर्विधा भजन्तोमां ।।।।। ज्ञानी च भरतर्षभ” इति भगद्वचनविधया 2224 72 उत्तम ब्रह्मविद्यासारः भजताञ्जनानां, कामान् तत्तदीप्सितान्, करोति। मुं “जुष्टं यदा पश्यत्यन्यमीशमिति—क—“तं स्वाच्छरीरात् प्रवृहे नञ्जादिवेषीकां धैर्ये”णेति। मुं-“ब्रह्मैवेदममृतं पुरस्ताद्भह्म पश्चाद्रह्म दक्षिण तश्चोत्तरेण अधश्चोर्ध्वं च प्रसृतं ब्रह्मवेदं विश्वमिदं वरिष्ठ” मिति। क—“ऊर्ध्वमूलोकवाक्शाख एषोकश्वत स्सनातन”इति, मुं- “यदापश्य” इत्यारभ्य “परमं साम्यमुपै”तीति। क “यथोदकं शुद्दे शुद्ध मासिक्तं तादृगेव भवति, एवं मुने र्वजानत आत्मा भवति गौतम” इति “सोँध्वनः पारमाप्नोति तद्विष्णोः परमं पद”मितिच- मुं-सत्येन लभ्यस्तप साह्येष आत्मा सम्यग्जानेन ब्रह्मचर्येण नित्य” मिति-क-“यदिच्छन्तो ब्रह्मचर्यञ्चरं"तीति। ब्रह्मचर्य शब्दस्यास्मदाचार्याव्याचख्यु— चरगति भक्षणयोरिति धातो रह्म चर्यं ब्रह्मनिष्ठत्वं, परमात्माराधकत्वमिति यावत्। ब्रह्मनिवेदित भक्षणञ्चेति। किञ्च, मुं—“क्रियावानेष” इत्यस्या व्यवहितं तद्वाक्यं, अतो अयमयुज्यते; अर्चना दनन्तरं तन्नि वेदित भोजनस्य कार्यत्वात्। “हृदिरूपं मुखेनाम नैवेद्यमु दरेहरेः पादोदकञ्चमाल्यञ्च मस्तकेयस्यसोकच्युत”इति स्मृतेः। अच्युतो मुक्त इत्यर्थः। भागवते त्वयोपभुक्तस्र गन्धवासोङ्कार चर्चिताः उच्छिष्टभोजिनो दासा स्तवमायान्तरेमही”ति। “पवित्रं विष्णुनैवेद्यं।।। चरे”दिति च स्मृतेः-“तदस्यप्रिय” -“मितिश्रुतेश्च। भगवन्नि वेदनेइम मेम मस्त्रं विनियुज्के भगवानिखनाः। तद्वचनं श्रुतिसारभूतं”; “वेदान्तवेदिभिर्वि प्रै” रित्यादिना श्रीवैखानसस्य वेदान्तत्व मुपपादितं। नेदं केवलं कल्परूपं, अपितु उपनिषदन्तरं। ननु कथ। मस्य वेदान्तत्वसम्भवः? अत्र कर्मणां प्रयोगः केवलं प्रतिपाद्यत, इतिचे, त्सत्यं। अत्राय मनुमानप्रयोगः। श्रीवैखानस मुपनिषत्; तदरप्रतिपादकत्वात्। गीतावदिति। नच-गीताया भगवदुपदिष्ट त्वाद्वेदान्तत्वं न्यायं। इदन्तुनतथेति वाच्यं; चतुर्थाधिकारः 73 इदं हि भगन्मुखा द्विखनसब्रह्मणा गीतं। ततो भृग्वा दिभिरिति बहुधा प्रपञ्चितम्। नच-गीताया स्साक्षाद्भगवदुक्ति रूपत्वादुप निषत्त्वं। अस्य मुनिवचनरूपत्वा न्नतथात्वं युक्त मिति शङ्क्यं; विखनसस्साक्षाद्भगवदंशत्वा तत्तत्रियत मत्वाच्च। अस्यतथा त्वोपपत्ते ः। विखनश्शब्दवाच्यभगवदंशत्वा दस्य ब्रह्मणो विखनो वैखानस शब्दवाच्यत्वं सिद्धं; “विखनामुनीना”मिति श्रुत्या, “वैखानस्साम गायनः”“यत्तस्मिन्नु पलभ्यन्तु तत्तेजस्तु त्रयीमयं, तद्वैखानः परम्ब्रह्म"इति भारतवचनाच्च। भगवान् विखनावैखानश्च, तत्पुत्रो ब्रह्माच विखनाः; “विखनसाकर्थितो विश्व गुप्तय” इतिवचनात्। उच्यतेच -“विखना इतिवै विष्णु स्तज्जा वैखानसा स्मृताः” वैखानसानां भगवत्रियत्वं श्रूयते “वैखानसावा आर्षेय इन्द्रस्य प्रिया आस” न्निति। इन्द्रशबोकत्र भगवद्वाचक इति व्यवस्थापितं। परमपुरुष स्स्ववचन मेव स्वप्रिय मुखान्निर्गत मत्यन्त प्रमाणं स्यादिति मत्वा सकलवेदान्त सारभूतं वैखानसं विखनसे उपादिशक्षत्, भगवद्वचनस्य च प्रामाण्य स्थापनं तत्रियवचनादिति जायते। गीतायामर्जुनः-“पुरुषं शाश्वतं दिव्य मादिदेव मजं विभुं, आहुस्त्वा मृषय स्सर्वे देवर्षि द्वारदस्तथा। असितोदेवलो व्यास स्स्वयं चैवब्रवीषिमे”इति भगवन्त माह। अत्रऋषयइति विखनोभृग्वादय उच्यन्हे; “मुनीनां विखना मुनि रिति, अत्रैव “महर्षीणां भृगुरह” मिति वचनात्। “कॊत्तेय प्रतिजानिकि नमे भक्तः प्रणश्यति” ति भगवान् स्ववचना दपि स्वप्रियवचनस्य प्रामाण्यं ज्ञापयितुं श्रीमदर्जुनं प्रतिज्ञायां प्रहणोति। यत्तस्मिन्नित्यादिना त्रयीमयस्य पर मात्मनः वैखानसशब्दवाचत्व मुक्तं। अस्यच शास्त्रस्य वैखानसत्वं प्रसिद्धं। तत इदं शास्त्रं त्रयीरूप मित्यवगम्यते “वेदानां व्यसनादर्वा ताग्रूपं मिळितन्तुयत्, तान्तु वैखानसीं शाखा मितिवेदविदो विदु” रीति वचनाच्च। यथा गीतायां कर्मणां भगवदाराधन त्वानुसन्धाने मोक्ष हेतुत्वमुच्यते, तथाकत्र तत्तत्कर्मान्ते भगवदर्पण सिद्धये 74 उत्तम ब्रह्मविद्यासारः भगवन्मन्तैर्लोमो विधीयते। तेन कर्मणां भगवदाराधनत्वं सिद्ध्यति, किञ्च सूत्रमिदं नारायणैक परमिति तद्भाष्यादौ प्रपञ्चितं, तथा वेदैक प्रमाणमितिच। तत्रकर्मविधाय “तत्कुरुष्व मदर्पण” मित्यादिना भगवदर्पणं विहितं। अत्रतु कर्मणां प्रयोग इव भगवदर्पणप्रयोग श्चोक्त इति विशेषः। तत्र भक्त्याभगवदुपासनं विहितं। अत्र तूपासनप्रयोगोकभिहितः -“अथनित्यार्चन” मित्यारभ्य “भक्त्या भगवन्तं नारायण मर्चये” दिति। तत्र -“मद्याजीमां नमस्कुरु” “मामेवैष्य सीति यजनस्य भगवत्र्पाप्ति रूपफलमुच्यते। अत्रापि -“तद्विष्णोः परमं पदं गच्छती” ति। तत्रै वात्रापि ज्ञानस्वरूपं प्रत्यपादि। यद्यपि सूत्रे विस्तरेण तत्त्वस्वरूपं नप्रतिपादितं; तथापि भगवन्मरीच्या दिभिस्तदाशयानुरोधेण विस्तरेण परमात्मनिष्कळ स्वरूप सकळ स्वरूप लक्ष्मीस्वरूप प्रकृतिलक्षण जीवलक्षण प्रपञ्चसृष्टि देवूत्पत्ति पाञ्चभौतिक प्रळय पितृयानमार्ग देवयानमार्ग भगवल्लोक स्वरूप मोक्षोपायादयः प्रतिपादिताः तत्रयथाक्वचि म्रुतिवाक्यमेव यथावद्दृह्यते -“नजायते म्रियतेवा कदाचि"दिति। तथात्रापि –“योक सौसोकहं योकहंसोसा” वित्यादि। तथा प्राणाग्निहोत्रे। तत्रैवात्रा प्यर्चिरादि मार्गाकभिधीयते। तत्रयथा सर्वदा भगवत्परत्वं विधीयते, तथात्र “सदाध्यात्मरतो ध्यान योगी नारायणपरम्ब्र ह्म पश्यन् धारणां धारयेत्। अक्षरं परं ब्रह्माप्नोति “नारायण परम्ब्रह्मेतिश्रुति” रित्युपसंहारे सन्यासविधौ प्रतिपादितं। उपक्रमेतु “नारायणपरायणो निर्द्वन्द्वोमुनि” रिति, ततो “भक्त्याभगवन्तं नारायणवरये"दिति, श्रा तेचाधाने-“ध्यायन्नारायण मुपोष्ये"ति, अग्निहोत्रे—“हुत्वा भूमानं विष्णुं ध्याये”दिति, दर्शपूर्णमा - “उदित आदित्ये ध्यायन्नारायणं विष्णोर्नु कमिति जपित्वे"ति, सोमेच- “नारायणपरायण स्तूप्लीमास्त”इति। किञ्च गीतायां-“मन्म नाभवे” विहितं· सर्वमत्र विधीयते दर्शितै र्वाक्यैर्भगवन्निष्ठमनस्त्वं। “भक्त्या भगवन्तं नारायण मर्चये” दिति चतुर्थाधिकारः 75 “मद्भक्तो मद्याजी भवेत्यर्णो विहितः। “पुरुषसूक्तेन संस्तूय प्रणामङ्कुर्यादिति “मानमस्कुरु” इत्यस्याविहितः। “बहूनां जन्मना मन्ते ज्ञानवान्मां प्रपद्यत” इति, “सर्वधर्मान् परित्यज्यमा मेकं शरणंव्रजे” तिच विहिता प्रपत्ति र्विष्णुबलिकर्मणाक्षत्र विधीयते। सूत्रीकनुक्ता विषयास्तदाशय मनुसृत्य श्रीमरीच्यादिभि श्र्शीशास्त्रि स्फुटं प्रदर्शिता इत्युक्तं। तत्राप्युपनिषद्वाक्यानि यथावस्थित मभिधीयन्तो -“प्रणवो धनुश्सरो ह्यात्मा ब्रह्मतलक्ष्य मुच्यत” इति वासाधिकारे। तथा मुण्डोप निषदि। श्रीशास्त्रि - “आत्मान मरणिं कृत्वा प्रणवं चोत्तरारणिं, ध्याननिर्मधनाभ्यासा” रीत्यादिना ध्यानेन हृद्याविर्भूतं परमात्मानम्बिम्बे आवाह्य समाराधनमुच्यते। अयमर्थः काठकोपनिषदि दृश्यते- “अरण्यार्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः दिवेदि। ईड्यो जाग्रवद्भिर्हविष्मद्भिर्म नुष्येभि रग्नि” अयमर्थः-‘‘अरण्योःपूर्वोत्तरारण्योः, रिति। जातवेदाः। गर्भिणीभिर्गर्भणव यज्वभिः, सुवृतः सुतरां गुप्तः महात्मभिर्घृदय प्रणवारण्योः परमात्मामासुभृतः, सोकग्निः पावकः परमात्मा, अग्रं नयतीति व्युत्पत्या अग्निशब्दः परमात्म वाचकः। रप्रमत्तः, हविष्मद्भिः होमाराज्यादि मद्भिः निवेदनार्हन्नादिमद्भिश्च, इदं गन्धपुष्पादीना मुपलक्षणं। मनुष्येभिः यज्वभिः आराधकैश्च, दिवेदिवेदिन सेदिवसे ईड्यः, वेद्याम्बिम्बे प्रतिष्ठा प्याराधनीय इत्यर्थः। अन्यैर्हृदि परमात्मनो ध्यानादिना ईड्यत्य मुक्तं तन्न सङ्गच्छते; हविष्मद्भिरिति विशेषणस्य सामञ्जस्यासम्भवात्। हविश्शब्लो निवेदनार्थान्नादि परतया भगवद्विखनसा प्रयुक्तः। “तदस्य प्रियमिति हविर्नि वेदन” मिति। “हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्, सदाधार पृधिवीं द्यामुते मां कसैदेवाय हविषा विधेम।” अस्या प्युक्तोकर्णो वर्णित आचार्यैः। नचात्र केवल मग्न्युपासनं विहित मितिवाच्यं; परमात्मप्रकरणत्वात्, ईडनस्य भगवद्विषयत्वे स्वारस्यात्। विधीयते भगवद्विखनसा पूजान्तेस्तुतिः -“पुरुष सूक्तेन संस्तूय प्रणामं कुर्या” दिति। किमधिकेन? अनया श्रुत्या 76 भगवतो मूर्ताराधनं उत्तम ब्रह्मविद्यासारः समूर्ता राधनञ्च विहितं भवति। यथा “अमूर्ता कन्न्याहुतिः प्रोक्ता समूर्ति बेर पूज” नेत्युक्तं। एवं चाद्वारक सद्वारक भगवदुपासनप्रयोगविधिरूपत्वादन्य शास्त्रस्य वेदान्तत्व युक्तं। नचाष्टादशमसूत्रे ष्वन्यतम मिदं सूत्रं, कल्परूप मेन। कथ मस्य वेदन्तत्व मितिशङ्क्यं; अस्यहि कल्पत्वं वेदा स्तत्वं चास्ति; भगवदुपासवप्रयोगविधिरूपत्वात्। श्रीमहाभारत स्येतिहासत्वेन पञ्चमवेद त्वेनच प्रसिद्धिः, यथा च श्रीमद्रामायणस्य काव्य त्वेनेतिहास त्वेनच प्रसिद्दिः, यथाच श्रीगीताया स्स्मृति त्वेनोपनिष त्वेन ब्रह्मविद्यात्वेनच प्रसिद्धिः, तथास्य शास्त्र स्यानेकरूपतया प्रसिद्धत्वं। अस्यसूत्रस्य सर्व सूत्रोत्तमत्वं दशभि रैतुभिः प्रपञ्चित मन्मदाचार्यै स्सप्रमाणं। अस्य सर्वोत्तमत्वादेव भगवद्बग्वादय इदम्मुलतया वैदिकमार्गेण भगवदाराधनशास्त्र माचकलन्। भार्गवेवासाधिकारे—“सूत्रेविखनसा प्रोक्तं पुराचैन चतुर्विधं, हरेः पूजाविधानं त दृषिभिर्विमली कृतम्"इति। भगवदावस्तं बादीना म प्याचार्यभूतो भगवान् बोधायनो वानप्रस्थान् प्रत्येव मुपदिशति -“वानप्रस्थो वैखानस शास्त्रसमुदाचारो वैखानसो वनेमूल फलशी तपश्शील स्सवनेषूदक मुपस्पृशान्नि त्यादिना। ततस्तत्सूत्र स्यापि मूलं श्रीवैखानस मित्यपगम्यते। एवं मन्वादिस्मृतीना मपि। मनु–“वैखानसमतेस्थित” इत्याह। अस्यभारुच्याधि व्याख्या नेनु “वैखानसं विखनस्सूत्रम्” इतिस्पष्टम्। यथा श्रीशौनकहारीता श्रीवैखानसाग्रेसर भगवद्भृगुमुखा द्भगवदाराधन मवगत मिति स्वयं ब्रवते। साक्षात्कृतसमसस्त वेदवेदान्तार्ध। श्रीविखनस ब्रह्मा भगवन्मुखात्तत्स माराधनशास्त्र मधिगम्य स्वपुत्रेभ्यो भृग्वा भ्यो यथ्याधिगत मुपादिशत्, तेच तथा शास्त्रं प्राणयन्। उपदिदि शुश्च श्रीशौनकादिभ्य। तेच तत्सङ्गृह्य कल्पे प्रत्यपादयन्। अतोवेदान्तत्वं श्रीशास्त्रस्यैव युज्यते, नत्वन्यस्य; तन्मूल प्रमाणकत्वात्। तथाह भगवान् पराशरः “यज्वभिर्यज्ञपुरुषो वासुदेवश्च सात्वतैः वेदान वेदिभिर्विष्णुः प्रोच्यते योनतो कस्मित” मिति। वेदान्तवेदिनः श्रीशास्त्रविद इत्युक्तं।चतुर्थाधिकारः 77 वृद्धमनुः -“वेदान्त वेदिभर्वपै स्तद्वैखानससूत्रिभिः। याजये द्यज्ञ पुरुषं विष्णुं राजा जगद्दित” इति। एवञ्च श्रीशास्त्रोक्तवर्त्मना भगवदाराधन मुत्तमब्रह्मविद्या। सैव परविद्य त्युच्यते। ययातदक्षर मधिगम्यते सापरा, ऋगादयो अपरा। श्रीवैखानस सूत्रेकर्मनु वेदत्रयमना विनियुज्यनै। विभागात्पूर्वं मिळितावस्थात्रयी श्रीवैखानसशाखा तथोच्यते “वेदानांव्यसनात्।।। विदुः, तान्तु वैखानसीं शाखं स्वसूत्रे विनियुक्तवान् पद्मभूः परमोधाता तस्मिन्नाराधनत्रय” मिति। एवञ्च वैखानसमन प्रश्नाध्ययनेन परविद्योपासनं सिद्ध्यति। अत्र भगवदाराधने विनियुक्ता मनाः केचिद्वेदत्रयान्तर्गताः, केचि दौपनिषदाः। “सहस्र शीर्षा पुरुषः, अद्भ्यस्सम्भूतः, सहस्र शीर्षं, अतोदेवाः, अणोरणीयान्, हग्ं स श्शुचिषत्, एकाक्षरं, यद्वैष्णवंशयने। विष्णुस्सर्वेषा” मित्यादि पारमात्मीयाः एतेहि सर्वोपनिषत्सारभूताः। परमात्म भूत श्रीमन्नारायणपराः, “विष्णुस्सर्वेषां सुसूक्ष्मस्सार्व” इत्यादयः। यदि पारमात्मीयो पनिषदरावगमु, स्सर्वोपनिषदरा अवगतास्स्युः। तथाहि-“विष्णु स्सर्वेषा"मित्यनेन “अग्निर्वैविष्णुः परम” इत्यादि श्रुत्यं तरोक्तोकर्थः प्रत्यभिज्ञाप्यते। “सुसूक्ष्म स्पार्व” इत्यादिना “सर्वगतं सुसूक्ष्मगतं मित्याद्युक्तोकः, “सर्वं खल्विदं ब्रह्मे” त्याद्युक्तो कर्थश्च प्रत्यभिज्ञाप्यते। “योब्रह्म शब्दः प्रणव” इत्यादिना “ओमिति ब्रह्मे”त्याद्युक्तोकरः, “यंयज्ञ रुसयो जुशन्ति” त्यादिना “चतुर्हितारो यत्र सम्पदं गच्चनिदेवै” रीत्याद्युक्तोर्णः चतुर्हितारः अग्निहोत्र दर्घ पूर्णमासानि कर्माणि, यत्र परमात्म न्यात्मतयावस्थिते सत्यं तच्छरीर भूतैरिन्द्रादिदेवैः, सम्पदं, गच्चन्ति, तेषामाराधनानि कर्माण्येता नीतिसम्पदं गच्छन्तीत्यर्थः। अत्र मुनय इति भगवन्मननशीला अमूर्तसमूर्ताराधन परा उच्यर्ते। यज्ञरित्यग्निष्टोमादयः पूजाश्चगृह्यस्ते, “अहंहि सर्वयज्ञानां भोक्ताच प्रभुरेवच, नतु मामभिजानन्तितत्त्वेनाथ श्च्यवन्तित” इति भगवद्वचनं। मुनिशब्दस्य भगवदुपासक परत्वेस्वारस्यात्। अनेन 78 उत्तम ब्रह्मविद्यासारः जपहोमार्चनध्यानेषु चतुरु होमार्चने उक्ते; “यं सूरयो जपन” इति जप उक्तः; “योगिनस्सूकै स्सुप्रदर्शनैः पश्यन्तीश्व राय स्वाहे” तिध्यानमुक्तं “आत्मेश्वर” मिति श्रुत्यन्तरोक्तश्चार्थः प्रत्यभि ज्ञापितः; “मनस्त्वम्भूत्वे” त्यनेन “मनोमयः प्राणे” त्याद्युक्तोकर्थः, “यस्यनाभया” दित्यादिना “भिषास्माद्वातः पवत” इत्याद्युक्तो कर्ण।” “द्वावेतौ पक्षि अचरं चरन्ता” वित्यादिना “द्वासुपर्णा” इत्याद्युक्तोर्थः प्रत्यभिज्ञापितः, इतिदिक् इतत श्रीवैखानसे औपनिषदैर्मन्त्रैः परमात्मनो नारायणस्योपासनं विधीयत इत्यकामे नाभ्युपगन्तव्यं। अत श्रीवैखानसस्य वेदान्तत्व मुपपद्यते। तथा श्रीवैखानसाना मुभयवेदान्तित्वं एते हि सर्वविप्रसाधारणे वेदाने। असाधारणे श्रीशास्त्रवेदाने चाधिकारिणोभवन्ति।
विग्रहाराधन-समर्थनम्
ननु “तमेव विदित्वाकति मृत्युमेति” “तमेवं विद्वानमृत इह भवति” इत्यादिश्रुतिभ्यो वेदनं मोक्षोपायतया विशयते। वेदनं ध्यानं स्मृतिसन्तानरूपं; तच्छदर्शनसमाकारं तेन हृदयग्रन्थि भेदादिकं श्रूयते-“भिद्यते हृदयग्रन्थिः।।।। तस्मिन् दृष्टे परावर” इति। किञ्च “अथातो ब्रह्मजिज्ञासे"ति शारीरक शास्त्रेपि ज्ञानमेव विधीयते तथासति कथ माराधन मुपायः? इतिचे, त्सत्यं वयं ज्ञानं ध्यानं वाविनाककराधन मुपायं नब्रूमः, किन्तु ब्रह्मणो रूपं ज्ञात्वा ध्यायताककराध्यं तदिति। “अथातो धर्मजिज्ञासे” त्यत्र धर्मज्ञानं यथा तदनुष्ठा नाय, तथा ब्रह्मज्ञानं तदुपासनाय
विहितं।
नच—ध्यायचो ब्रह्मकिं पृथगाराधने? नेति वाच्यं; “ज्ञान प्रसादेन विशुद्धसत्व स्ततस्तुतं पश्यति ध्यायमान इति ध्यानं वदन्त्योव। श्रुतिः-‘क्रियावा नेष ब्रह्मविदां वरिष्ठ” इति ब्रूते, ब्रह्म विदोनाम ब्रह्मध्यासः, नतुवाक्यार्णविदः तथायदि “ब्रह्म विदाप्नोतिपर” मिति श्रुतिवाक्यार्णविदो मोक्षोकभिहितस्स्यात्। ततःक्रियावा नित्यत्र
चतुर्थाधिकारः
79
भावना,
क्रियाशबो ध्यानमात्रक्रिया मभिधत्त इति नसङ्गते। परन्तु ध्यानसहितार्चनक्रियैन वक्तव्या। किञ्चध्यानं रामभावः, सतुक्रिया। वदन्तिहि शाब्दिकाः-“अपरिस्पन्दनसाधनसाध्यो धात्वर्णो सपरिस्पन्दनसाधनसाध्यो धात्वर्थः क्रिये” ति।
धात्वर्थः क्रिये” ति। नच-क्रियानाम स्वाश्रमोक्तकर्मलापः, सत्वर्चन, मिति वाच्यं; “आत्म क्रीडः वरिष्ठ” इत्यादा वात्म विषय क्रीडोच्यते। तत एष इतिवर्तते। तस्मात्परमात्म विषयक्रीडा क्रियावान् ब्रह्म विद्वरिष्ठ इति सिद्धं। क्रीडा नाम भगवता प्रतिमारूपिणा पाद्यार्थ्यादि दाननृत्त गीतादिभि र्विहारः स च भक्तिःक्रीडा कामोर्चा रूपि भवतित्युक्तं। “यतो वीरः।।।।।। देवकाम” इतिश्रुतिः प्रदर्शिता।” “अप्रमोयोक नियो ज्यश्च यत्रकामगमो वशी। मोदते भगवान् भूतैर्चालः
भूतैर्चालः क्रीडनकैरि” वेत्युच्यते। ब्रह्मविद्वरिष्ठत्वं प्रति हेतुभूतार्चनक्रिया सर्वोत्कृष्ट भगवत्पदप्राप्ति रूपसायुज्यं प्रत्युपाय इत्युक्तं। तत विवाह भगवान् विखनाः-“नारायणमर्चयेत् तद्विष्णोः परमं पदं गच्छ” तीति। किञ्च—“नायमात्मा।।।।।तनूंस्वा"मिति भगवत्करकवरणस्य तदर्शन हेतित्व मुच्यते। तद्वरणीयता पादकं केवलं ध्यान मिति कुल धर्मः ध्यान मिवार्चनं होमोजप इ त्ये ते तद्वरणीयता पादः कुतो नस्युः? गीयते हि भगवता -“पत्रं पुष्पं।।।।।।। प्रयतात्मन” इति। “याः क्रियाः। " इति भगव तार्चनादिक्रियाः शिरसा गृह्यत तुच्यते। क्रियाशब्दा भगवदाराधनस्य मुख्याभिधायक इत्यव गम्यते, “क्रियायोगं
समाचक्ष्व भवदाराधनं विभो” इत्याद्युक्तेः। ध्यानार्चनादीनां ज्ञानमूल कतया “अथातो ब्रह्मजिज्ञासे” ति ज्ञानं विधीयते। “ज्ञात्वा ज्ञात्वाच कर्माणि” ति कर्मणां साधारण्येन ज्ञान मूलत्वं वर मित्युच्यते, किं पुनर्भगवदाराधनस्य? “य एवं विद्वान् ब्रह्मणः पुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्धि मृद्ध्या” इति श्रुत्या कर्मस्वरूपज्ञान पूर्वकं तत्करणे तस्य समृद्धि रुच तथा ब्रह्मस्वरूपज्ञानपूर्वकं
तदुपासनं सम्पद्यती त्याशयेन
80
उत्तम ब्रह्मविद्यासारः
भगवान्व्यासो ब्रह्मज्ञानं विधत्ते। यदि ब्रह्मस्वरूपज्ञानमात्रेण मुक्तिस्स्या, तहि तदुपासनविधायक श्रुतिस्मृतीनां वैफल्यं भवेत्। उपासनविधायिन्य श्रुतिस्मृतयो दर्शिताः। श्रयमाणं ब्रह्मवेदनं तदुपासनैक प्रयोजनं, उपासन माराधन मित्यक्तं, शुद्धं। परमात्मोपासन प्रयोगविधि रूपत्वा दृगवच्छास्त्रस्य वेदान्तश्रेष्ठत्व मकामेनाप्यभ्युपगम्यः। श्रूयतेच पारमात्मी योपनिषदि, -“यजन्तु तम्बिम्बवन्तं ककुदाय भद्र” इति। ककुदाय श्रेष्ताय, भद्रेभद्राय मुक्तये, बिम्बवन्तं प्रतिमा रूपिणं, तं परमात्मानं। यजन्तु पूजयन्त्यिति। इय मुपनिषशास्त्रि विनियुज्यते। तथात्र कांश्चि न्मन्त्रा नुदाहृत्य भृग्वादिभिस्स्वोक्तस्य श्रातं प्रमाणं कथ्यते “पोपूयमानः पञ्चभि स्स्वगुणैः, प्रसन्नै स्सर्वानिमान् धारयिष्यसे इति श्रुते” रिति। अथवा वैदिकेतरैर्मन्त्रै श्र्शीशास्त्रे कावा क्रियाः? अतएववैखानसं वैदिकमिति तान्त्रिकाणामत्रानादरः, वैदिकाना मादरश्च। वैदिकादरादेव भगवान् योगयाज्ञवल्क्यः -“वेदान्त वेदिभिर्विपै जगद्धित” इति श्रीवैखानस विधिना भगवद्ध्यानं विधत्ते। वेदान्तशास्त्रेच-“अपि संराधने प्रत्यक्षानुममानाभ्यां” इति सूत्रेण भगवदाराधनं विना मुक्ति र लभ्ये त्युच्यते। संराधनन्नाम आराधनं, आराधनशब्द श्चार्चनस्य मुख्याभि धायकः। “क्रियायोगं समाचक्ष्व भवदाराधनं विभो” इति-“अथाग्नौनित्य होमान्ता विष्णोराराधन” मिति भगवान् विखनाः। “नित्यमाराधयेद्दरि” मिति भगवान् व्यासः। अर्चनं विधत्ते चन्द्रिकायां‘–‘‘स्वशाभोक्त क्रिया।।।।।।। कुर्यादा राधनं विष्णो रिति। कूर्मपुराणे—“नविष्ण्वाराधना त्पुण्यं विद्यते कर्मवैदिक” मिति। किमधिकेन? आराधनमिति चे दर्बनमिति प्रसिद्धं। ननु आराधन शब्दस्य मुख्यत याकर्चनवाचकत्वमस्तु नाम, प्रतिमार्चन मिति कुतो ब्रवीषि? हृदिजलेन्यत्रवा तत्स्यादितिचेत्, प्रष्टव्यं पृच्छसि यद्युत्तम ब्रह्मविद्याप्रतिपादकमुण्डकोपनिषदि तत्र प्रमाणं नदर्शयिष्यामो, भवान्न स्यात्समाहितिमान्। अशोकवधेहि! “यस्स र्वज्ञ स्सर्वविद्यस्यैव
चतुर्थाधिकारः
81
महिमा भुवि दिव्ये ब्रह्मपुरेह्येषव्यो म्न्याता प्रतिष्टितः, मनोमयः प्राणशरीरनेता प्रतिष्ठितोकन्ने हृदयं सन्निधाय, तद्विज्ञानेन परिपष्यन्ति धीरा, आनन्दरूपममृतं यद्विभाति” इति। अस्यार्थः पूर्वं प्रायः प्रदर्शितः भूयस्सुस्पष्ट मभिदध्म हे। यः सर्वज्ञः समष्ट्या सर्वं जानाति, सर्ववित् विवित्य सर्वंवेत्ति, यस्यैष महिमा, भुवि भूमा, दिव्ये आकाशेच, समुद्रपर्वतादिरूपेण सूर्यादिरूपेणच, दृश्यते, एष आत्मा परमात्मा विष्णु, ब्रह्मपुरे व्योम्नि, दहराकाशे। हृदयान्तर इत्यर्थः। प्रतिष्ठितः; “हृदयं तद्विजानीयात्।।।।।। व्यवस्थित” इति श्रुत्यन्तरात्। नच-तत्र विष्णु रिति कथ?मिति शङ्क्यं; नारायणस्य प्रकृतत्वात्। “सब्रह्मा सशिव सेन्द्रप्रोक्षर” इति नारायणस्य ब्रह्मविद्यात्मतया श्रवणाच्च। केचित् “सशिव स्सहरि” रिति वदन्ति, तदसत्; तत्र सेन्द्र इति तच्छब्दस्य सुलोपः पादपूरणाय। यत्रसुलोपे सत्येव पादपूरणं भवेत्। तत्राचि परेसुलोपानुशासनात् “सोचिलोपे चेत्पाद पूरणं” इति। यदि सहरिरितिस्या, त्तरि स इन्द्रणति च वक्तुं शक्यते। समर्थं पादपूरणायसुलोपः? इत्यल मप्रकृतेन तत्र दृश्यत्यत्राह- “मनोमय, प्राणशरीरनेता” मनसा ध्येयत्वा न्मनोमयः, प्राणशरीरधारकत्वा तन्नेता, स परमात्मा पुनः कुत्रप्रतिष्टितो भवती? त्यत्राह -अन्ने पृथिवीमये उपलादौ हृदयं सन्निधाय तस्य सकरूपध्यायि मन आवेश्य प्रतिष्ठितः, महात्मभिरिति शेषः श्रीशास्त्रव- “सुवर्णवर्णं रक्तास्यं मनसा सकळं सङ्कल्प्यावाहये”दिति। प्रतिष्ठाना मावाहनं, अन्नशब्दस्य पृधिवी परत्वं श्रुत्वन्तरे दृश्यते -“यत्कृष्णन्तदन्न स्ये” ति। “अधिकाररूपशब्दान्तरेभ्यः” इति वेदान्तसूत्रे अन्न शब्दस्य पृथिवी परत्वं समर्थ्यते। सूत्रार्थिस्तु अस्मदाचार्यैस्सङ्गृह्यते। “भूतसृष्ट्यधिकाराच्च रूपस्य
विनिर्णयात्, शब्दान्तरा दन्न शब्दः पृथिव्या विववाचक इति। एतदरो भाष्येद्रष्टव्यः। उना पृधिवीत्वं सिद्धम्। यद्यपी सालग्रामस्यापि तथात्वमस्ति; तथाप्यत्रप्रतिष्ठित इत्यावाहन मुच्यते।
82
उत्तम ब्रह्मविद्यासारः
सालग्रामे आवाहनं न कार्य मित्याहुः। अतश्शिलाताम्रदिमयी प्रति मैवान्न शब्देनोच्यत इत्यवगन्तव्यम्। अथ “हृदये प्रतिमायां च परमात्मा प्रतिष्ठित” इति ज्ञानानन्तरं यत्तदाह - “तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूप ममृतं यद्विभाती” ति। धीरा, विद्वांसः, यदमृतं ब्रह्मण आनन्दजनकं रूपं तत्, परिपश्यन्ति आपीठमौलि सेवस्ते, उच्यतेहि - “आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमं, पातकान्याशु नश्यन्ति किम्पुन स्तूपपातक” मिति। अथ भगवद्दर्शनफल माह-“भिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः, क्षीयन्ता चान्य कर्माणि तस्मिन् दृष्टेपरावर” इति। परे ब्रह्मरुद्रादयः अवरा यस्मात्सनारायणः परावरः, तस्मिन्, दृष्टे सेवितेसति, हृदयग्रन्थिः भगवन्मायावशताजनितचित्तमोहः, भिद्यते। उच्यते श्रीशास्त्रि -“भगवन्मायामोहितत्वाद्भगवन्तं समाश्रित्य भक्त्या नारायण मुपासीते"त्यादि। अत्र भगवन्तं समाश्रित्येत्यनेन इतराश्रयणं निषिद्ध मित्यवगम्यते। “दुर्बोधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च सर्वतः तद्भिस्त एव स्पष्टार्धाः स्मृतितन्हे प्रतिष्ठिताः"इति वचनेन वेदार्थस्स्मृत्यैव निर्णेतव्यः। श्रीशास्त्रस्यस्मृतित्वं वेदान्तत्वञ्च सम्भवति;
अश्रुत्यर्थ प्रकाशकत्वात्, वेदान्त विहितब्रह्मोपासन प्रयोगविधि रूपत्वाच्च। श्रीशास्त्रेभगवान् भृगुराह -“समाहितमना भूत्वा ध्यानं सम्यक् समाचरेत्। विषयेभ्यश्च सर्वेभ्यः प्रत्याहृत्येन्द्रियाणिच। एकाग्रञ्चमनः कृत्वातत, पश्येत् समाधिना, पद्मकोशाप्रतीकाशे विश्वस्यायतन् पृने, हृदयेकग्नि शिखामध्ये परमात्मा व्यवस्थितः।
परमात्माव्यवस्थितः। अप्रमेयमजन्नित्यं सर्वाधारं सनातनं, निर्मल मेदनिष्कळंसुद्धं परमात्मान मव्ययं। क्षीरे सर्पिस्तिले तैलं पुष्पेगन्धः फलेरसः, काप्टेकग्निरिव सर्वत्र व्यापिनं पुरुषोत्तमं। मनसा सकलं ध्यात्वाहृदये पद्ममध्यमे, ध्यात्वैवात्र ततोमन्तितस्मात्कुम्भजले सुवर्णवर्णं रक्तास्यनेत्रपाणिपदं तथा, शुकपिञ्छाम्बरधरं विष्णुं तं " प्रणवात्मकं। किरीटहारकेयूर प्रलम्बब्रह्म सूत्रिणं, शङ्खचक्रधरं देवं श्रीवत्साङ्कं चतुर्भुजं। परात्परतरं देवं
مسية
हरिं।
चतुर्थाधिकारः
83
देव्यादिपरिषद्गणैः, ध्यात्वाकथ मनसः कुम्भे सम्यगावाहयेद्गुरुः। सूच्यग्रतोदमात्रं च नास्ति तद्रोहितं क्वचित्। कुत आवाह्यतेदेवः कुत उद्वास्यते पुनः। तस्मा दावाहनं विष्णो रयुक्तमिति मन्यते, सर्वत्र व्यापिनस्तस्य सर्वस्मात्परमात्मनः। एकत्रस्मरणं यत्तदावाहन मितिस्मृतं, अरण्या मथनादग्नि रेकत्र ज्वलितो यथा तथा ध्यानेन भक्तस्यहृदि विष्णुः प्रकाशते, मन्रारावाहितो बिम्बेजले कूर्चस्थलेकथवा।
भक्तानुकम्पया स्थित्वा पूजां गृष्णाति पूजितः,
वदन्यावाहनं केचिद्दरे रादित्यमण्डलादि त्यादि।
निष्कळमेव निर्गुणम् इत्युच्यते। निर्गुणं नाम हेयगुणरहितं, सर्व-व्यापि। ध्यातुम् असुशकं ब्रह्मणो रूपं; न तु सर्व-गुण-शून्यम्। यथाकरण्यां सर्वत्र व्यापकस्याग्नेः प्रकाशत्वादि विशेषगुणरहित श्वेपि नवेय गुणाः, तथा सर्वव्यापिनो ब्रह्मणः भक्तानुग्रहकारित्व सुभोपास्यत्वादि विशेषगुणरहितस्यापिन
हेयगुणाः अतोनिरुणं केवलं हेयगुणरहितं, सगुणं नामसमस्त कल्याणगुण सम्पन्नं, श्रीमन्नारायणाख्यं ब्रह्म। सहि समस्तकळ्याणगुण सम्पन्नतया स्वोपासकानां सर्वाभीष्ट दायी परमोपकारी परम पुरुषः यथारण्यां ज्वलितो कग्निः प्रकाशकत्वादिगुण सम्पन्न तयाकन्ध तम सध्वंसाद्युपकारीभवति। उत्तं भगवताभृगुणा-“पुष्पमिव निष्कळं फलमिव सकळ” मिति, रम्भादिफलवृक्षे प्रथमं पुष्पमेव भवति, तन्नविशेषगुणवत्, परन्तु हेय गुणरहितं। ततः फलं भवति, तत्तुन हेयगुणरहितमात्रं; किन्तु हेयगुणरहितं विशेषेण सुगुणसम्पन्नञ्च। तथाब्रह्मापि निष्कळम्, सकळमिति। यद्यपि पुष्पस्यैव प्रथमत्वं, तथापि तदपेक्षया फलस्य भोग्यत्वमधिकं; अतएव सकलोपासकानां युक्त तमत्वं भगवतागीतं। सकळस्यापि परब्रह्मणः परम पुरुषस्य परत्वाद्य पेक्षयाकर्बा रूपमे वाराधयितुं सुशकतमं। अर्चारूपस्य षाड्गुण्य सम्पन्नत्व मस्तिति अर्चोपासनमेव पर विद्यामभिधत्ते मुण्डोपनिषत्। शास्त्रमेतदुपनि, द्विवर्त मित्यवगम्यते। यथा प्रज्वलितोकपि तन्मूल को भवति। तथा विस्तृतं
पूर्वमेवोक्तं। अनेन श्रीवैखानस
दीपान्महापः । श्रीशास्त्र मविस्तर
84
उत्तम ब्रह्मविद्यासारः
मुण्डकोपनिषन्मूलकं। किञ्च एतदुपनिषदुक्तं “अष्टादशोक्त मवरं कर्म येष्वि”ति प्रमाण मङ्गीकृत्य सूत्रे निषेकादीन् संस्कारा नष्टादशविदधे। अवरं कर्मेति श्रातकर्मापेक्षया स्मार्त कर्मणां निषेकादीना मवरत्व मुक्तं। येषु सूत्रेषु, अवरं कर्म। अष्टदशेत्यक्त मित्यर्थः। विस्तरस्तु दीक्षितैरनेकत्र दर्शितः। भगवान् भृगुराह -“एत द्वैखानसं सूत्रं सर्ववेदान्त सङ्ग्रहं, छन्दो वैष्णव मुत्तम” मिति। अपिच श्रीशास्त्रे प्रथमं निष्कळध्यानं तत स्पकळध्यानं चाभिधीयते। तथाकत्र श्रूयते -“नचक्षुषा गृह्यते नापि वाचा नान्यै रेवैस्त पसा कर्मणावा, ज्ञानप्रसादेन विशुद्धसत्त्व स्ततस्तुतं पश्यते निष्कळं ध्यायमान"इति। परमात्मा चक्षुषान गृह्यते, नचापि, न देवै रिन्द्रयैश्च, विशुद्धसत्वः, केनपुनः पश्यत?” इत्यत्राह” -ज्ञान प्रसादेन निर्मलज्ञानेन, निष्कळं रूपं, ध्यायमानस्सन् ततस्तं सकळस्वरूपं पश्यते, सात्विक एव निष्कळ सकळ स्वरूपं ज्ञात्वा निष्कळात्सकळं जातमिति पश्यतीत्यर्थः नच - निष्कळन्तं परमात्मानं द्यायमानः पश्यतित्येवार्धः, न तु सकळ मिति वाच्यं ध्यानदर्शनायो रेकार्थतयापृथ ग्रहण वैयर्ध्यात्, तत इत्यस्य निष्कळत्वाच्छ। पाठक्रमा दरक्रमस्य बलीयस्त्वान्निष्कळं ध्यायमान स्पकळं पश्यतीत्यन्वयो युक्तः। ननु “नायमात्मा प्रवचनान लभ्यो भगवद्वरणस्य तत्पदप्राप्ति हेतुत्वं
तनूं स्वा” मिति श्रूयते, तथासति
तदाराधनस्य कथं तद्देतुत्व? मितिचेत्, सत्यं, भगवद्वरणेकपि केनापि हेतुना भवितव्यं ; अन्यथा तस्यवैषम्यापत्तेः। तत्र निरन्तरध्यानं तद्देतुं वदन्यन्ये। वयन्तु तनुध्यानसहित माराधनं वरणे हेतुं ब्रूमः तथाच, यथा स्वर्गप्राप्ता ज्योतिष्टोमः, तथा भगवत्प्रप्ता तदाराधनं; यथा तत्र तज्ञनितोक पूर्वः तथाकत्र तदाराधन हेतुकं तद्वरणं। इयानो भेदः। अपूर्वलब्ध स्स्वर्गवासाच्च्युतिर्भवति; अपूर्वस्य क्षयिष्णुत्वात्।
चतुर्थाधिकारः
85
भगवद्वरण लब्दतत्पदान्नच्युतिः; भगवत्कर्तृकवरण स्यानश्वर त्वात्। सहि भगवान् सत्यसङ्कल्पः।।
踏
नच तथासति तदाराधनस्य परमपदप्राप्तो नाव्यवहितोपायत्वं सम्भव, तीति वाच्यं; वरणं तत्पद प्रापणं च भगवत्प्र्कर्तकं। तेतु परस्परं नात्यन्तं भिन्ने। ततो भगवदाराधनस्य वरण हेतुत्वेकपि नाव्यवहितो पायत्वहानिः वरणं नामायं मां प्राप्नोत्विति भगवत्सङ्कल्पः प्रापणञ्च तदेव। नतु हस्ताभ्यां स्वपदं प्रत्यानयनं। अतो वृणुते प्रापयितीत्यर्थः कथयितुं शक्यते। भगवान् मरीचिराह -“भगवदाराधनं करोति।।। सोप्य पुनरावृत्तिकं दिव्यलोकं प्रापयती” ति। इद मत्रावधीयते। तत्तत्फलापेक्षया कृते कर्मणि, तत उत्पन्ने ना पूर्वेण स्वर्गादिकं प्राप्य भोगेन क्षीणि अपूर्वे, पुनर्जन्म प्रपद्यते। अत उच्यते -“क्षीणे पुण्ये मर्त्यलोकं विशन्ती” ति “आ ब्रह्म भुवनाल्लोकाः पुनरावर्ति नोकर्जुन” इति च। भगवद्गीति मनुसन्धाय कृते तदाराधने प्रीतेन भगवता वृतस्तत्पद प्राप्तिरूपं सायुज्यं प्राप्य न पुनरावर्तते। अथ उच्यते -“मामुपेत्यतु कॊनेय पुनर्जन्मन विद्यत” भगवान् मरीचि- -“आश्रम धर्मसंयुक्त भगवदाराधनं करोति, तदाराधनेन संसारार्णव निमग्नो जीवात्म परमात्मानं नारायणं पश्यति, सोकव्यपुनरावृत्तिकं दिव्यलोकं प्रापयति, पश्चात्कृतकृत्यो भवती” ति। स्वरूपदर्शनं भगवत्कर्तृकं; “विवृणुते तनूं स्वा”
मिति तथा श्रवणात्, ततोवरणं स्वरूप दर्शनं प्रापणं वा भगवदेशाधीनं। “द्रष्टव्य श्रोतव्यो मन्तव्यो निधिधासितव्य” इति दर्शन समानाकारं ध्यानमेव जीव कार्यतया विधीयते। साक्षात्करणन्तु जीवस्य विधेयं भवति; तस्य भगवदधीनत्वात्। ईदृश सादृश इति पठतास आराधनीयः, तथोच्यते —“तमेव चार्चयन्नित्य” मित्यादिना। अत्रयद्यपि ध्यायन्नित्यादिव दर्चयन्निति च सामान्ये नोच्यते, तथाकपि प्रथमं तन्य ग्रहणा त्तदङ्गतया ध्यानादीनां विधातुं युक्तत्वाच्छार्चन
इति।
86
उत्तम ब्रह्मविद्यासारः
मेव प्रधान मित्यवगम्यते। अध्यायन्निति अनुध्यानमेवोच्यते; तस्यैवार्चने शक्य त्वात्। भगवतानि गीयते -“मां ध्यायन्त उपासत” इति। मां चिन्त यन्तः पूजयं तीत्यर्थः “सततं कीर्तयन्तो मां यतन्तश्च धृढव्रताः, नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासत” इति। यतन्तः भगवदाराधनो पयुक्त द्रव्यार्जने यतमानाः, धृढव्रताः भगवन्तमाराध्य तदर्पितै रन्नादिभि रात्मधारणा कर्तव्येति धृढ सङ्कल्पाः, समस्यन्तश्च। नित्ययुक्ताः नित्ययोगं काङ्क्षमाणाः, भक्त्या मां, उपासते पूजयन्तीत्यर्थः। अत्र पूजन मेव प्रधानत योच्यते, कीर्तनयतननमनानां तदङ्गत्वे नोपपत्तेः। अत्र पूर्व मुदाहृताना मपि वचनानां पौनः पुन्यन ग्रहणं विवित्सुनां स्फुटप्रतिपत्यर्थं; अतस्तत्र तत्र
पौनरुक्त्यशङ्का कार्या। भगवदाराधकाना मेव सर्वोन्नत पदावाप्ति रित्यस्मद्देशिकै श्री श्रीनिवासयज्वभिः,
श्रीनिवासयज्वभिः, पारमात्मी योपनिषद्भाष्ये सम्यगुपपादितं। यथा “संसारार्णवनिमग्नो जीवात्मा।।।। भगवतो नान्यथा परम पदप्राप्ति रिति
रिति विज्ञायत” इति मोक तारतम्यश्रवणा दह्मविदां भगवदाराधकाना मग्निहोत्रिणा मर्चिरादिना ब्रह्म प्राप्ति, “अर्चिरादिना तत्प्रथितै” रिति वेदान्त सूत्रे उक्तत्वात्। “भक्त्याभगवन्तं।।।।। विजायत” इति अर्चिरादि मार्गप्राप्यस्थान प्रतिपादनाच्च। न्यास विद्यानिष्ठानां अर्चिरादिना परमपद प्राप्तिः साङ्ख्यानायोग ध्यान विद्यानिष्ठाना मामोद प्राप्तिः, एकान्तिनां प्रमोदप्राप्तिः परमैकान्ति सिद्धानां पञ्चकालरतात्मनां श्वेत द्वीपादिना ब्रह्म प्राप्ति- आमोदप्राप्ति- केवलस्यामोद एव, तत्रापि स्वानुभवएव। छान्दोग्ये -“यथाक्रतु रस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवती” तिश्रुतेः तं यथा यथोपासते तथैव भवतीति। एवं “स्वातिगा गुप्तयो गुप्ति” रीति मस्त्र व्याख्या प्रकरणाभि हितं। तद्विस्तरस्तु तत्र द्रष्टव्यः सर्वथा कत्मेश्वरं नारायणं य आराधयन्ति, तेषा मेव मुक्तिरित्यत्र न संशयः। “पतिं विश्वस्यात्मेश्वरं शाश्वत मिति श्रुतिर्नारायणस्य सर्वेश्वरत्वचतुराधिकारः
87
मात्मेश्वरत्वञ्च प्रतिपादयति। तदाराधनं विना कथमात्मनोगतिः? हारीतः –“शुद्धसत्वमयो विष्णुः पूजनीयो जगत्पतिः, अपूजनीयारु द्राद्या विष्णोराराधनं विना।।।।।।।।तदावरणरूपेण
यजेद्देवान् समन्ततः, अन्यथा नरकं याति यावदा भूतसम्पं।।।।।।। मनस्यापि हृषीकेश मर्चयित्वा सनातनं, सम्प्रा प्नोत्य मलां सिद्धिं पुनरावृत्ति दुर्लभा” मिति। अत्र मनसाःपीति मानसार्चनस्य मुक्तिसाधनत्व कथनेन बहिरर्चनस्य मोक्षोपायत्वं कैमुतिक सिद्धं; अपिशब्दप्रयोगात्। वृद्धपराशलोकप्याह -“विस्तरेण ब्रवीम्यद्य विष्णोराराधनक्रिया” मित्यारभ्य “पाञ्चरात्रविधानेन तथा वैखानसेनवा, स्मृत्युक्ते नादरा त्कुर्या त्रियालो पं नकारयेत्। एवं सम्पूजयेदेवं यावज्जीव मतनित” इति। यद्यपि वैदिके तरमनै रपि भगवदाराधनं स्मरन्ति; तथापि वैदिकाराधन मेव श्रेष्ठं विप्राणां। उच्यतेपा “वेदोक्तेनैव मार्गेण।।।।। विप्राः सायुज्यं यान्ति ते ममे” ति -“अलाभेवेदमन्ताणां पाञ्चरात्रोदितेन वे” तिच “श्रातमेव तथा विप्राः प्रकुर्वन्ति जनार्दन” इति मनुः “वेदोदितं स्वकं कर्म नित्यं कुर्या दतन्द्रितः, तद्दि कुर्वन् यथाशक्ति प्राप्नोति परमां गति” मिति। वैखानसानां भगवदाराधनस्य वैदिकमन्तैस्स्वसूत्र विहितत्वात्तत्स्वकं कर्म। तदनुष्ठानेन परमा गतिरिति कोवालनुन्मत्तैन निश्चिन्नयात्? विधीयते हि भगवता विखनसा भगवदर्चनं -“अथ नित्यार्चन” मित्यादिना। न चा यं विधि रहस्थ मात्रस्येति शङ्क्यं; सर्वेषा मप्याश्रमिणा मयं विधिरिसमानः। अत एव क्रतु र्यतीना मपि भगवदर्चनमाह -“ध्यायतेकर्चयते योगन्यं विष्णुलिङ्ग मुपाश्रितः, कल्पकोटिशतै श्चापि गतिस्तस्य न विद्यत” इति। विष्णुलिङ्गं सन्यासः, त मुपाश्रितो विष्णुं विनाःन्यं देवन्नध्याये, न्नार्चयेदित्यर्थः, अत्र “ध्यायत्वेर्बयत” इति ध्यानस्यार्चनेन सह ग्रहणा दृगव दर्चारूप ध्यानञ्च विहितं भवति, तद्रूपध्यानं शानकोकपि विधत्ते “सुरूपां
88
उत्तम ब्रह्मविद्यासारः
सोपि
प्रतिमां।।।।।। तामर्चयेत्तां प्रणमेत्तं स्मरेत्तां विचिन्तये” दिति। “सर्वातिशायि षाड्गुण्यं संस्थितं मस्त्र बिम्बयो” रित्यर्चारूपस्य पूर्णत्वमुच्यते। अत एवाह भगवान् भृगुः “मानसी होम पूजाच।।। रपूजा विशिष्यत” इति। एवं चार्चावतार विषयतय्याभि गमन मुपादान मिज्या स्वाध्यायो योगश्च सम्भवति। पञ्चकालपरत्वञ्च वैखानसानां स्वशास्त्रि वासाधिकारे भगवता भृगुण्याभिधीयते। आनुशासनिके पुण्डरीक नारदसं वादे “ब्रह्मचारी गृहस्थोवा वानप्रस्थो थभिक्षुकः, केशवा राधनं हित्वा नैवयाति पराङ्गति” मिति। किञ्च सुगमोकायं पनाभगवत्पदप्राप्तये, यो भगवद्दर्मो नाम। उच्यतेहि सकृत्यहं च सप्ताहं पक्षं मास मथापि वा, योयजे द्विदिनानेन भक्तिश्रद्धासमन्वितः। यायात्परं स्थानङ्किम्पुन र्योगसंस्थितः, यावज्जीवावधिं कालं बद्धकल्लो महामति"रिति। अपिच, “समाराधयत स्त्वेवमेकाहमपि नारद, मुक्तिः करस्थिता तस्य सर्वे कामाश्च किम्पुन रिति। अन्योयं भगवदाराध नस्य विशेषः परे धर्मा सत्सन्निहितफला एव स्युः, अयन्तु धर्मो मोक्षफलकोSपि, भगवत्प्रण सत्वात्। अप्रार्थिता नप्यैहिका ननुद्दिष्टा न्भोगा नवि साधयति। अमृतकृते समुद्रमथनं कुर्वद्भि स्सुपर्वभि र्लबाहि पारिजातादय्योपि। उच्यतेच” मनीषिण्योपि ये केचि द्यतयो मोक्षकाङ्क्षिणः, तेषां पै छिन्न तृष्णानां योगक्षेमवहो हरिः” “अनन्या श्चिन्तयन्तोमां।।।।। वहाम्यहं” “शरीरारोग्यमर्थांश्च भोगांश्चैवा नुषङ्गिकान्, ददाति ध्यायिनां नित्य मपवर्गप्रदो हरि"रिति। भगवदाराधन धर्मस्य सर्वोत्तमत्वं बहुभि रैतुभि र्विहितं। उच्यते ह्याप्लैः “एव यावद्द्विदिनं त्रिदिनन्तु वा, मासं वावत्सरं वापि यावज्जीवितमेववा। वर्तेत भक्त्या परया वैष्णव स्फुचिरं सुखं, प्रारब्दे मध्यतो विघ्न विच्छिन्ने कप्यत्र कर्मणि। वानस्थानच नैष्पल्यं नकृतांशस्य सङ्क्षयः प्रारभेष्व समाप्तेषु विच्छिन्नेष्वन्यकर्मनु। भवत्ये वैतदखिलं वैदिके ष्वितरेष्वपि, कृत स्स्वल्पांश कोकप्यस्यस्थि
मेकनं
चतुर्थाधिकारः
89
यथा
त्वासु चिरमक्षयं। त्रायतेवै स्वकर्तारं स्यशक्त्या भवभीतितः श्रद्धावा नधिकार्यस्मि नुक्ते कर्मणि वैष्णवे इत्यादि। यथाक$राध्यस्य नारायणस्य देवत्वेन परमात्मात्वेन व्यवहारः, तथाराधनस्यापि कर्मत्वेन विद्यात्वनच व्यवहारः, यथा नारायण स्स्वस्मिन् सामान्यतो देवताबुद्ध्या स्वमाराधयतां तदनुगुणं फलन्दिशति, परमात्मबुद्ध्याकर्चयतां मुक्तिं ददाति। तथा तदाराधन मपिकेवलं कर्म कुर्वतां तदनुगुणसाधकं भवति। विद्येति कुर्वतं मुक्त्युपायोभवति। इममर्थं प्रकाशयति श्रीश्रीनिवास मखि वेदान्त देशिक श्र्शीभाष्ये -[सू] “उपपन्न सल्लक्षणार्थोपलब्धिर्लोकव” दिति सूत्रस्यार्थमाह - ‘सर्वकर्मक्षयेकाले सिद्दोपासन शालिनां, उपपन्नो देवयान स्तद्रूपार्णोपलब्धितः। विष्णूपासननिष्ठाना मीप्सितार्थस्य सिद्धिवल्, ब्रह्मोपासननिष्ठस्य सर्वसिद्धिः करेस्थिता।’ देहवियोगकाले सर्वेषु कर्मसु क्षीणेष्वपि सिद्धपर ब्रह्मोपासनानां तदुपासनमहिम्ना सूक्ष्म शरीरारम्भक कर्मरूपहेतुं विनैन तच्छरीरसम्बन्धरूपार्थ उपलभ्यते, आतोदेवयान उपपन्नः लोकवत्। एतदुक्तम्भवति__लोके यथा श्रीवेङ्कटाद्रि प्रभृतिषु स्थानेष्वर्चारूपेण सन्निहितं श्रीनिवासं विष्णुं देवतान्तर मि सन्तानाधिकामनया समुपासीनानां संसारिणां सर्वाभीष्टं तद्धेतुभूत पूर्वसुकृतं विनापि सिद्ध्यति। तथा निष्काम परमात्मबुद्ध्यातमे वाराधयतां सर्वकर्मक्षयेकपि विनैव हेतुं परमपद प्रापक सूक्ष्मशरीरावाप्ति- करसै व भव"तीति। इतञ्च मुण्डो पनिषदभिहित परम पुरुषाराधनरूपो पासना परमपुरुषपरम पद प्राप्तिरूप सायुज्यप्राप्त्युपाय इति सिद्धं। तत्रमुख्याधिकारण श्र्शी वैखानसा इतिच। ननु त्रोपनिषदि।
“तेषामेवैतां ब्रह्म विद्यां वदेत शिरोव्रतं विधिव द्यैस्तु चीर्ल” मिति चरितशिरोव्रताना मेवास्यां विद्याया
तथासतिकथं वैखानसाना मधिकारु? इतिचे, दुच्यते
मधिकार श्रूयते।
तन्नियमस्त दध्ये
न विद्याङ्गत्वं।
तॄणामेव; शिरोव्रतस्य स्वाध्या याङ्ग त्वात् तदुक्तं वेदान्तशास्त्रि _[सू] “स्वाध्या यस्य तदात्वेहि समाचारेकदिकाच्चसनव च्च तन्नि यम”इति। भाष्यं “शिरोव्रतं न
90
उत्तम ब्रह्म विद्यासारः
"
विद्याङ्गं स्वाध्यायस्यैवत द्भवेत्, तदध्ययन सम्बन्धाद्व तत्वावगमा त्ततः। संस्कारभाजि ह्याचारे सनव न्नियम स्स्मृतः।” आधर्वणिकानां यद्विहितं शिरोव्रतं, त न्न विद्याङ्गं; अपितु स्वाध्या याङ्ग मेव। कुतः? तद ध्ययन सम्बन्धात्; प्रतत्वाव गमाच्च। तत्संस्कारवति समाचारे तन्नियमः। यथा नवहोमा स्पप्तसूर्यादय श्शतोदन पत्यान्ता स्तेषा मेकाग्नि सम्बन्धा ततैव, न त्रेताग्निमु। तथा” इति। भाष्यार्थस्तु मत्कृते निगम चूडा दर्पणे द्रष्टव्यः। सर्वथा वासुदेव पराणां “ब्रह्मविदाप्नोति पर” मिति श्रुत्युक्तो कर्धः करस्थ एव। उच्यते महाभारते “वासुदेवात्मको।।। याति ब्रह्म सनातन” मिति। इद मत्याश्चर्यं जगति, “नारायणपरं ब्रह्म” “न ब्रह्मानेशानः” “अन्तर्बहिश्चतत्सर्वं” “नमो विष्णवे बृहते करोमि” इत्यादि श्रुतिशतै र्नारायणस्य परब्रह्म परमात्मा दिशब्दवाच्यत्वे सर्वजगत्कारणत्वे सर्वान्तर्यामि श्वे सर्वेश्वरत्वे च सिद्ध्यति। “अपहतपाप्मा” इत्यादिभिर्हेयगुण रहितत्वे “सर्वज्ञस्सर्ववित्” “सत्यकाम स्सत्यसङ्कल्पः” इत्यादिभि स्तस्य समस्त कल्याण गुणाकरत्वे च सिद्ध्यति, अव्यक्तस्यापि तस्यस्वेच्छया भक्तो पासन सौकर्याय पुण्डरीकाक्षत्वादि सर्वसौन्दर्य विशिष्टरूपवत्त्वे “यदापश्यः पश्यतेरुक्मवर्णं” “हिरण्मयः पुरुषो दृश्यते।।। यथाकप्यासं पुण्डरीक मेव मक्षिणि” इत्यादिषु श्रुतिषुसतीषु। “युक्तग्रावाजायते देवकामः” “अविस्सन्निहितं गुहाचरन्नाम” अजायमानो बहुथा विजयते” “भूतोभूतेषु चरति” “अश्मान माघणं प्रपद्ये” “तस्य त्वष्टा विदध द्रूपमेति” इत्यादिभिस्त स्यार्चारूपत्वे प्रतिपादिते, प्रवः प्रान्तं।।। चार्चत” “अर्चये द्भूति कामः” “दिवेदि। ईड्योजाग्रवद्भिर्हविष्मदि र्मनुष्येभि रग्नि रिचाय्यता मृत्यु मुखात्प्रमुच्यते” निचाय्य पूजयित्वा “चायृपूजा दर्शनयो” रिति धातुः। “रतये यजन्तु तं बिम्बवन्तं ककुदाय भद्रे” ‘इत्यादिभि स्तस्यार्चने विहिते। “उपासते पुरुषं ये
चतुर्थाधिकारः
91
ह्यकामा-” “एतैरुपायैर्यत तेयस्तु विद्वान्’’ इत्यादिभि स्तदाराधनस्य मोक्षफलत्वेकभिहिते च मन्दास्तत्रन प्रवर्तन्त इति। उदाहृतानां श्रुतीनां प्रतिपादितारविषयतां च प्रकाशयन्ति स्मृतयः तथा भगवान् गायतिच वासुदेवः। तानि वचनानि बहून्युदाहृतानि। एवं भगवान् विखनस ब्रह्मासूत्रेस्फुट माह __“नारायण मर्चये त्तदिष्णोः परमम्पदं गच्छ” तीति। तथा तच्छिष्या भगवन्तो भृग्वादय श्चाहुः वासाधिकारे “वैदिके नैव मार्गेण मनै र्वेदोद्भवै स्तथा, समाहितमना भूत्वापूजय न्विष्णु ममव्ययं। तस्य विष्णोः पदं गच्छे” दिति। वैदिकेन वेदाविरोधिना मार्गेण, न तु तान्त्रिकेणेत्यर्थः तान्त्रिकाहि “मुखादिन्द्र श्चाग्नि श्चे” ति श्रुत्याग्नेः परमात्म मुखोदितत्वे सति, ईश्वरस्य ग्राम्यधर्मे णाग्नि मुतावदयन्ति। एवन्तत्रान्येकपि वेदविरोधा ऊह्याः ‘वेदोद्भ
रीति। ते च ईकारादियदेवादि श्रीपुरुसूकैकाक्षर पारमात्मीयादय औपनिषदाः। रात्रीसूक्त विश्वजित्सूक्तो दय ऋज्मन्त्राः। सर्वदैवत्यादयः खिलमन्ताः श्रीमदष्टाक्षरादयो व्यापकमन्ताः। तन्त्रे सूद्धृता मन्त्रा विनियुज्यन्ते। उदार प्रकारस्तु पूर्वं प्रदर्शितः ते च नमो हुं फट्। वषट्काराद्यन्ताः। उद्दारप्रधाना सान्त्रिकाः विनियोगप्रधाना वैदीक मनाः यद्यपि तन्त्रेष्वपि क्वचिचीपुरुषसूक्ता दयो विनियुज्यने। तथाकपि बहुळतया विनियोग उदृतमनाणामेव। ‘समा हितमना’
इति।
तदेक परायण इत्यर्थः। गीयते हि “म य्या वेश्य मनोये मा” मिति। अने नाव्यभिचारिणि भक्ति रुक्ता। ‘विष्णु मव्यय मिति। “ब्रह्मादिपु प्रलीनेषु नष्टे स्थावरजङ्गमे, एक सिष्ठति विश्वात्वास तु नारायणः प्रभु” रित्या द्युक्तं भगवतो नित्यत्वं कथितम्। “अग्नि र्वैदेवाना
विष्णुः
“विष्णुस्सर्वेषा मधिपतिः इत्यादिश्रुतिभिर्विष्णुशब्दवाच्यस्य पारम्यकधना द्विष्णुशब्दग्रहणं, पूज
मनमो
परमः”
परमः”
यन्निति “विष्णवे चार्चत” इत्यादिश्रुतिभिः “परमं विष्णुं प्रतिष्टा अनादिनिधनं विष्णुं”
प्यार्चयेत्” “तमेव चार्चयन्नित्यं
92
उत्तम ब्रह्मविद्यासारः
“ज्ञानकोकहं प्रवक्ष्यामि विष्णुपूजाविधिं परं” इत्यादि स्मृतिभिश्च प्रतिपादितं पूजनं विहितं। तत्र शतृप्रत्ययेन यावज्जीवं भगवदर्चनं ज्ञापितं। “तस्यविष्णोः पदं गच्छे” दिति “तद्विष्णोः परमम्पद” मिति तस्य पारम्यश्रवणात्तथाग्रहणं। अन्यत्र च श्रूयते __“सोनध्वनः पार माप्नोति तद्विष्णोः परमं पद” मित्यादि। भगवान् विखनाः प्राह तद्विष्णोः परमम्पदं गच्च तीति विज्ञायत” इति। आनुशासनिके “ओ मित्येकाक्षरं ब्रह्मय त्त त्सदसतः परं, अनादिमध्यपर्यन्तं कूटस्थ मचलं ध्रुव” मित्यारभ्य “अप्रमेय मनिज्ञेयं ‘हरिं नारायणं प्रभुं कृत्वाञ्जलि श्शुचि र्भूत्वाप्रणतः प्रयतोकार्बय इति। महादेवं प्रति सनत्कुमार वचनं ___“वेदोक्तेनैव मार्गेण।।। सायुज्यं यान्ति ते मम, तस्मा द्यावज्ञनो जीवेत् तावत्सम्पूजये द्धरिं। पापैर लिप्यते मरो हरिमन्दिर माप्नुया” दिति।
जननं।
ननु “ब्रह्म विष्णुरुद्रेन्द्रा स्सम्प्रसूयन्ते” इति विष्णोरपि ब्रह्मादीना मिव जनन मुच्यते, तत्कथं तस्य नित्यत्व? मिति चे, दुच्यते - अत्र विष्णोस्सम्प्रसूति र्नाम स्वेच्छय्यावतारः, नतु श्रुत्यन्त रेषु यथा ब्रह्मरुद्रादीनां श्रूयते, न तथाविष्णोः। “स्वेदा द्रुद्रोकजायत” इत्यादय शृतय स्सन्ति, ता इह विस्तरभिया नोदाप्रियने। किञ्च विष्णुसम्बन्धिपदस्य परमत्वं नित्यत्वं च बह्व्य श्शुृतयो वदन्ति, ताश्च। तथा तत्पदस्य नित्यत्व सति तस्य कथ मनित्यता मनुन्मत्तो ब्रूयात् तत्पदप्राप्ति रेव मुक्ति रीति घुष्यन्ति श्रुतय स्स्मृतयश्च “सोकध्वनः पारमाप्नोति तद्विष्णोः परमं पदं” “तद्विष्णोः परमं पदं” “यद्दत्वान निवर्तन्तो” इति, श्रीविखनस्सूत्रभाष्ये श्रीश्रीनिवास वेदानदेशिक एवं लिखति _“ननु अर्चिरादि मार्गस्य ब्रह्म विद्विषय त्वात्, आहिताग्नित्व मात्रेण ब्रह्मवित्वासम्भवात्, अर्चिरादि मार्गः कथ मत्रप्रतिपाद्यत? सत्यं “अग्नयो वैत्रयी विद्या देवयानः पन्था
इति चेत्
चतुर्थाधिकारः
93
गार्हपत्य ऋक्सृथिवी” तीगार्ह पत्यादीनां देवयानमार्गश्रवणात्, “अमूर्तं च समू र्तञ्च द्विविधं कर्मवैदिकं, अमूर्ताकग्न्याहुतिः प्रोक्तासमूर्तं बेरपूजन” मि त्यमूर्तभगवदाराधन रूपत्वात्, “मानसी होम पूजा च बेरपूजा च सा, त्रिधा” इति त्रिविधो पासन प्रतिपाद नात्, “यत्सूत्राद्यन्तमध्येषु गीयते विष्णु रव्ययः” इत्युव क्रमोपसंहारादिखण्डेषु “नारायण परायणो निर्दन्द्वो मुनि” रिति __“सदाध्यात्मरतो ध्यानयोगी नारायणं परं ब्रह्म पश्यन् थारणान्धारयेदक्षरं परं ब्रह्माप्नोति नारायण परम्ब्रह्मेतिश्रुति” रिति। अन्यत्र “य दतीन्द्रियं सर्व जगद्बीज मशेषविशेषं नित्यानन्द ममृतपानव त्सर्वदा तृप्तिकरं परञ्ज्योतिः प्रवेशक मिति विज्ञायत” इति। “यतो चा इमानी” त्यादिना जगत्कारण त्वेन प्रसिद्धं “सत्यं ज्ञान मनन्तं ब्रह्मे त्यादि ब्रह्म स्वरूपशोधकवाक्यप्रतिपन्न सत्यत्वादि विशिष्टं “नारायणपरं ब्रह्मे” त्यादि वाक्यैः परं ब्रह्म परन्तत्त्वपरञ्ज्योतिः परमात्मा दिशब्दवाच्यं श्रीमन्नारायण मेव श्रवणमनननिधि ध्यासनादिभि श्रोतव्यत्वेन मन्तव्यत्वेन ध्यातव्यत्वेनोपा यत्वेन च प्रतिपादयतियत्, श्रीमत्तद्वैखानसूत्रो क्तधर्मानुष्ठातुर्बह्म प्राप्ति रनिवार्येति कृत्वा सङ्कोचे नार्चि रादिमार्गः प्रतिपादितः” श्रीभाष्येच __“विद्याशब्देन भगवदाराधन मेवोच्यते।” इत्यादि पुनस्ततैव “ननु योगमार्गेण त्यक्तु मसमर्थस्य ब्रह्म विद स्सु षुम्नया नाड्योतमणं कथंसम्भव? तीतिचे, दुच्यते “तदेकोग्र ज्वलनं तत्तकाशितद्वारो विद्या सामर्थ्यात् शेषगत्यनुस्मृतियोगा च हारानुगृहित शताधिकया” इति वेदा नसूत्रे उत्तमब्रह्म विद्यासामर्थ्यात्। उत्तम ब्रह्म विद्यानाम तत्समाराधनम्। तच्छेषः _“यथेष्टविनियोगार्धं शेषशब्दिन कथ्यते” इत्यादिना। “समाराधन प्रसन्न भगवदनुगृहीत स्सुषुम्नया ब्रह्मनि द्गच्छति” ति प्रतिपादितम्। एतत्सूत्रा र्थशि भाष्येक स्मदाचार्यै र्विवृतः। यथा ___“तदाराधन शेमुष्या तदङ्गस्मरणेन च, प्रीतेन वेङ्कटे शेन
94
उत्तम ब्रह्मविद्यासारः
पूजा
जीवोनु ग्रहवां सया। तत्प्रकाशिततद्द्वारो नाड्या त मदिगच्छती” ति। ननु मैत्रेयोपनिषदि _“मन्मायया मोहितचेतसो मामात्मान मा पूर्णमलब्धवस्तः परं विदग्ध्यदरपूरणाय भ्रमन्ति काका इव सूरयोकपि।। पाषाण लोह मणिमृण्मयविग्र हेम पुनर्जननभोगकरी मुमुक्षोः, तस्माद्यति सस्वहृदयार्चन मेव कुर्या दाह्यार्चनं परिहरे दपुनर्भवाय” इत्यभिधाना दाह्यार्चनस्य जन्म हेतुत्वेसति कथं मोक्ष हेतुत्व? मितिचे, दुच्यते इयं श्रुतिः केवलमात्मानु भूति रूपमोक्षाभिलाषि विषया। ततै वाग्रेश्रूयते __“अहमस्मि परं चास्मि ब्रह्मास्मि प्रभवोःस्म्यह” मित्यारभ्य ध्यातृ ध्यान
ध्यान विहीन्योस्मि ध्येय हीनोकस्मि
ध्येय हीनोकस्मि सोकस्म्यहं, सर्वपूर्णस्वरूपोस्मि सच्चि दानन्दलक्षण” इति। “जगद्व्यापारवर्थ्यं भोगमात्र साम्य लिङ्गाच्चे” ति सूत्रो क्तविधया भगवत्पदप्राप्ति रूपमोक्षेतु भगवदाराधनस्य परमोपायत्व मुन्नेयं। य दीयं श्रुतिः सर्वविधमोक्षेकपि भगवदाराधनं निषेधति, अस्या बहुश्रुति स्मृतिविरोधस्स्यात्। तथाहि _ब्रह्मविद्योपनिषदि “सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चये” दिति। अत्रार्चये दिति बाह्यार्चन। मेव विधीयते। अर्चनशबो निरुपाधिको बाह्यार्चन मे वाभिधत्ते। अत एव हृदयार्चने “देहो देवालयः प्रोक्त स्सजीवः केवल श्शिवः, त्यजे दज्ञाननिर्माल्यं सोहम्भावेन पूजये” दित्यादिना देहादीनां देवालयत्याधिकं कल्प्यते। अथवालनु दितहोम विधौ उदितहोमनिन्दावत्, प्रतिमार्चनस्य पुनर्जन्म हेतुत्वरूपनिन्दा बोध्या। श्रीरामोत्तरतोपन्यां श्रीराम वचनं “अहं सन्निहित स्तत्र पाषाणप्रतिमादिषु, क्षेत्रेस्मिन् यो र्भये द्भक्त्या मनेणानेन मांशिव। ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि माशुच” इत्यारभ्य “ददात्यायुष्य मैश्वर्यमने विष्णुपदं च
विष्णुपदं च य”दिति। भगवत्प्रति मार्चनस्य मोक्षोपायत्वे बह्व्यळ्ळुृतयः पूर्वमुदाहृताः। अतो कत्र प्रतिमार्चननिषेधो मुमुक्षूणां देवतान्तर प्रतिमार्चन विषयः। यथा तेषां नामकीर्तननिषेधो नारायणेतर देवतानामकीर्तनपरः। भगवा
चतुर्थाधिकारः
स
95
नप्याह“मद्याजीमां नमस्कुरु, मामेवैष्य” नीति। तत्पदं प्राप्तस्य पुनरावृत्तिराहित्यं स एवाह “यद्दत्वा न निवर्तने तद्दाम परमम्ममे ति। नम श्शौनकाये” ति भगवता बोधायने नापि नमस्कृत श्शानकश्चाह __“यज्ञेशो यज्ञपुरुषः पुण्डरीकाक्ष सञ्ज्ञितः, स विष्णुः परमं ब्रह्मयतो नावर्तते पुन"रिति “यादृशेतु मनस्सैर्यं रूपे बध्नाति चक्रिणः, नृसिंहवामनादीनां तादृशं कारये द्भुधः सुरूपां प्रतिमां विष्णोः।।। ब्रह्मरूपिणी मिति। शानके नापि भगवद्विखनो भृग्वादिपरम्परया भगवदाराधसमधिगत मिति पूर्वमे वाभिहितं। अत्र बह्व्यस्स्मृतयः पूर्वं प्रदर्शिताः।
योगनिष्ठाना मपि भगवदाराधन मावश्यक मित्यवगम्यते। योगशास्त्रि नियमविधौ तस्यगृहीतत्वात्। त्रिशिखब्रह्मणोपनिषदि “ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः, क्रियायोग मथेदानीं श्रुणु ब्राह्मणसत्तम। अव्याकुलस्य चित्तस्य बन्धनं विषयेक्वचित्, यत्सयोगो द्विजश्रेष्ठन चद्यैविध्य मश्नुते। कर्म कर्तव्य मित्येव विहिते स्वेव कर्मनु, बन्धनं मनसोनित्यं कर्मयोग स्स उच्यते। यत्तु चित्तस्य सतत मरे श्रेयसि बन्धनं, ज्ञानयोग स्स विज्ञेय स्सर्वसिद्धिकर श्शिवः यस्योक्तलक्षणे योगे द्विविधेकप्यव्ययं मनः, स याति परमं श्रेयोमोक्षलक्षण मञ्जसा। देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः, अनुरक्तिः पठेतत्त्वे सततं नियम स्स्मृत” इत्यारभ्य “तपस्सं तुष्टि रास्तिक्यं दान माराधनं हरेः, वेदान्त श्रवणं प्राश्च जप इत्यादिलक्षण” मिति। शाट्यायनीयोपनिषदि “त्रिदण्ड मुपवीतं च वासः कौपीन वेष्टनं, शिक्यं पवित्रमि त्येतदि भया द्यावदायुष"मिति, ततैव __“पञ्चयज्ञा वेदशिरः प्रविष्टाः क्रियावन्तो कवि ब्रह्मविद्या” मिति। पञ्चयज्ञा नामततै वाच्यन्ते दशभिः प्रणवैस्सप्त व्याहृतिभिश्चतुष्पदा, गायत्री जपयज्ञश्च त्रिसन्धिं शिरसा सह। योग यज्ञ स्तदेकाग्र्यभक्त्या सेवाहरे र्गुरोः, अहिंसा तुतपोयज्ञो वाङ्मनः कायकर्मभिः सामोपनिषदभ्यास स्स्वाध्यायो यज्ञ ईरितः। ओ मित्यात्मान मव्यग्रो ब्रह्मण्यग्नॊ जुहोति तत्। ज्ञानयज्ञ स्सविज्ञेय स्सर्व यज्ञोत्तमोत्तम” इति। अत्र
96
उत्तम ब्रह्मविद्यासारः
सेवाशब्दान भगवदाराधन मेवोच्यते। गुरोस्सेवा नाम शुश्रूषा। मैत्रेयोपनिष द्यपि प्रतिमाराधन मुक्तमेव परं तु भोगसाधन मित्यभिहितं। हृदयार्चनं मोक्षसाधन मित्युच्यते। तस्य विषयान्तरत्वं बोध्यं। अन्यथा बहुश्रुतिस्मृति श्रीशास्त्रपुराणेषु भगवदाराधनस्य मोक्षोपायत्व कथनवैयर्थापत्तेः।
जन्म-सिद्ध-परमैकान्तित्वम्
श्री-वैखानसानाम् एवाजन्म-सिद्ध-परमैकान्तित्वम्॥
कथ्यते श्रीवारा हे एकान्तयाजित्वं बहुजन्मसुकृतलभ्यमिति वर्णाश्रमाचारपर स्पप्तजन्मानि यो द्विजः, एकान्तसूर्यभक्त स्स्यात्स विप्रस्सप्तजन्मनु। ततस्तु पुण्यमाहात्म्या द्रुद्र भक्तो भविष्यति, तथैव सप्तजन्मानि शिवभक्ति परायणः। महतातेन पुण्येन वैष्णवत्वं लभेत सः, विष्णुभक्तिपर सद्वत्सप्तजन्मानि मानवः। एकान्त भगवद्वाजी विप्रो भागवतान्वये, तत स्सलभते जन्म देवै रत्यन्त दुर्लभ मिति। भागवतान्वय इत्यत्र भागवतशब्देन श्रीवैखानसा उच्यन्ते तेषा मेन स्वसूत्रसिदै कान्तभगव द्याजित्वसम्भवात्। एकान्त याजित्वं नाम नैयत्येन भगवदाराधकत्वं। श्री वैखानस सूत्रे देवतान्तराराधन निषेध पूर्वकं भगवदाराधन मेकान्त तया विहितं। आकरणे प्रत्यवाय श्चोक्तः। तेषां तधात्वं चाभि धीयते पौष्करसंहितायां “विप्रा वैखानसाख्या ये ते भक्ता सत्त्व मुच्यते, एकान्तिन स्सुस्वस्था देहान्तं नान्ययाजिन” इति। यजधातोः पूजैन मुख्यार्थ इत्युक्तं। कार्मे च “मच्चित्ता मद्दत प्राणामयि सङ्गतमानसाः, अनन्यशरणा राजन् तस्मा द्वैखानसावरा” इति श्री वैखानसाना मेकान्तित्व मुक्तं। भगवदेक परेण श्रीवैखानससूत्रेण संस्कृतानां श्रीवैखानसाना मेव भागवतशब्दवाच्यत्वं मुख्यत्वे नोपपद्यते। अतो भागवतान्वय श्रीवैखानसकुल मेव श्रीशास्त्रे भगवद्वाक्यं “मद्भक्तो वैष्णवो लोके गुरु र्भागवत स्स्मृतः, वैखानसो द्विजः कुर्यात्सर्वकर्माणि पूजित” इति। श्री वैखानसशाखायाः सर्वशाखामूलत्वं, श्री वैखानस महर्षि मतस्य श्रेष्ठत्वं च, सीतोपनिषदि श्रूयते “हरे र्मुखान्नादः, तन्नादा दिन्दुः, बिन्दो रोङ्कारः रामवैखानसपर्वतः तत्पर्वते कर्मज्ञानमयीभि त्परतो र्भहुशाखा भवन्ति,चतुर्गाधिकारः 97 ऋग्यजुस्सामरूपत्वात्रयीति। परिकीर्तिता” इत्यारभ्य “वैखानसमत सस्मिन्नाधौ प्रत्यक्षदर्शनं, स्मर्यते मुनिभिर्नित्यं वैखानसमतःपर” मिति __“वैखानसऋषेः पूर्वं विष्णार्वाणि समुद्भवेत्, त्रयी रूपेण सङ्कल्प्य इत्तं देही विजृम्भते। सङ्ख्यारूपेण सङ्कल्प्य वैखानस ऋषेः पुरा, उदितो यादृशः पूर्वं तादृशं श्रुणु मेनखिल “मितिचततैन। भगवदुपासकानां कामनया कामनयावा भक्ति युक्त तरं नित्यनैमित्तिक कर्मभि रग्नि होत्रादिभि र्वा। यमनियमासन प्राणायाम प्रत्याहार ध्यानधारणसमाधिभिर्वा, आलय गोपुर प्राकार विमानादिभिस्सह भगवद्विग्रहारापूजाकरणै रर्चनै स्स्नानादि भिर्वा, पितृपूजादिभि रन्न पानादिभिर्वा। भगवद्गीत्यर्थ मुक्त्वा सर्वं क्रियत इति, श्रीवैखानससूत्रे कर्मनु क्वचिदृचः, क्वचिद्य जूंषि, क्वचि त्सामानि, क्वचित् खिलाः विनियुज्यनै। अतो वैखानसशाखा सर्वशाखा मूलभूता। वैखानससूत्रस्य यजुश्शाखा सूत्रान्तर्गतत्वं तु तन्मन्त्राणां बाहुळ्येन विनियुक्तत्वात् इत्यवगस्तव्यं। अत एव वैखानससूत्रं षट्सु यजुस्सूत्रे ष्व न्यतम मिति वदन्ति, अन्यानि द्वादशऋक्सामादिसूत्राणि, “आहत्याष्टादशसूत्रा” णिति परिगणित माश्वलायनन। तेषु वैखानसं नारायणैकपर मिति दर्शितं। तत स्तत्सूत्रिण श्च नारायणपराणति। तेषां परमैकान्तित्वं यज्यते। तच्च तेषां स्वतस्सिद्धं। अन्येषां तु सम्पादनीय मिति स्फुट मेव। वैखानसाः पूर्वकाण्डम मूर्त भगवदाराधनं कुर्वन्ति, उत्तरकाण्ड मनैस्स मूर्त माराधयन्तिति विदितं। समूर्ताराधने औपनिषदा मन्त्रा एव तत्र विनियुज्यन्ते। यथा— “सहस्र शीर्षा पुरुष” इति “सहस्र शीरं देव” मिति “एकाक्षरं त्वक्षरे” त्यादि “वाग्ं सश्शुचिप” दिति “अणोरणीया” निति “भूतोभूते” प्विती “संयुक्त मेतत्र मक्षरं च व्यक्ताव्यक्तं भरते विश्व विशः। अनीश श्चात्माबुद्यते भोक्तृभावार् त्वा देवं मुच्यते सर्वपापै” रिति। अयंहि मन श्वेताश्वतङ्ग समानोकत्र विनियुज्यते। अतस्सोपनिषत् आपात रुद्रप रेव भा मानाकिपि भगवत्परा पर्यवस्य तीति भगवन्तो भृग्वादयो निर चैपु रिलि बोध्यते। तथा— 98 उत्तम ब्रह्मविद्यासारः “अभित्वा शूर नो मनोदुग्गा इव धेनवः, ईशानस्य जगत स्सुवर्णश मीशान मिन्द्रतस्थुषः तस्मादुच्यत ईशान” इति। मन एष त्वधर्वशिरसि सा चोपनिष त्पूर्ववद्भगवत्परेति ज्ञायते। किञ्च— “विश्वत श्चक्षु रुत विश्वतो मुख” इति तत्रत्यं वाक्यं भगवता मरीचिना भगवत्पारम्याभिधान प्रकरणे उदाह्रियते किमधिकेन? सर्वा उपनिषदः परमपुरुषपरा इति सिद्धं। श्री वैखानस्तोक्तं भगवदाराधनं वेदान्त मन्रो र्विहिततया वैदिक मिति च। तद्विधिना भक्त्या भगवदाराधकानां वैखानसानां परमात्मो पासकत्वं निर्विचिकित्सं। यच्चुतं परमात्मोपासकानां मोक्षरूपं फलं, तत्तेषां करस्थमेव। मोक्षश्च परमपुरुष पर स्साम्यप्रापत्ति रेव; तस्या स्संसारमोचन पूर्वकत्वात्, समस्तकर्मलेपत्यागपूर्वकत्वाच्छ मोक्षत्वव्यपदेशः स्रूयते पा— “निरञ्जनः परमंसाम्यमु पैती” ति। मुक्तस्य नित्यभोग स्सम्भवति; “भोगमात्रसाम्यलिङ्गा च्चे”ति भगवता बादरायणेन सूत्रितं। भगवान् विखनसोकप्याह— “नित्यानन्द ममृतरसपानव त्सर्वदा तृप्तिकर”मिति। सा ननु नारदपरिव्राजकोपनिषदि– “चक्री लिङ्गी वैखानसहरद्विजौ भृतकाध्यापक” इति सन्यासानधिकारि गणनायां चक्रधारिणो लिङ्गिनो वैखानसहरद्विजाश्च गृहीताः। तत्कधं तेषां श्रेष्ठत्व? मिति चे, दुच्यते— ह्युपनिषत्प्रतिमाराधनस्य जननभोग हेतुत्व प्रतिपादिकायाः पूर्व मुदाहृताया स्सखी। तप्तचक्राङ्किता वैष्णवा आगर्भवैष्णवा श्रीवैखानसा श्च कल्याणगुणनिधिं परमात्मानं नारायण मुफॊसतेहि। एतेब्रह्मण्योगुणित्व मपलपन्ति। सा कथं तेषां सन्न्यासेवनधिकारं नब्रूयात् तत्रहि- “अह मेवाक्षरं ब्रह्म वासुदेवाख्य मद्वयं, इति भावोध्रुवो यस्य तदाभवति भैक्षभु” गिति स्वात्मन एव वासुदेवत्वं निश्चिन्वता सन्न्यासः कर्तव्यतयाभि धीयते। अपिच,तत्रोच्यते—“नशिखं वपनं कृत्वा बहिस्सूत्रन्त्यजे द्भुधः, यदक्षरं ब्रह्मतत्सूत्र मिति धारये” दिति- चतुर्णाधिकारः 99 “कर्म ण्यधिकृता येतु वैदिके ब्राह्मणादयः, तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तद्धि वैदिकं। शिखाज्ञानमयी यस्य उपवीतं चतन्मयं, ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदु” रिति च— “न यते र्देवपूजानोत्सवदर्शनं तीर्थयात्रानिवृत्ति” रितिच। अतः पूर्वोदाहृताभिशुृतिस्मृतिभि र्भगवत स्सर्वाश्रमिसमाराध्यत्वं निश्चित्य त मर्चयतां श्री वैखानसानां सन्न्यासेकनधिकारं ब्रुव तीय मुपनिष दुपनिष दन्तर विरोधा द्विषयान्तरे योजनीया। यदि श्री वैखानस समूत्रिणां सन्न्यासेनाधिकारः, तल्लि तस्मिन् श्री विखनस्सूत्रे तुरीयाश्रम विधानं व्यर्थं भवेत्, विधत्ते हि भगवा स्वखनास्तुरीयाश्रमं विस्तरेण तत्सूत्रस्य भगवत्परतया। तत्सुत्रिणाञ्च भगवतियतम त्वेन च श्रेष्ठत्वं श्रुतिस्मृतिभिः च प्रतिपादितं सीतोपनिषदि— “वैखानस मतः पर” मिति— “वैखानसावा ऋषय इन्द्रस्य प्रिया आस” न्निति— “धृतोर्ध्वपुण्ड्रः कृत चक्रधारी विषं परं ध्यायति यो महत्मा” इत्यादिना चक्रधारिणां च माहात्म्य मुक्तं। अत स्तेषा मे तेषां च दूषण मत्रन सङ्गच्छते। अतो वैखानसानां स निषेध्योति वर्णाश्रम स्सन्न्यास विषयः यद्यपि वैखानससूत्रे तिवर्णाश्रमलक्षणमप्युक्तं; तथापि वैखानसानां त्रिदण्डसन्न्यास एव कार्य इत्यवगम्यते तस्मिन् त्रिदण्डिन एव विशिष्य चरमसंस्थिया विधानादिति। किञ्चतस्मिन् सूत्रे सन्न्यासधर्मविधौ— “सदाध्यात्मरतो ध्यानयोगी नारायणं परं ब्रह्मपश्यन् धारणां धारये” दिति सन्न्यासिनां नारायण परत्व मेव प्रतिपादितं। तथा— “सगुणे ब्रह्मणि बुद्धिं निवेश्य” ति भगवद्भक्ति र्विहिता। भगवान् मरीचिरपि सर्वाश्रमिसाधारण्येव “विष्ण्वर्चन मेव कर्तव्यं, नान्यथा परमपद प्राप्ति” रित्याह। श्रूयते च तथा साधारण्येन भगव E
सर्वाश्रमिभिर् विष्णोर् अर्चनीयत्वम्
दर्शनं “धृतोर्ध्वपुण्ड्रः पर विशितारं नारायणं पूज यत स्म भक्त्या, अर्घ्यादिभिः पौरुषसूक्तमनै स्सम्प्राप्नु याद्विष्णु पदं महात्मे” ति। श्रुति र्भगवदर्चने प्रमाण 100 उत्तम ब्रह्मविद्यासारः तया विमानार्चनकल्पे गृहीता। शानकोकपि तथातत्र— “प्रवःपान्त” मित्यादि श्रुतिं प्रमाणतया व्याहार्डीत्। क्वचि त्सन्यासिनां बाह्यार्चन निषेधो मानसार्चन प्रशंसार्थकः। बाह्यपूजाया मशक्ताना मेव केवल मानसपूजा कार्या, शक्तानान्तु तदुभय मपि कर्तव्यं। अत एव भगवता भृगुणा वासाधिकारे अन्तर्यागा दनन्तरं बहिर्यागो विहितः। इद मत्र बोद्ध्यं। अन्तर्वा बहिर्वाकसंहित फलं भगवदर्चनं पुनर्जन्मने भवति, अनभिसंहितफलं तन्मुक्तये कल्पते। अत ए वूच्यति— “मन एव मनुष्याणां कारणं बन्धमोक्षयो” रिति। इन्द्रियं हि द्विविधं परमेश्वरेण स्पष्टं, बाह्यमान्तर मिति। बाह्यं दशधा— त्वगादीनि पञ्चज्ञानेन्द्रियाणि वागादीनि पञ्चकर्मेन्द्रियाणि। अन्तरिन्द्रिय मेकं मनः, तत्र मनोमात्रेण सर्वेश्वराराधना पेक्षया करादिभि रवि तदाराधनं हि परं। अन्यथा करादि मत्तन्नोपयुज्यतेभगवति। उच्यते हि— “सा वा गनन्तस्यगुणा सृणित” इत्यादिना। भगवद्विषयोप योग एव तेषां साफल्यं। अत ए वाह श्रुतिरपि— “भद्रं कर्णेभि श्रुणुयानु देवा” इत्यादि। साक्षात्कृत परमात्मस्वरूपा अपि महर्षयः प्रतिमासु भगवन्त मारात्सुरिति जानीमः। तत्र— मरीचिरन्दरे विष्णु” मित्यादिकं पूर्व मुदाहृतं। यदि सन्न्यासिभिः, प्रतिमार्चनं नादर्तव्य मिति वचनं प्रमाणं, प्रार्तना श्रीमद्रामानुजमुनि प्रभृतयो यतयः प्रतिमायां कि मर्चयेयुः? न वाच्यं लोक सङ्ग्रहार्ध मिति; लोक सङ्ग्रहाय निषिद्धाचरण स्यानुपपन्नत्वात्। किञ्च सन्न्यासोपनिषदि “न परिव्राणाम सङ्कीर्तनपर” इति सङ्कीर्तननिषिध्यते। सन्न्यासिभि र्नारायणनामोच्चारणं कार्य मित्यत्र त दाचर्यते अस्मन् युगेनामोच्चारणा देव कलविधूनन मुच्यते कलिसन्तारणोपनिषदि— “आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निरुत कलिर्भवतीति। अत स्सन्न्यासिनां। बाह्यार्चननामकीर्त ननिषेधो युगान्तरविषयः। भगवत्यापि गीयते।—- “सततं कीर्तयन्तो मां उपासत” इति, न च शङ्क्यं वचन मिदं 44 चतुर्थाधिकारः 101 जिज्ञासुविषयं, न ज्ञानिपरमिति “चतुर्विधा भजन्ता मां जना स्सुकृतिनोकर्जुन, आर्तोजिज्ञासु रर्दार्थी ज्ञानि च भरतर्षभे” त्युक्तेः। सर्वज्ञे नापि शिवेन जपहोमार्चनानि कृता नीति श्रीरामोत्तरतापनीयोपनिषदि निगद्यते— “श्रीरामस्य मनं काश्यां जजाप वृषभध्वजः, मन्वन्तर सहस्रस्तु जपहोमार्चनादिभिः। ततः प्रसन्नो भगवान् श्रीरामः प्रॊह शङ्करं, वृणिष्व यदभीष्टं त दास्यामि परमेश्वर” इति। अन्यत्रच श्रीरामनामकीर्तनं भगवता रुद्रे णापि क्रियत इति समभिधीयते। भागवते च— “आकृश्य पुत्र मघवान्य दजामिळोकपि नारायणेति म्रियमाण उपैति मुक्ति” मिति। स्मर्यते च भगवत्कैङ्कर्यार्ध मेव करणसृष्टि रिति— “विचित्रा देहसम्पत्ति रीश्वरायनिवेदितुं, पूर्वमेव कृता ब्रह्मन् हस्तपादादिसंयुते” ति। अवधूतोपनिषदि— “अथना कृतकृत्योकपि लोकानुग्रहकाम्यया, शास्त्रीये दैव मार्गेण वर्षेहं मम काक्षतिः। देवार्चन स्नानशौचभिक्षादौ वर्तता वपुः तारं जपतु वार्तद्व त्परत्वाम्नायमस्तकं। विष्णुन्ध्यायतु धी र्यद्वा ब्रह्मानन्दे विलीयता” मिति। अनया श्रुत्यावनधूत स्यापि लोकानुग्रहाय देवार्चनं कार्य मित्युच्यते। अत्रदेव शब्देन नारायण ए वाभिधीयते। यतीना मितर देवार्चननिषेधात्; अनुपदं “विष्णुं ध्यायतु धी” रिति तस्यैव ध्येयत्वावगमाच्छ शाट्यायन—- “विष्णुक्रीडा विष्णुरतय” इति श्रवणाच्च। एवं चाव धूते नापि लोकानुग्रहाय वा, भगवद्ध्यानार्चनप्रणवजपानां कर्तव्यत्वे सति, तदितरै र्यतिभि नैयत्येन कार्या इति फलितं। अत्रार्चनस्य प्रणवजपभगवद्ध्यानाभ्यां सहपाठात् येषां प्रणवजपोस्ति, तै र्भगवा नर्चनीय इति सिद्ध्यति। शास्त्रीये णेति मार्गस्य विशेषणात् स्नानं शाचं भिक्षा प्रणवजपो वेदान्त चिन्तनं भगवतो ध्यान मर्चनं च यतीनां शास्त्रसिद्ध मिति चावगम्यते, क्रतु श्चाह— “ध्यायते कर्पयतेय्योन्यं विष्णुलिङ्ग मुपाश्रितः, कल्पकोटिशतैश्चापि गति स्तस्य न विद्यत” इति। आनुशासनिके त्र्यशीतिशततमाध्याये— “यज्ञेयं परमं कृत्य मनुमुप्लेयं महात्मभिः, सारं मे सर्वशास्त्राणां वक्तु मर्ह स्यनुग्रह” दिति 102 उत्तम ब्रह्मविद्यासारः युधिष्ठिरेण पृष्टो भीष्म आह— “श्रूयता मीद मत्यन्तङ्गूढं संसारमोचनं, श्रोतव्यञ्च त्वया सम्य गा तव्यं च विशाम्पते। पुण्डरीक्षः पुरा विप्र पुण्यतीर्धजलापुतः, नारदं परिपप्रच्छ श्रेयो योगिवरं मुनिं। “नारद श्चाब्रवी देनं ब्रह्मणोक्तं महात्मना।” नारदः— “श्रुणुष्वावहित स्तोत ज्ञानयोग मनुत्तमं। अप्रभूतं प्रभूतार्थं। वेदशास्त्रार्धसारकं। यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः, स एव सर्वभूतात्मा नर इत्यभिधीयते। नराज्ञातानि तत्त्वानि नारायणिति ततो विदुः, ता न्येव चायनं तस्य तेन नारायणस्स्मृतः। नारायणाजग त्सर्वं सर्गकाले प्रजायते, तस्मिन्नेव पुन पच्च प्रळये प्रविलियते। नारायणः परं ब्रह्म तत्त्वं नारायणःपरः, परा दपि पर श्चासौ तस्मा न्नास्ति परात्परं। वासुदेवं तथा विष्णु मात्मानं च तथाविदुः, सञ्ज्ञाभेदै स्स एवैक स्सर्वशास्त्राभिसंस्तुतः। आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः, इद मेकं सुविष्पन्नं ध्येयो नारायण स्सदा। तस्मात्वं गहना न्सर्वं स्यक्त्वा शास्त्रार्थविस्तरान्, अनन्यचेता ध्यायस्व नारायण मजं विभुं। मुहूर्त मपि यो ध्याये न्नारायण मतनितः। सोकपि तद्गति माप्नोति किं पुन स्तत्परायणः। नमो नारायणायेति यो वेद ब्रह्म शाश्वतं, अन्तकाले जपन्नेति तद्विष्णोः परमं पदं। श्रवणा न्मननाच्चैव गीतिस्तुत्यर्चनादिभिः, आराध्यं सर्वदा ब्रह्म पुरुषेण हितैषिणा। लिप्यते न स पापेन नारायणपरायणः पुनाति सकलं लोकं सहस्रांशु रि मोदितः। ब्रह्मचारी गृहस्थोपि वान प्रकथ भिक्षुकः केशवाराधनं हित्वानैव याति परां गतं। जन्मान्तर सहस्रेषु दुर्लभा तद्दता मतिः, तद्भक्त वत्सलं देवं समाराधय सुव्रत। नारदे नैव मुक्तस्तु सविप्रोभ्यर्चयद्दरि, स्वप्ने कपि पुण्डरीकाक्षं शङ्खचक्रगदाधरं। किरीटकुण्डलधरं लसचि वत्सकॊस्तुभं, तं दृष्ट्वा देवदेवेशं प्रणमन् सम्भ्रमान्वितः। अथ कालेन महता तथा प्रत्यक्षतां गतः, संस्तुत स्तुतिभि र्वेदैवगन्धर्व किन्नदैः। अथ तेनैव भगवा नात्मलोक मधोक्षजः, गत स्सम्पूजित स्सर्वै स्सयोगि निलयो हरिः तस्मात्त्व मपि राजेन्द्र तद्भक्तस्तत्परायणः, अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमं। अजर ममर मेकं, ध्येय माद्यन्तशून्यं सगुण मगुण माद्यं चतुर्थाधिकारः 103 स्थूल मत्यन्त सूक्ष्मं, निरुपम मुपमेयं योगि विज्ञानगम्यं त्रिभुवनगुरु प्रपद्यस्व विष्णु” मिति, ध्यानभक्तिभ्यां भगवदाराधनं मोक्षोपाय इ त्यवसितं। नच— “विष्णवे चार्चत” इत्यादिना मोक्षस्य नियोगसाध्यतया नित्यत्वप्रसङ्ग इति शङ्क्यं; प्रतिबन्धनिवृत्ति मात्रस्य नियोगसाध्यत्वात्। “प्रवः त मन्धसो धियायते महेशूराय विष्णवे चार्चत”। चकारसमुच्चित ध्यानसहिताराधननियोगस्य प्रतिबन्धकनिवृत्ति साधकत्वं तया श्रुत्यैवानगम्यते। अन्धसः अविद्यायाः, रक्षन्तं विष्णु मर्चतेति। अविद्यां निवर्त्य रक्षन्त मित्यर्थः। ल्य ब्लोपे पञ्चमि। स नियोगो ब्रह्म परोक्षज्ञानं जनयति। अतए वाह भगवान्मरीचि—- “तदाराधनेन जीवात्म परमात्मानं पश्य"तीति। इत्तं च सनियोगो ब्रह्मपरोक्षज्ञानफलकः, ज्ञानसाधनं, नियोगेन निर्मलं मनएव “मनसा तु विशुदेन” සුළු श्रतेः। एव मे श्रीरामानु जाचार्यैस्समन्वयाधिकरणे ध्याननियोग स्यापरोक्ष ज्ञान जनकत्वं, तेन शुद्धस्य मनसोकपरोक्षज्ञानसाध नत्वं च प्रत्यपादि। ध्यानमात्र स्यापरोक्षज्ञानजनकतया मोक्षोपायत्वे सिद्धे, तत्सहिताराधनस्य तथात्वं कैमुतिक सिद्धं।
शाण्डिल्योपनिषद् उपबृंहणत्वम्
शाण्डिल्योपनिष दधर्वणा शाण्डिल्या योवदि ष्टेति विद्मः। अत्राय मुपक्रमः— “शाण्डिल्यो हवा अधर्वाणं पप्रच्च” इति। तत्रा व्यधर्वशट्टिन भगवान् भृगुरेवोक्तः; यत श्शाण्डिल्योपनिषदुक्ता बहव्योर्धा श्रीशास्त्रि नासाधिकारे भृगुणा समुपबृंहिताः तथाहि तस्यामुपनिषदि— “अथ हैन मधर्वणं शाण्डिल्यः पप्रच्छके नोपायेन नाडय श्शुद्धा स्स्युः, नाडयः कति सङ्ख्याकाः”, इत्यारभ्य “अथेदं शरीरं षण्णवत्यङ्गुळात्मकं भवति” इत्यादिना नाडिस्वरूप मुच्यते। तथा नासाधिकारे— “यथा कुमुदोत्पलयो र्मूलानां कन्द माश्रयं, तथानाभि र्नाडी नामाश्रयस्थानं। तस्य नाभे रेवम्भूता द्विस प्रतिसहस्रनाडय” इत्यादिना तत्स्वरूप मुच्यते। 104 उत्तम ब्रह्मविद्यासारः तस्यां।— “दिना न पूजये द्विष्णं रात्रे नैव प्रपूजयेत्। सततं पूजये द्विष्णं दिवारात्रं नपूजये”दिति। वासाधिकारे — “नार्बये दह्नि रात्रा च बाह्याभ्यन्तरयो र्दरिं, सन्ध्या या मर्चये त्प्रज्ञ स्सूतक प्रेतकं विना” इति। अय मरः— इडा चन्द्रनाडि, पिङ्गळा सूर्यनाडि, इडायां नाभ् चरति रात्रिः, पिङ्गळायां दिवा, सुषुम्नायं सन्ध्या, इडा वामनासायं, पिङ्गळा दक्षिणवासायां, मध्ये सुषुम्ना, इत्याहुः। एतद्गुरुमुखा देयं। तस्यां— “अथ प्रत्याहारस्स पञ्चविधः। विषयेषु चरतामिन्द्रियाणां बला दाहरणं प्रत्याहारः। य द्य त्पश्यति तत्स्वरूपमात्मेति प्रत्याहारः। नित्यविहितकर्म फलत्यागः प्रत्याहारः” इत्यादि। श्रीशास्त्रे मरीचिसंहितायां योगकाण्डे— “अथातः प्रत्याहारः पञ्चधा भवति, इन्द्रियाणां सर्वेभ्यो विषयेभ्यो बला दाहरण, मात्मनि सर्वमा त्मवदीक्षण” मित्यादि। तस्यां— “अथधारणा,सा त्रिविधा; आत्मनि मनोधारणं, दहराकाशे बाह्याकाशधारणं, पृधिव्यप्तेजोवा य्वाकाशेषु पञ्चमूर्ति धारणं” चेति। श्रीशास्त्रि— “अथातो धारणान्यष्टधा भवन्ति, तेष्वात्म नियमादिगुणयुक्तं मनस हृत्पद्मन्तराकाशे बाह्याकाशधारणं, वृधि व्यादिमहाभूतेषु पञ्चनु देवानां पञ्चदारणानि। हृत्पद्ममध्ये परमानन्दविग्रहधारण मिति। पादादिजानुपर्यन्तं पृधिविस्तानं, तत्र लकार संयुक्तं वायु मारोप्यानिरुद्धमूर्तिं ध्यात्वा धारयेत्। पायोर्घृदयान्त मग्निस्थानं तत्र रेफयुतं वायु मारोप्य सत्यमूर्तिन्ध्यात्वा धारयेत्। हृदया द्रूमध्यान्तं वायु स्थानं तत्र यकार संयुतं वायु मारोप्यपुरुषमूर्तिं ध्यात्वा धारयेत्। भ्रूमध्यादा केशास्त्रं आकाशस्थानं तत्र हकारसंयुक्तं वायु मारोप्य विष्णुमूर्तिं ध्यात्वा धारये” दिति। तस्या मुपनिषदि— “अथ ध्यानं। तद्विविधं- सगुण ‘निर्गुणं चेति, सगुणम्मूर्ति ध्यानं निर्गुण मात्मयाधात्म्यं” इत्यारभ्य “अथा प्यस्या रूपस्य चतुर्णाधिकारः 105 ब्रह्मण स्त्रीणि रूपाणि भवन्ति— निष्कळं, सकळं, सकळनिष्कळं चेति। य त्सत्यविज्ञान मानन्दं निष्क्रियं निरञ्जनं सर्वगतं सुसूक्ष्मं सर्वतोमुख मनिर्देश ममृत मस्ति। तदिदं निष्कळं रूपं। अथास्यया सहजाकस्त्य विद्या मूल पकृति र्मायालोहित शुक्ल कृष्णातया सहजया देवः कृष्णपिङ्गलो महेश्वर ईष्टे तदिदमस्य सकळं रूपं। “अथैष ज्ञानमयेन यजमानो कामयत बहुस्यां प्रजाये येति, अथै तस्मात्तप्यमाना त्सत्य कामाश्री ण्यक्षरा ण्यजायन्त” इत्यारभ्य “अथास्य देव स्यात्मशक्ति क्रीडस्य भक्तानुकम्पिनो दत्तात्रेय रूपानुरूपा तनू रवासा इन्दीवर दळ प्रख्याचतुर्बाहु रघोरा पापनाशिनी तदिद मस्य सकळं रूप” मिति। अत्र महेश्वरशब्देन नारायण उच्यते यस्मान्महत ईश श्शब्दध्वन्या चात्म शक्त्या सर्वमिशते तस्मा दुच्यते महेश्वर इति वक्ष्यमाण त्वात्, दत्तात्रेयस्य भगवदात्मकत्वाच्च। वक्ष्यते हि— “अत्र ये उक्तकामा याति तरान्तुष्टेन भगवता ज्योतिर्मयेन आत्मै दत्तो यस्मा च्चानसूयायै मात्रे आत्रेय स्तनयो भवत् तस्मा दुच्यते दत्तात्रेय” इति। दत्ता त्रेयस्य नारायणात्मकत्वं दत्तात्रेयो पनिषदि स्फुटं प्रतिपाद्यते—। “ब्रह्मा विश्वरूपधरं विष्णुं नारायणं दत्तात्रेयं ध्यात्वे” ति। अल मप्रकृतेन। वासाधिकारे— “अव्ययस्यास्यरूपे तु आकाश स्योपम स्स्मृतः, एतैस्तु निष्कळं तस्य परमात्मेति कीर्त्यते। निष्कळं सकळं चेति निष्कळं सकळं त्रधा, सर्ववादस्तु सन्देहैः पूर्वपक्षन्तु निष्कळं। निष्कळं सकळं ब्रह्म इति शास्त्रस्य दर्शनं, निष्कळं पूर्व मेव स्या त्पश्चा त्सकळ मुच्यते” इत्यारभ्य “निष्कळा त्सकळो जात स्सर्वत्र परिपठ्यते, पुष्पे नष्टे फलं नास्ति तस्मा त्सकळनिष्कळ” इति केचि दह्मणः, केवलं निष्कळरूपं वदन्ति तत्पूर्वपक्षः सिद्धान्तस्तु— ब्रह्मणो निष्कळत्वं सकळत्वं चास्ति। तत्र निष्कळरूपं पूर्वं, सकळ रूप मुत्तर मित्यर्थः निष्कळ मेव ब्रह्म भक्तानुग्रहाय स्व भक्त भावना मनुसृत्य स्वैरं सकळं भवति त्यभिप्रायः। एवं चोपनिषत्सु योधर्व शब्दवाच्य स्सएव भृगुरिति, तेनैवोपनिष दरान्नी शास्त्रि 106 प्रतिपादिता उत्तम ब्रह्मविद्यासारः मवधीयते। පූර්ණ च स्फुट मवधीयते, यद्यपि त्रिशिख ब्राह्मणोपनिषदि— “पृथिव्यंशे तु देहस्य चतुर्भाहुं किरीटिनं, अनिरुद्दं हरिं योगी ध्योयते भवमुक्तये। अबंशे पूरये द्योगी नारायण मुदग्रधीः, प्रद्युम्न मग्नौ वा य्वं शे सङ्कर्षण मतःपरं। व्यूमां परमात्मानं वासुदेवं सदास्मरे” दिति धारणायां मूर्तयः प्रतिपादिताः तथा पिन विरोधः, वासाधिकारे वासुदेवादीनां पुरुषाध्यात्मक त्वस्य प्रतिपादितत्वात्। अत एव पाञ्चरात्रिणो पि– “वासुदेवाय पुरुषात्मनेनमः, सङ्कर्षणायसत्यात्मनेनमः” इत्यादिवदन्ति। दैविक व्यूहमूर्तयः पुरुषाद्याः, मानुष व्यूह मूर्तयो वासुदेवाद्या, इति तेषा मभेदो बोध्यः। इत्यलं प्रपञ्चेन। इति श्रीरामभद्रदासदासस्य श्रीवैखानसात्रेयकुल तिलक श्रीवरद राजसूरिनन्दनस्य श्रीकृष्णाम्बि कागर्भसम्भवस्यश्रीविखनसाचार्यचरणा रविन्दस्मरणजनितश्रीमन्नारायण पारम्यावगमस्य सुन्दर राजस्य कृति षूत्तम ब्रह्मविद्यासारे चतुरोधिकारः। श्रीरामभद्रः प्रियतां श्रीः107