उत्तम ब्रह्मविद्यासारः श्रीरस्तु श्रीनिवासायनमः उत्तम ब्रह्मविद्यासारः तृतीयाधिकारः
क्रीडा-शब्दार्थः
क्रीडा-शब्दस्यार्थान्तर-स्वीकारे ऽनुपपत्ति-कथनम्॥
ED
- “आत्मक्रीड आत्मरतिः क्रियावा नेष ब्रह्मविदां वरिष्ठ” इति श्रुतेः ठेचि देव माहुः स्वात्माभिन्ने परमात्मनि क्रीडा, नतु पुत्रादौ यस्य तथा रति र्यन्यतादृशः, क्रियावान् ज्ञानध्यानवैराग्यक्रियावान्, ब्रह्मविदां वरिष्ठ इति। त न्न मनोरमम्; ! अस्यामुपनिषदि बहुत्र जीवब्रह्मणोर्भेद एव प्रतिपाद्यते। तथा रूपवत्वञ्च [श्रु] “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिष स्वजाते" इति “समाने वृक्षेपुरुषो निमग्नोकनीशया शोचति मुह्यमानः, जुष्टं यदा पश्यत्यन्य मीश मस्य महिमान मिति वीतशोकः" इति। अयमर्धः अनीशया भगवदधीनत्वात् स्वय मसमर्थया, मायया मुह्यमानः, पुरुषो जीवः, शोचति। यदा जुष्टं समस्तसुरमुनिसेवितं, अन्यं स्वहृदया दाविर्भूत मर्चारूपिणं, ईशं नारायणं, “पतिं विश्वस्यात्मेश्वर” मिति श्रुतेः; पश्यति। तदास्य महिमानं च पश्यति, तदा वीतशोको भवतीति। “यदा पश्यः पश्यते रुक्म वर्णं कर्तार मीशं पुरुषं ब्रह्मयोनिं, तदा विद्वान् पुण्यपापे विधूय निरञ्जनं परमं साम्यमु पैति”। अयमर्थः। - यदा समाराधनकाले। पश्यतीति पश्यो जीवः, रुक्मवर्णं स्वर्णमयत्वात् स्वर्णालङ्कृतत्वाद्वा सुवर्णच्छायं, प्रतिमारूपं, ब्रह्मणश्चतुर्मुखस्य, योनिं जन्मकारणम्, पुरुषं, परम पुरुषं, पश्यते, तदा, पुण्यपापे विधूय, निरञ्जनः कर्मलेपरहितः, परमं साम्यं भगवत्सायुज्यं, उपैतीति। उच्यते महाभारते “सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणां, कृत्वाकु तृतीयाधिकारः 39 त्मनः प्रीतिकरीं सुवर्णरजतादिभिः, ता मर्चये त्ताम्प्रणमे त्तां स्मरेत्तां विचिन्तयेत्, विशत्यपास्तदोषस्तु तामेवब्रह्म रूपिणि” मिति – “प्राणो ह्येष य स्सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी, आत्मक्रीड” इत्यादि। अयमर्थः - एषप्राणः परमात्मा यः, सर्वभूतैः पाञ्चभौतिक शिलादिरूपेण उपलक्षित इत्यर्थः। विभाति विशेषेणाविर्चूय भाति। तं विजानन् विद्वान्, अतिवादी प्रतिमा रूपिणं भगवन्त मतीत्य पदतीति तधोक्तो, नभवते। नभवते, अयं परमातैवेति वदतीत्यर्थः, स; आत्मना परमात्मना, प्रतिमारूपिणा सह, क्रीडति पूर्वोक्तरीत्या विहरति, अनेन बाह्यकरण व्यापार रूपक्रियोक्ता। क्रीडा बाह्य, साधन, सापेक्षत्युक्तः केवलं बाह्य करणव्यापारेण किमपि न प्रयोजनं। अत आह - “आत्मरति” रिति। रतिर्नाम इच्छाविशेषः सा हि नाय कस्य नायिकायं, नायिकाया नायके वा यदि, काव्यनाटक योशृङ्गाररसस्य स्थायितां प्राप्नोति गुरुदेवता विषया यदि भक्तिनामा भावः। भक्तिस्साधन मुपासन मित्येते एकार्थका इत्याहुः एवं च रति र्मानसक्रिया सा तु बाह्यसाधन निरपेक्षा। उक्तरूप भगवद्विषयोभय क्रियावतो ब्रह्मविद्वरिष्ठत्वं युज्यते, उभयो रवि मानसत्वे पृथग्रहणं व्यर्थं स्यात्; स्यात्; रत्यपेक्षया क्रीडाया; क्रीडाया; क्रीडा पेक्षया रतेर्वा व्यतिरेकाभावात्। उभय क्रियावत्व मेव श्रेष्ठ मि त्याशये नाह भगवान् विखनाः - “भक्त्या भगवन्तं नारायण मर्चये” दिति। तत्रा प्यर्चये दिति साक्षाद्विपातत्वा दर्चनस्य प्राधान्यं। नच युगपध्यानार्चनक्रिययो स्सम्भवोन स्स्यादिति वाच्यं; ध्यानं नाम हि तदेकचिन्तनं। तस्य विषयान्तरवर्तित्वेलि बहिस्तदन्य विषया क्रिया सम्भव त्येव। कामिनी सदा जारविषय चिन्तन पराक्प गृहकृत्यं करोत्येव श्रूयतेहि - “योषा जार मिव प्रिय” मिति। तथा सति एक विषयमोर्ध्वानार्चन यो स्समं सम्भवः कथं नोप पद्यते ? उच्यते - “मां ध्यायन्त उपासत” इति। न च अस्तु नामनरूपं ब्रह्म। तेन सह मनसाकल्पितै स्साधनैः क्रीडा यदि
40 उत्तम ब्रह्मविद्यासारः श p तस्यात्मक्रीडत्वं भवत्येव, समर्थं बाह्यव्यापार? इति वाच्यं; भगवद्विषये केवलं मानसोपचारात्कायिकोपचारस्य श्रेष्ठ्य प्रतिपादनात्, उच्यते हि श्रीशास्त्रि भगवता भृगुणा - “मानसी होम पूजा च बेरपूजा त्रिधास्मृता” इत्यारभ्य “यथोपयोगशक्यत्वा त्कर्तुं पूष्पादि पूजनं, चक्षुषः प्रीतिकरणा न्मससो हृदयस्यच प्रीत्या सञ्जायते भक्ति र्भक्तस्य सुलभो हरिः, तस्मात्प्रयाणा मेतेषां बेरपूजा विशिष्यत” इति। भगवता चोच्यते भृगोश्च मुनिश्लेष्यं “महर्षीणां भृगु रह” मिति। मनः कल्पितद्रव्यै राराधनापेक्षया साक्षा दृव्यै राराधनं श्रेष्ठ मित्यत्र का विचिकित्सा? अत एव तत्तद्ग्रव्याला भे तत्तद्बुद्ध्या पुप्पै रर्चन मुच्यते। तेषा म व्यलाभे मनसा भावनं च विधीयते “श्रेयान् द्रव्यमया दृज्ञा द ज्ञानयज्ञः परन्तप" इति। अस्यार्थ एवमुक्तः उभयाकारे कर्मणा द्रव्यमयांशात् श्रेयानिति, अन्यधा “पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छती" त्यादि नोक्तस्य पत्रादिद्रव्यदान स्यात्यन्त प्रियत्वेन भगवदङ्गीकार प्रतिपादन विरोधः। मोक्षधर्मे- “याः क्रिया स्सम्प्रयुक्तास्स्युरेकान्तगतबुद्धिभिः, ता स्सर्वा श्शिरसादेवः प्रतिगृष्णातिवा स्वय” स्वय” मिति। सर्वविद्याप्रतिष्ठा ब्रह्मविद्या नाम परमात्म विषयजपहोमार्चन ध्यानात्मिका परे त्युच्यते, सै वोत्तम विद्या। इयं विद्या ब्रह्मणा प्रथम मधर्वाय प्रोक्तोति श्रूयते मुण्डोपनिषदि - “ब्रह्मादेवाना” मित्यारभ्य “अधर्वायज्येष्ठपुत्रायप्रा” हेति, ब्रह्मशब्द वाच्य एव विखनाविखनस इत्यादि शब्दानां चाभिधेय इत्युक्तं, अधर्वशब्देन भृगुमहामुनि रुच्यत इत्यवगम्यत इत्युक्तम्। आराधनात्मिका उत्तमब्रह्मविद्या विखनोः परनाम्ना ब्रह्मणा भृगु मुख्यभ्यः पुत्रेभ्य उपदि ष्टेति समवगम्यते। भागवते एकादश स्कन्धे सप्तविंशाध्याये भगवन्त मुद्दवः पृच्छति - “क्रिया योगं समाचक्ष्व भवदाराधनं विभो” इत्यारभ्य “निस्सृतं त्वन्मुखाम्भोजा द्यदाह भगवानजः, पुत्रेभ्योभृगुमुख्येभ्यो देव्यै च भगवान् भव” इति। अतो एवं तृतियाधिकारः च 41 वृद्धहारित स्मृतौ अष्टमाध्याये “अथ वक्ष्यामि राजेन्द्र विष्णुपूजाविधिम्परं, श्रातं महर्षिभिः प्रोक्तं वशिष्ठाद्यैः पुरातनैः। वैखानसै श्च भृग्वाद्यै” रित्यादि। ततैव - “पूर्वं विखनसे विष्णुः प्रोक्तवान् स्वयमच्युतः, भृगोः प्रोक्तं विखनसा भृगुणा ‘च ममेरित” मितिच। तथा विष्णुधर्मोत्तरे शौनकः “कथयामि यथापूर्व” मित्यारभ्य “ब्रह्मणो व्यक्तजन्मन” इत्यन्तं। श्रूयतेच तस्यां - “तस्मा दात्मस्थं ह्यर्चये द्भूतिकाम" इति - “क्रियवा नेष ब्रह्मविदां वरिष्ठ” इति च “नाय मात्माबलहीनेन लभ्यो नच प्रमादा तपसो वाप्यलिङ्गात्, एतैरुपायै र्यतते यस्तु विद्वान् तस्यैष आत्मा विशते ब्रह्मधाम" इति। अयमर्थस्स्फुटं पानस ब्रह्मणा सूत्रीकभिधीयते ‘नित्यं गृहे देवायतने वा भक्ता भगवन्तं नारायण मर्चये’ दित्यादिना। तदुपरिष्टमर्थं प्रपञ्चयन्ति श्रीभृग्वादयो महर्षयः। श्री शास्त्रि वासाधिकारे भृगुः - “वैदिके नैव मार्गेण मन्रोर्वेदोद्भवै। स्तथा समाहितमना भूत्वा पूजय न्विष्णु मव्ययं। तस्य विष्णोः पदं गच्चे” दिति। भृग्वादीनां महर्षित्वं, तेषां च भृगोर्मुख्यत्वं भगवतैवोच्यते - “महर्षय स्सप्त पूर्व” इत्यादिना “महर्षीणां भृगुरह” मित्यनेन च। किमधिकेन? मुण्डोपनिषदाद्युक्त परमात्मोपासनमेव श्रीविखनस भृगु मरीचि काश्यपात्रिभिः श्री वैखानसभगवच्चास्ते प्रपञ्चित मिति निष्कर्षः। किञ्च श्रीशास्त्रि वासाधिकारे भगवता भृगुणोच्यते “ममापि देवदेवेन ब्रह्मणा परमेष्ठिना, यदुक्त मनुमानार्थं पूर्व मेव प्रदर्शितम्” इत्यारभ्य “घण्टानिनादवत्पूर्वं प्रणवं सम्यगुच्चरेतो इत्यादि प्राणायामं विधाय “प्रणवोधनुश्शरोह्यात्मा ब्रह्म तल्लक्ष्य मुच्यते, अप्रमत्तेन वेद्दव्य” मिति। एतदुपनिषद्वचन मेव तत्र दृश्यते, भृगोत्प्रह्मणोपदेशाच्च। 42 उत्तम ब्रह्म विद्यासारः
पुरुषो नारायणः
उपनिषत्-प्रतिपादित-पुरुष-शब्दस्य नारायण-वाचकत्वम्॥
ननु - मुण्डोपनिषदि सरूपस्य ब्रह्मणः क्रियारूपमुपासनं विधीयत इति ब्रूषे ! अस्तु नाम, तदङ्गीकुर्मः; त न्नारायण विषय मिति कथ? मिति चे, दुच्यते ब्रह्मणाधर्वायो पदिष्ट मित्युक्तं। अधर्वापरनामधेयो भृगु रीति निर्धारितं। भृगुणाच नारायणोपासन मेव प्रपञ्चितं नान्यत् किञ्च तत्र श्रूयते “यथा नद्य स्स्यन्दमाना स्समुद्रेकस्तं गच्छन्ति नामरूपे विहाय, तथा विद्वा न्नामरूपा द्विमुक्तः परात्परं पुरुष मुपैति दिव्य” मिति। परः पुरुषो नारायण इति न विदितं के नानुन्नतैन ? “अथ पुरुषो हवै नारायण” इति श्रुत्या केवलं पुरुषशब्दा कपि नारायण वाचक इति ज्ञायते। अत्र च अत्र च “यदा पश्यः पश्यते रुक्मवर्णं कर्ताक मीशं पुरुषं ब्रह्मयोनि” मिति श्रूयते। श्रीशास्त्रे A “सुवर्णवर्णं रक्तास्यं रक्तनेत्रं सुभोद्वह" मिति भगवतस्स्वर्णव र्णत्वमुच्यते। पुनश्चात्रश्रूयते - “उपासते पुरुषं ये ह्य कामास्ते शुक्र मेत दतिवर्तन्ति धीरा” इति। आत्रोपासत इति भगवदर्चन मेवाभि धीयते। उपासनाशब्दः प्रायः कायिकक्रिया रूपसेवाया मेव वर्तत इत्युक्तं। शुक्र मतिवर्तनीति। न पुनर्जन्माप्पुवस्तीत्यर्थः। शुक्रं नाम जनन हेतुभूतं शुक्लं। छान्दग्येच पुरुषशब्दः परमपुरुष वाचक तयाश्रूयते – “य एषोवन्तरादित्ये हिरण्मयः पुरुष” ऐति। अस्य देवतान्तरपरत्वं न भवति; अग्रे - “कप्यासं पुण्डरीक” मित्यादिना तस्य पुरुषस्य पुण्डरीक समनयनत्व प्रतिपादनात्। षष्ठाध्यायान्तो भगवद्वचनं “योगिना मपि सर्वेषां मद्दते नान्तरात्मना, श्रद्धावान् भजते यो मां स मे युक्ततमो मत” इति। अनेन सर्वविध योगिभ्योक्प भगवत्प्रतिमान् राधन क्रियावत एव सर्वश्रेष्ठ्यं प्रतिपाद्यते। तथाहि - मद्दतेनान्तरात्मना मन्निषित मनसा, मयि निरन्तरं मनोनिवेश्यत्यर्थः, तथा वक्ष्यति - “मय्यावेश्य मनोये मां नित्ययुक्ता उपासत” इति अने नाविच्चिन्नस्मरण मुक्तं। श्रद्धावान् p तृतीयाधिकारः 43 मिति। न्यायेन मदाराधनोपयुक्त द्रव्यार्जने त्वरावान्, मां, भजते सेवते। सेवा नाम परिचर्या। अर्चन प्रणामस्तुत्यादिरूपाक्रिया। तां करोति, स मे युक्ततम इति। अत्रायं सङ्ग्रहः - निराकारस्य परमात्मनः स्वभक्तो पासनानुकूलतया स्वसङ्कल्पेन साकारत्व प्रमाण भूताश्र्शुतयः - “आदित्यवर्णं तमसस्तु पारे” “यदापश्यः पश्यते रुक्मवर्ल” मित्यादयः। रुक्मां स्वप्नधिगम्य" मन्वाद्यास्मृतयो बह्व्यः साकार स्यापि तस्य नारायण स्वरूपत्वे प्रमाणभूता श्रुतयः यथा पुण्डरीक मेवमक्षिणि" त्याद्याः। स्मृतयस्तु - “रुक्माभं स्वप्नधिगम्यं विद्यात्तं पुरुषं पर” मिति। परम पुरुषो विष्णु रीति सिद्धमेव। विष्णो रेव मुमुक्षुभि रर्चनीयत्वे श्रुतयः - “प्रवः पान्त मन्धन” इति। - “त मात्मस्थं । ह्यर्चये द्भूतिकाम” इति। अत्रात्म शब्देन हृदय मुच्यते। तत्रत्यः पुरुषो नारायणएव। कारकोपनिषदिच - “त मातृस्थं येक्नुपश्यन्ति धीरा स्तेषां सुखं शाश्वतं नेतरेषा” मिति। तत्रात्म शब्देन हृदय मेव गृह्यते। तत्रत्यः पुरुषो विष्णु रेवति स्फुट मव गम्यते। तत्रपूर्वं - “विज्ञान सारधि र्यस्तु मनः प्रग्रह वान्नरः, सोकध्वनः पार माप्नोति तद्विष्णोः परमं पद” मिति। “पुरुषान्न परं किण्चात्साकाष्ठा सा परा गति” रिति च विद्यमा नत्वात्। पुरुषशब्दवाच्यश्च नारायण एव; निरुपाधितया गृही तत्वात्। उच्यतेहि “भगवानिति यश्शब्द स्तथा पुरुष इत्यपि, निरुपाधि तु वर्तेते वासुदेव मलाशये।” इति। वासुदेवस्य हृदयेध्ये यत्वं ध्यानबिन्दूपनिषदि “अष्टपत्रं तु हृत्पद्मं द्वात्रिं शत्केसरान्वितं, तस्य मध्ये स्थितो भानु र्भानुमध्यगतश्शशी। शशिमध्यगतो वह्निर्वह्नि मध्यगता प्रभा, प्रभामध्यगतं पीठं नानारत्न प्रवेष्टितं। तस्य मध्यगतं देवं वासुदेवं निरञ्जनं, श्रीवत्सकौस्तुभोरस्कं मुक्ता मणिविभूषितं। शुद्धस्फटिक सङ्काशं चन्द्रकोटिसमप्रभं। एवन्ध्याये न्महाविष्णु” मिति। घुष्यते श्रुतिभि
। ततैन 44 उत्तम ब्रह्मविद्यासारः
p र्नारायणस्य स्पष्टं परमात्मत्वं; “नारायणपरम्ब्रह्म” इति “एकः पुरस्ताद्य इदं बभूव यतोबभूव भुवनस्य गोपाः, यमप्येति भुवनं साम्पराये सनो ह विर्हृत मी वायुषे त्तदेव” इति। अत्र देवशब्देन नारायणो भिधीयते। पूर्वत्र “यो ब्रह्मा ब्रह्मण उज्जहार" इत्यादिना रुद्रादीना मुक्तत्वात्। अतो नारायण स्यैवात्र जगत्कारण त्वाधिकं प्रतिपाद्यते। ननु श्रुत्यन्तरे एव केवलः" “शम्भु राकाश मध्ये।” “एकोरुद्रो न द्वितीयाय तस्थे’ इत्यादिना रुद्रस्य कारणत्व मभिधीयते। तत्कथं नारायणस्य कारणत्व? मितिचे, दुच्यते - तत्र शिवादशबै र्हरि रेव प्रतिपाद्यते। सत्वन्यः ; अन्यत्र हरे श्शिवादिकशबै- प्रतिपादितत्वात्। अतैप “शाश्वतं शिवमच्युत” मिति - “विश्वशम्भुव” मिति च वर्तते। रुद्रशब्दश्च तत्परतया नेतुं शक्यते। नच -“उमासहायं परमेश्वरं विभुं त्रिलचनं नीलकण्ठं प्रशान्तं, ध्यात्वामुनि र्गच्छति भूतयोनिं समस्त साक्षिं तमसः परस्तातो” इत्यत्र उमासहायत्वादीनां हरि परतया नेतु मशक्यत्वा द्रुद्र एव जगत्कारणमिति वाच्यं; तत्रापि नारायणस्यैव कारणत्व प्रतिपादनात्। तत्कथ? मिति पृच्चनि यदि समवधेहि। नीलकण्ठं ध्यात्वा तत्प्रसादेन तमसः परसाद्वर्तमानं हरिं गच्छति, जानातीत्यर्थः ; गत्यर्थानां धातूनां ज्ञानार्थकत्वात्। - “शङ्करादङ्ञानमन्विच्छे” दितिह्युच्यते। आनुशासनिके चतुश्चत्वारिंशा ध्याये - “आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौस्थितः, सङ्कर्षणो हं कारे च प्रद्युम्नो मनस्थितः। अन्यधा च चतुर्थाय तत्सम्य गोतु मर्हति, हिरण्यगर्भवी त्राभ्यो यत्र ब्रह्मा व्यजायत। ब्रह्मणश्चापि सम्भूत श्शिव इत्यवधार्यतां, शिवत्स्कन्द स्सम्बभूव एतत्सृष्टि चतुष्टयं” इति। किञ्च पुरुषसूक्ते - “आदित्य वर्णं तमस स्तु पारे” इति यदुच्यते तदेवात्र प्रत्यभिज्ञाप्यते। पुरुषसूक्त स्य नारायणपरत्वन्तु श्रुतिस्मृत्यादिभि स्सुस्पष्टमनगम्यते। तदपह्नोतु मनुन्मत्तः को वा प्रवर्तेत? इत्यलं विस्तरेण। भगवदर्चने स्मृतयस्तु « तृतीयाधिकारः 45 बह्व्याः। काश्चीदुदाहृताः, अपि च शौनकः - “श्रुतिषु प्रबला मन्त्रा स्ते ष्वव्यध्यात्मवादिनः, तत्रापि पौरुषं सूक्तं न तस्मा द्विद्यते परं। प्रायश्चित्ते जपे चैव विष्णो राराधनेषु च, मोक्षे वश्येकग्न्युपस्थाने सुपुत्रप्रापणे तथा। सर्वकर्म फलावाप्ता वारोग्येमृत्युनाशने, एते ष्वर्थे ष्विदं सूक्तं मुनयो विनियुञ्जत” इति। मुश्च पुरुषसूक्तस्य विष्णुपरत्वं ब्रवीति - “ब्रह्मयज्ञे जपन् सूक्तं पौरुषं चिन्तयन् हरिं, स सर्वां स्तू जपे द्विद्वान् साङ्गोपाङ्गान् द्विजोत्तम” इति। व्यासः - “तद्विष्णो रितिमन्डेण सूक्तेन पुरुषेण वा, अनादि मध्यनिधनं विष्णु माराधयेद्धरिं”। अपरार्के - “अष्टाक्षरेण देवेश मर्चये दच्युतं नरः,” हारीतः “द्विजः पुरुषसूक्तस्य विधिना विष्णु मर्चये” दिति। शाण्डिल्योपनिषदि “दिवान पूजये द्विष्णुं रात्रे नैव प्रपूजयेत्, सततं पूजये द्विष्णं दिवारात्रं न पूजये” दिति। अयमरः -नासिकाया दक्षिणे पिङ्गळा, तत्र चरति सूर्यः। वाम इडा, तत्रचरति चन्द्रः। यदा दक्षिणे वायु श्चरति तदादिवा, यदा वामे चरति तदा रात्रिः। मध्य नाडी सुषुम्ना, यदा वायु स्तत्र तदा न दिवा न रात्रिश्च, तदानीं दिति।
अर्चनस्य मोक्ष-फलत्वे श्रुतयः
- “उपासते पुरुषं ये ह्यकामास्ते शुक्र मेत दतिवर्तन्ति धीरा” इति। अत्रोपासनं नामार्चन मेव वक्तव्यं। पुरुष शब्दश्च नारायणपरः। अन्ये तु पुरुषं ब्रह्मविद मुपासते पूजयन्तीति व्याचक्षते। तन्न मनोरमं; पुरुष शब्दस्य ब्रह्मवित्परत्वे माना भावात्। किं च अकामैः परमपुरुष एव पूज्यः। तत्पूजनस्यैव शुक्रातिवर्तन साधनत्वं युक्तं। अय मरो भगवत्वैच्यते - “मय्यावेश्य मनो ये मां नित्ययुक्ता उपासत” इति। [श्रु] “नाय मात्मा बलहीनेन लभ्य इत्यारभ्य “विशते ब्रह्मधामे” ति। अत्रालिङ्गा ततिमारहिता त्तपसो ध्याना र्चन लभ्य इति। चार्णोयुक्तः। “तप आलोचन” इति उत्तम ब्रह्मविद्यासारः 46 धातो स्तपश्शब्दस्यध्यानपरत्वमुपपद्यते। उत्तरत्र « “एतैरुपायै र्यतते यस्तु विद्वा” निति च श्रूयते। उपायस्य प्रतिमार्चनादि रूपत्वं यथा युज्यते, न तथा न्य रूपत्वं, अर्चनस्य परमो पायत्वं हि मत्वा भगवान् विखनाः - “भक्त्या भगवन्त नारायण मर्चये त्तद्विष्णोः परमं पदं गच्छतीति विज्ञायत” इति ब्रूते, तस्या। सूत्रे श्रुतिप्रमाणंविना न कोपि विधि स्स्या दिति तत्सूत्र मामूलचूडं परशीलयतां विदुषां सुविदितं भवेत्। स हि महात्मा भगवदंशभूतः तच्छिष्यभूतो ए भृगुः सहि महर्षीणां श्रेष्ठ इति भगवतैवोच्यते “महर्षीणां भृगु रह" मिति। तस्य वैखानसत्वं हारीतोSप्याह - “वैखानसैश्च भृग्वाद्यै रिति इत्यल म प्रकृतेन।
परमात्मनो ऽर्चावतारे प्रमाणानि
अथ जन्म-रहितस्यापि परमात्मनो ऽर्चावतारे प्रमाणानि
श्रुतिः – “अजायमानो बहुधा विजायत” इति - “अवि स्सन्निहितं गुहाचरं नाम” इतिस्मृतिस्तु - “अजोनिपि सन्नव्ययात्मा भूताना मीश्वरोSपि सन्। प्रकृतिं स्वा मधिष्ठाय सम्भवा म्यात्ममायया” इति। अन्यत्र - “अर्चावताररूपेण लोकेकस्मिं श्चतुरानन, अवतारं करिष्यामि प्रिया लक्ष्म्या समन्वित” इति। प्रिया, भूम्येत्यर्थः।
शिलादि-प्रतिमा-तादात्म्ये श्रुतयः
अथ परमात्मनश् शिलादि-प्रतिमा-तादात्म्ये श्रुतयः॥
“यतो वीरः कर्मण्य स्सुदक्षो युक्तग्रावा जायते देवकाम” इति “पिशङ्ग रूप स्सुभरो वयोधा शृृष्टि वीरो जायते देवकाम” इति “शृष्टितु बलवान् बली”ति निघण्टुः। [श्रु] “अश्मान माघणं प्रपद्ये” इति “यदेवानां चक्षु ष्यागो अस्ति” ति। चक्षुषि देवाना मागो विष्ण्वादीन् देवान् दृष्ट्वाक्य नमस्कारादि रूपोक्पराध” इति माधवीयव्याख्या। वाराहपुराणे द्वात्रिंशदपचार कथने अप्रणामस्य अपराधत्व मुक्तं। प्रतिमारूपं विना देवानां दर्शना सम्भवाच्छुति रियं देवानां प्रतिमा रूपत्वे प्रमाणं। देवानां साक्षात्स्वरूप दर्शने को वा न प्रणमेत्।। तादृशाज्ञस्य कथं वातृतीयाधिकारः 47 देवदर्शनं स्यात्? यद्यपि विष्णुं विनाकन्येषां देवाना मर्चारूपे णाविर्भावे शक्तिर्नास्ति। तथा प्युपासकानुग्रहाय विष्णु रेव तत्तद्रूपे णाविर्भवति। अतएवोच्यते भगवता “कामै सैसैहर्हृत ज्ञानाः ww प्रपद्यन्तेनन्यदेवताः तं तं नियम मास्थाय प्रकृत्या नियता स्स्वया। यो यो यां यां तनुं भक्त श्शश्रद्धया वर्चितु मिच्छति। तन्य तस्याचलं, श्रद्धां ता मेव विदधाम्यह” मिति, स्मृतिस्तु “देवा नृषीन् मनुष्यांश्च पितॄन् गृह्याश्च देवताः पूजयित्वा ततः पश्चादृहस्थ श्शेषभुग्भवे” दिति। मानव्यः पूर्वमुदाहृताः। तत्र तत्रव्याख्यातृभिश्च देवताः पाषाणादीमयीः विष्ण्वादि प्रतिमा इति विष्णु प्राधान्येनाभिहितं। श्रूयतेच - “समाहित श्रद्धावि भूत्वे” त्यादि।
सन्न्यास्य्-आराधनम्
अथ सन्न्यासिनाम् अपि भगवद्-आराधने श्रुतयः॥
शाट्यायनीयोपनिषदि - “कुटीचको बहूदक श्चापि” त्यारभ्य “पञ्च यज्ञा वेदशिरः प्रविष्टाः क्रियावन्तो क्म ब्रह्मविद्या” मिति “विष्णुक्रीडा विष्णुरतयो विमुक्ता” इत्यादिश्च। अत्र विष्णुक्रीडा इति प्रतिमारूपे णैव विष्णुना हि क्रीडा सम्भवति। सा च तदुपचार रूपा। रतिर्नाम भक्तिः विष्णुभक्ति रहितस्य ब्रह्म विद्यायां नाधिकार इति श्रूयते अव्यक्तोपनिषदि “न चेमां ब्रह्मविद्या मश्रद्धधानाय ब्रूया न्नासूयावते नामाचानाय नाविष्णुभक्ताय नानृतिने” इति। हंसोपनिषदि - “अथनारदो भगवन्तं परिपृच्छती” त्युपक्रम्य “यतो ब्रह्मप्राप्यै यतते तस्माद्यतिः " इत्यादिना यति लक्षणं प्रतिपाद्य
योगिना “दिव्य सैद्धसुव्यक्तादिषु मदर्शनं विशिष्टम्भवती” त्युच्यते, श्रीशास्त्रि - “देवैः प्रतिष्ठितं दिव्यं ऋषिभिः कृत मार्षकं, पुराण सिद्धं पौराणं मनुष्यैर्मानुषस्थलं। भक्तानुकम्पया देवो यस्मि न्नाविर्भवे त्स्वयं, तत्स्वयम्भुव मुद्दिष्ट” मित्यभिधीयते। “सैदं पुराणसिद्धं। सुव्यक्तं। स्वायम्भुव मित्यर्थः। किञ्च मोक्षहेतुत्वं भगवद्भजनस्य। ज्ञानहेतुत्वं रुद्रभजनस्य च 48 श्रूयते गर्भोपनिषदि उत्तम ब्रह्मविद्यासारः “यदि योन्याः प्रमुच्येयं प्रपद्ये परमेश्वरं, भर्गं पशुपतिं रुद्रं महादेवं जगद्गुरु" मिति। अत्र जगद्गुरु मित्यनेन त स्याज्ञाननिवर्तकत्व मुच्यते; “गुशब्द स्त्वन्धकार स्स्यात् रुशब्द स्तन्निरोधकः, अन्धकारनिरोधित्वाद्गुरु रित्यभि धीयते” इत्युक्तेः। ततः “गर्भवासात्प्रमुच्येयं यदि विष्णुं भजे हृदि, नारायण मनामय" मिति। अत्रामृतप्रद मित्य नेन भगवतो मुक्तिदायित्व मुच्यते, किञ्च अनेकत्र विष्णुपदं प्राप्नोति मोक्षस्य भगवत्प्रप्ति रूपत्वमुच्यते कठोपनिषदि - “सोकध्वनः पारमाप्नोति तद्विष्णोः परमं पद" मिति। आत्मबोधोपनिषदि “तस्मादों नमो नारायणा येति मन्रोपासकः वैकुण्ठभुवनं गमिष्य" तीति। नारद परिव्राजको पनिषदि - “तद्विष्णोः परमं पदं यत्र गत्वा न निवर्तने योगिनस्सूर्यो न तत्रभाती” ति, गूढारुणिकोपनिषदि - “ॐ हि ॐ हित्ये तदुपनिषदं विन्यसे द्विद्वान् य एवं वेद इत्यारभ्य “तद्विष्णोः परमं पदं चक्षु राततं विष्णो स्सर्वतोमुखस्य इत्यारभ्य “विष्णो स्तत्पर मं पद” मिति। वराहो पनिषदि उपसंहारे - “तद्विष्णा।।।।।।। पद” मिति। शाट्यायनीयोपनिषदि - “विष्ण्वात्मिका विष्णु मेवापियन्ती” ति। मुक्तोपनिषदि - “यत्र कुत्रापि वा काश्याम्मरणेन महेश्वरः, जं दक्षिणक तु मर्तारं समुपादिशेत्। निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययं, तद्विष्णो।
मिति, महावाक्योपनिषदि – “ब्रह्मण्यभिध्यायमाने” इत्यारभ्य “एतदधर्व शिरोकधीयते।।।।।।श्री महाविष्णु सायुज्य मवा मवा प्नोति” इति। नादबिन्दूपनिषदि “मन स्तत्र लयं याति त द्विष्णोः परमं पद” मिति, शाण्डिल्योपनिषदि - “इडादि मार्गद्वयं विहाय सुषुम्ना मार्गेण गच्चे तद्विष्णोः परमं पद” मिति। मिति। अथवा भगवता विखनसाकभिहितेक प्रमाणान्तर विचारण? आदौ तस्मा देवहि समस्त वेदाभिव्यक्तिः तथा श्रूयते सीतोपनिषदि “वैखानसऋ षेः तृतीयाधिकारः 49 पूर्वं विष्णो र्वाणी, समुद्भवेत् त्रयीरूपेण सङ्कल्प्य वैखानसऋषेः पुरा, वैखानसमत सस्मि न्नादौ प्रत्यक्षदर्शनं, स्मर्यते मुनिभिर्नित्यं वैखानसमतः पर” मिति। विष्णोर्वागेव त्रयीरूपेण जाते त्यर्थः उच्यतेहि - “श्रुति स्मृति र्म मैवाज्ञे” ति भगवता। सहि भगवान् विखनाः प्राह कण्ठरवेण“नारायण मर्चये तद्विष्णोः परमम्पदं गच्छती” ति। किञ्च योगयाज्ञवल्क्यश्च वैखानसोक्त भगवन्मूर्ति :
गायत्र्या भगवत्-परत्वम्
प्रतिपादयतिगायत्र्यर्थनिरूपणे - “ईश्वरं पुरुषाख्यं च सत्य धर्माण मच्युतं, भर्गाख्यं विष्णु सञ्ज्ञं च ज्ञात्वाकृत मुपाश्नुत” इति। श्रीशास्त्रि पा पञ्चमूर्तयः प्रति पाद्यने विष्णुः पुरुष स्सत्य अच्युत अनिरुद्ध इति। भारते च युधिष्ठिरं प्रति भगवानाह - “विष्णुं च पुरुषं सत्यमच्युतं च युधिष्ठिर! अनि रुद्धं” च मां प्राहुर्वैखान विदो जनाः। अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिणः, वासुदेवं च राजेन्द्र सङ्कर्षणमथापि वा। प्रद्युम्नं चानिरुद्दञ्च चतुर्मूर्तिं प्रचक्षत” इति, तत्रेश्वर शब्दा नानिरुद्ध उक्त उक्त इत्यवगम्यते। विष्णुपुरुष सत्याच्युतै स्सह गृहीतत्वात्। गायत्र्यां भर्गाख्यया गृहितं विष्णुं पुरुषं सत्य मच्युत मनिरुद्धं च ध्यात्वा मोक्षं प्राप्नोतित्यंः। भर्गशब्द स्सान्तस्तेजः पर्यायः। सवितृमण्डले यस्तेजोमयः पुरुषोनारायण, तं धीमहि, ध्यायाम इत्यर्थः नारायणस्य सवितृमण्डलस्थितिः “य एषोकन्त रादित्ये” इत्यादि श्रुत्याभिहिता। विष्ण्वादि पञ्चमूर्तिनां स्वरूप मुच्यते वासाधिकारे “वृष्टिरूपेण सम्पन्ना मूर्तयः पुरुषादयः, एषां समष्टिरूपोयं भगवा” निति। उच्यते - “सर्वव्यापक शीलत्वा द्विष्णु रित्यभिधीयते, उषिता पूरने नेति पुरुषः परिकीर्तितः सकारो जीव निर्देश कारः परवाचकः, तयोस्संसर्गशक्ति र्य स्तस्मा त्सत्य उदाहृतः परमात्मा। अकारस्तु चकारो जीव” वाचकः, उकारः प्रकृति रेय स्तकारः काल उच्यते। तस्मादच्युत इत्युक्तः प्रवक्ष्यामि तथा परं, स्वैराचारो निरुद्धस्स्या
50 उत्तम ब्रह्मविद्यासारः न्मूर्तयः पञ्चकीर्तिताः पुरुषस्य तु पर्यायो वासुदेव इति स्मृत” इति। एतेन हि पूर्वं ईश्वर शब्दवाच्यत्व मनिरुद्धस्योक्तं सङ्गच्छते “ईश्वरोहि स्वैर चार” इति। एवं च गायत्री प्रतिपाद्या मूर्तय श्रीवैखानसे गृहीता इति विज्ञायते। भगवतो व्यूह स्वरूपं द्विविधं - दैविकं मानुषञ्चेति। तत्र दैविक मूर्तयः पुरुषादयो वैखानसे पाञ्चरात्रे तु मानुषमूर्तयः तथा चात्र यः पुरुष इत्युच्यते, सतत्र वासुदेव इत्यभिधीयते उक्तंहि “पुरुषस्यतु पर्यायो वासुदेव इति स्मृत” इति। अत्र सत्यः। तत्र सङ्कर्षण इतीर्यते। अत्राच्युत, स्तत्र प्रद्युम्न इति निगद्यते, उभयोर व्यनिरुद्ध एकसञ्ज्ञिक एव, विष्ण्वादयः पञ्चमूर्तय श्रुतिगृहीता एव। “तद्विष्णोः परमं पद” मित्यादिना विष्णुरुक्तः - “वेदाह मेतं पुरुषं महान्त" मित्यादिना पुरुषः कथितः, - “तत्सत्य मित्याचक्षते” “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादिना सत्यः प्रतिपादितः, “शाश्वतं शिव मच्यत” मित्यादिनावच्युतो गदितः। मुद्गलोपनिषदि - “त्रिपादि त्यनया प्रोक्त मनिरुद्धस्य वैभव” मिति। प्रणवस्य गायत्र्याश्च भगवत्परत्वा च्छी शास्त्रेकष्टाक्षर कल्प मिव प्रणवकल्पं गायत्रीकल्पं च प्रतिपाद्यते। जपरूपभगवदाराधनेच “सावित्रीपूर्व मष्टाक्षरं द्वादशाक्षर” मित्यभिधीयते। गायत्री प्रणवयो र्भगवत्परत्वं “त्रिपदां नाकथ सावित्रं तद्विष्णोः परमम्पडं, आवर्तये द्वा प्रणवं देवं वा संस्मरे द्धरिं” इति स्मृत्या चावगम्यते। अतो वैखानसं वैदिक मिति युक्तं। अत्र भगवदाराधन मन्हा स्सर्वे ऋगादयः, न तूद्धृताः
श्री-वैखानस-शास्त्रस्य परम-वैदिकत्वम्
उद्भता मन्हा हि तास्त्रिका इ त्युच्यं ते। उद्गार प्रकारस्तु “प्रणवं बिन्दु संयुक्तं नादान्तं तत्र योजयेत्, सर्ववर्णान्त संयुक्तं स्वरत्रययुतं बुधाःषान्तं लान्तयुतं जेयं सान्तं दीर्घयुतं क्रमात्, ऎवं क्रमेण चोद्धारसार्य पञ्चा क्षरस्यतु।" अयमर्थः तृतीयाधिकारः बिन्दु संयुक्तः प्रणवः 51 नान्तःपकारः, सर्ववर्णान्तःक्षकारः, स्वरत्रयं इकारः, तेन, संयुतः “क्षि” इति। षान्तःसकारः लान्तः व कारः तेन संयुतः “स्वा” इति। सान्तः हकारः, दीर्घयुतः “हा” इति। दीर्घयुतत्वं पूर्वत्र च योज्यं। अतः “स्वा” इति। एवञ्च “ॐ पक्षि स्वाहा” इति भवति। अनया, विधया, दर्शिता मन्ता उदृता उच्यन्ते। शैवे सुप्रगे चोक्तं - “सहस्रभूसुरा दूर्वे ग्रामे ब्रह्माङ्कणेषुव, वैखानसेन सूत्रेण निषेकादि सुसंस्कृतै- भार्गवादि महातन मनः भेदविवक्षितः, अनुद्धृतै र्मन्त्रगणै र्वेदवेदान्तपारगैः। क्रमाध्ययन सम्पन्नै स्साङ्गोपाङ्गै स्सुसंस्कृतैः, पञ्चमूर्त प्रकारेण प्रतिष्ठा प्यार्चये द्धरिम्। वैदिकं तदिति प्रोक्तं राजराष्ट्राभिवर्तन” मिति। हारीतस्मृति महर्षिभिः प्रोक्तं वसिष्ठाद्यैः पुरातनैः, वैखानसैश्च भृग्वाद्यै स्सनका द्यैश्च योगिभि” रीत्यारभ्य “श्रातेनैव हरिं देव मर्चयन्ति मनीषिण” इत्युच्यते। एवं वचनशतेन भगवदाराधनं वैदिकं श्रेष्ठमिति। वैखानसं वैदिक मिति चावगम्यते। विस्तरभिया तानि नोदाप्रियने। अत एव वैदिक विधिना भगवन्त मर्चयतां वैखानसानां विप्रश्रेष्ठत्व मुच्यते योगयाज्ञवल्क्यस्मृतौ - “वैखानसो वैदिकेषु ब्रह्मनिर्दिष्ट माचरेत्, तं ब्राह्मणं तु दृष्वैव सर्वपापं व्यपोहती” ति। ब्रह्मनिर्दिष्टं ब्रह्मणा विखनसापरनाम्ना निर्दिष्टं, सूत्रेविहित मित्यर्थः। यः पुरा चतुर्मुखो भगवदाराधन शास्त्राधिगमाय महर्षिरूपेण नियतव्रतो नारायण मुद्दिश्य तप सप्त्वा प्रसन्ना तस्मा दवाप्तमनोरथ स्तन्मुखा दृथाश्रुतं श्रीशास्त्रं निर्माय भृग्वादिभ्य उपादिशत्। स एव विखनो विखनस वैखानशब्द वाच्य इति बहुभिर्यन्थै रवगम्यते। स तु सर्वमुनीना माद्य, सत्कृतसूत्रञ्च सर्वसूत्राणा मादिरिते च बहुभिः प्रमाणैर्हा यते। ब्रह्मकैवर्ते “यथा मुनीनां विखना आदिभूत उदाहृतः, सूत्राणां ततणितं तु यथा श्रेष्ठतरं स्मृतं” इत्युच्यमे सा “वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान्, पद्म भूष वरमोधाते” 41923, 52 उत्तम ब्रह्मविद्यासारः “वेदानां व्यसनात्पूर्वं प्राग्रूपं मिळितन्तु यत्, तां तु वैखानसीं शाखामिति वेदविदो विदु” रीति। अलं प्रसक्तानुप्रसक्तचिन्तया।
प्रपन्नानाम् एव भगवद्-अर्चनाधिकारः
5 केचित्तु - “सर्वधर्मान् परित्य” ज्योति भगवद्वचनात् प्रपन्नाना माराधनं नावश्यक मिति मन्यन्ते, तत्तुछ्छं; प्रपन्नाना मेवाभिगमनोपादाने ज्यास्वाध्याययोगाः प्रातरादिषु पञ्चनु कालेषु वैखानसे पाञ्चरात्रे च विधेयत्ते। भार्गवे नासाधिकारे - “प्रातःकाले गमन मुपादानं ततःपरं, मध्याह्न इज्यां कुर्वात स्वाध्यायं चापराहके। योगं सायह्नकाले तु पञ्चकाल मुदाहृतम्” इति। पाञ्चरात्रे - “आद्यं कर्माभिगमन मुपादानं ततः परं, इज्या च पश्चात्स्वाध्यायस्ततो योगस्ततः परं” इत्यारभ्य। “इत्त मेतेषु कालेषु दर्शितैः कर्मभि र्नरः, आराधनं भगवतः कुर्वन्नै वावसीदति। वर्देषु द्वादश स्वेवमनुतिप्षन् समाहितः, क्रिया कलाप मखिलं याति सायुज्यसम्पदं। षट्सुवर्षेषु सारूप्यं त्रिषु निश्चितं, सालोक्यं फल मेकस्मिन् वत्सरे नात्र संशय” इति। एवं पञ्चकालपरत्वं प्रपन्नाना मेवहितं - “अभिगच्छन् हरिं प्रातः पश्चाद्रव्याणि चार्जयन्, अर्चयंश्च ततो देवं ततो मन्त्रान् जपन्नवि। ध्याय न्नपि परं। देवं काले सूक्तेषु पञ्चसु, वर्तमानस्सदा चैवं पाञ्चकालिकवर्त्मना स्वार्जितै र्गन्धपुष्पाद्यै श्शुभै श्शक्त्याल्नु रूपतः आराधयन् हरिं भक्त्या गमयिष्यामि वासरान्। ज्ञानी तु परमैकान्ती परायत्तात्मजीवन” इति। अत्रोक्तः परमै कान्ती प्रसन्न ऎव। तस्य पापञ्चकालपरत्व मभिधीयते। अतः प्रपन्नानामेवाराधनेकधिकार इति परमात्मि कोप निषद्भष्ये श्रीमत्प्रनि वासमभिवेदान्तदेशिकै स्सिद्धानः कृतः तथा श्रीवैखावससूत्रिणां विष्णुबल कर्मणा गर्भएव प्रपत्ति सिसिध्ध्यतीति च तत्तपञ्चस्तुततैव च द्रष्टव्यः। सर्वथा भगवदाराधनं विनान परमपद प्राप्तिः श्रूयते हि - “यथाक्रतु रस्मिन् लोके पुरुषो भवति त थेतः प्रेत्य भव” तीति। तथा श्रीविष्णुपुराणे - “एकान्तिनस्सदा ब्रह्मध्यायिनो योगिनो हि ये, तृतीयाधिकारः 53 तेषां तत्परमंस्थानं यद्वैपश्यन्ति सूरय", इति। आश्वमेधिके “वेदोक्तेनैव मार्गेण सर्वभूतहृदि स्थितं, मा मर्चयन्ति ये विप्रास्सायुज्यं यान्ति ते मम” इति। सर्वेश्वरः परमकारुणिकः पुरुषोत्तम स्स्वप्रियतमाय पार्थाय समस्त वेदान्तार्थानुपदिश्यान्ते स्वप्राप्तो सुकरं परमोपायं स्वप्रतिमार्चनं विधत्ते - “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु, मा मेवैष्यसि सत्यं ते प्रतिजाने प्रियोनस् मे” इति। अयमर्थ स्स्वरसः। मन्मनाः मयि परमात्मनि मनो यस्यतादृशो, भव! मयि तैलधारावदविच्छिन्नस्मृति सन्तानं कुर्वित्यर्थः तदा कर्ण्य “इन्द्रियाणि प्रमाथिनि हरन्ति प्रसभं मनः " इति - “बलवा निन्द्रिय ग्रामो विद्वांस मपि कर्त” तीति पूर्वमुक्तेः तथाविधस्मृति सन्तानस्य दुश्शकता मालोच्य “मद्भक्तो मद्याजी भव।” मयिभक्तिङ्कुर्वन्, मां यजति पूजय तीति मद्याजी, भवेति। मा मि त्यस्याय मर्दः, तत्काल तत्काल सन्निकृषै कलक्ष्यत्वा द्विभवात्मनाः। विशुधैर्योग संसिद्यै श्चिन्त्यत्वा दन्त रात्मनः, अर्चत्मन्येव सर्वेषा मधिकारो निरङ्कुशः”। इत्युक्त विधया सर्वसुलभ मर्चारूपं, प्रयतात्मन” इत्युक्त्या सुभोपास्यं मां, शङ्कमानं त “पत्रं पुष्पं इति। “श्रद्धावान् भजते यो मां समे युक्ततमो मत” अत्युक्त्या श्रद्धायुक्तः पूज येति। अथ पूजायां द्रव्यलोपादिना, शरीर मन शुद्धिहीनतया, मस्त्रलो पतन्तलो पाडिना, चापरधसम्भवशङ्कां कुर्वन्त माह “मां नमस्कु” र्विति। पूजान्ते - “पुरुषसूक्तेन संस्तूय प्रणामं कुर्या” दिति श्रीविखनसोक्ष्या प्रणामं कुरु, सर्वानपराधान् सोथार्स्क, तत्रमा विषादं कृधा इति। वासाधिकारे भगवान् भृगुराह “अतःपरं प्रवक्ष्यामि विग्रहाणां विनिर्णयम्, विग्रह श्चोपचारश्च भोग श्चैकार्थवाचकः” इत्यारभ्य “प्रतिभोगं नमस्कृत्य दत्वा पुष्पाञ्जलिं पुष्पाञ्जलिं तथा” इति। अतैव -“द्वात्रिंशद्विग्रहं वक्ष्ये” इत्यारभ्य “बलि प्रणामस्तुतय” इति। यथोपपत्ति । मर्चयित्वाव्न्ते क्षमस्वापराधा निति भक्त्या प्रार्धन् 54 उत्तम ब्रह्मविद्यासारः नमस्कुरु, समस्तमपराधं सहेय मित्यभिप्रायः। तदुच्यते श्रीपाञ्चरात्र रक्षायां श्री वेङ्कटनाथवेदान्त देशिकेन - “अज्ञाना दथवा ज्ञानादपराधेषु सत्स्वपि, प्रायश्चित्तं क्षमस्वति प्रार्थ नै कैव केवलम्” इति। - प्रसङ्गात्तदीय ग्रन्थांशाः केचिल्लिख्यस्त - “परस्मिन्” इत्यारभ्य “रूपिणीं” इत्यस्तं। यथा “परस्मिन् व्यूहाख्येविभवनिव हेर्चावतरणे तथाक्प्यन्तर्यामिण्य जहदधि कारादि नियमाः, निरुध्य स्वं चित्तं निरवधिमहानस्थजलधौ निर स्थान्यापेक्षा नयत सफलं काल मखिलम्”। एडु परव्यूह प्रभृतिषु चित्तालम्बनेषु प्रपत्ये कनिष्ठानाथमुनि प्रभृत यस्सुलभतम त्वेन परिपूर्णत्वाविशेषाच्छ समाहित चित्तानामप्यनु सन्धेय मर्चावतार मेव चेतन श्शुभाश्रयमालम्बन्त, “सर्वातिशायि षाड्गुण्यं संस्थितं मस्त्रबिम्बयोः” इत्यादीना तस्य परिपूर्णत्वं सिद्धं, श्री वैखानसेकपित दनुसन्धान स्यैव मुख्यत्वं प्रतिपादितं यथोक्तं। क्रीयाधिकारे “मानसी होमपूजाच” इत्यारभ्य “बेरपूजा विशिष्यत” इति। आह च भगवान् शौनकः - “सुरूपां प्रतिमां मेवब्रह्मरूपिणी” मिति - मुण्डोपनिषदि - “शौनको ह वै महाशीलो Sङ्गिर संविधिन दुपपन्नः पप्रच्छ” इति च श्रूयते, शौनकः सुरूपा मित्यादिना परमात्मोपासनं विधत्ते। पूर्वं विखवसापरनामा ब्रह्मा, अधर्वापरनाम्ने भृगवे, इमां विद्यामुपदिष्टवान्। स चाङ्गिरोनाम्ने मरीचय इत्युक्तं। ते च विशिष्य शाशास्त्रं प्रणिनिन्युः। अतस्सोपनिष ततिमार्चन रूपोत्तम ब्रह्मविद्याविधायिकेति स्फुट मनगम्यते। इत्यलं तद्विस्तरेख। यद्यपि “दुर्गसंसार कान्तार मपार मभिधावतां, एकः कृष्णनमस्कारो मुक्तितीरस्य देशिक” इति नमस्कारमात्रस्य मुक्ति साधनत्व मुच्यते; तथाकपि पूजाया आदा वन्ते च तस्य विधाना त्पूजाङ्गत्वं युक्तं। तत्फलमु व्यङ्गिफलं पुष्टाति। यथा भगवदाराधनस्य अङ्गीभूता भक्तिः परमप्राप्ति रूपं फलं। न च - तथा सति केवलनमस्कारस्य फलं नास्तिति शङ्क्यं; तस्य सर्वपापक्षयकरत्वात्। यद्वायथा केवला भक्तिः आमोदादि प्राप्तिं प्रति साक्षा दुपायभूता। वैकुण्ठप्राप्तिं प्रति परम्परया। तथा तृतीयाधिकारः 55 नमस्कृतिः केव लेति बोध्यं। पूजा ह परिपूर्ण शेषत्ववृत्ति ; औपचारिक सांस्पर्शिकाभ्यवहारिक मुख कैङ्कर्यसम्भवात्। ननु मन्वादिस्कृतिषु देवतासाधारण्ये नार्चनं विधीयते, तत्कथं विष्ण्वर्चन मेव कर्तव्य मि त्यभिधत्से? इति चेत्, श्रूयतां “गृह्याश्चदेवता” इति सामान्येन निर्देशेन प्राधान्येन भगवन्तं। तदङ्गतयाSन्यांश्च देवा नर्चये दित्यर्थ उपपद्यते; “अङ्गान्यन्या देवता” इति श्रुतेः। न च रुद्रः प्राधान्ये नार्च्य इति शङ्क्यं; तत्र तन्नि वेदितशेषभोजनस्याविहितत्वात्। बह्वृच परिशिष्टे - “पवित्रं विष्णु नैवेद्य” मित्यारभ्य “अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणं चरेत्।” इति भगवदितर निवेदित भोजनं निषिध्यते। अत एव तत्रतत्र व्याख्यातारो विष्ण्वादि रेवता इति व्याचख्युः। उच्यतेच - “अङ्गभावेन देवाना मर्चनं न निषिद्यत” इति - “स्वतस्त्र बुद्धा कुर्वन् पा ब्राह्मणोनरकं व्रजे” दिति। भगवत्पूजाङ्गतया देवतार्चनं न निषिद्धं। योगयाज्ञवल्क्यः “विष्णुरह्मा च रुद्र श्च विष्णु र्देवो दिवाकरः, तस्मा त्पूज्यतमं नान्य महं मन्ये जनार्दना” दिति भगवत एव पूज्यत्व माह। अनुशासनिके पुण्डरीक नारदसंवादे “ब्रह्मचारिगृह वा वान प्रकथ भिक्षुक्क, केशवाराधनं हित्वा नैव यातिपराङ्गति” मिति। न इति श्रीरामभद्रदासदासस्य श्रीवैखानसात्रेयकुल तिलकश्रीवरद राजसूरिनन्दनस्य श्रीकृष्णाम्बि कागर्भसम्भवस्य श्रीविखनसाचार्यचरणार विन्दस्मरणजनित श्रीमन्नारायण पारम्यावगमस्य सुन्दर रा जस्य कृति षूत्तम ब्रह्मविद्यासा तृतीया वीधिकारः श्रीरामभद्र पीयतां। 56