०२

बिम्ब-कॢप्ति-प्रकारः

अथादृश्यत्वादि-गुण-विशिष्टस्यान्तर-ब्रह्म-मूर्तेर् ब्रह्म-रुद्रादिभिर् अप्य् उपासितुम् अशक्यत्वात् तम् औपनिषदं वेषं विहाय सर्वेषाम् उपासन-योग्यतया ऽर्चा-रूपेणावतरतश् श्रीनिवासस्य बिम्ब-कॢप्ति-प्रकारः प्रतिपाद्यते। बिम्बं मण्डलं, तस्य कॢप्तिस् समर्थनम्, “कॢपू सामर्थ्ये” इति धातोः क्तिन् प्रत्ययः। अत्र बिम्ब-शब्देन मण्डल-स्थः पुरुषः प्रतिपाद्यते। कॢप्तिस् तद्-आकृति-निर्माणम्।

य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते

इति श्रुत्या सूर्य-मण्डले परम-पुरुष-स्थितिर् उच्यते। यद्य् अपि “तेनेदं पूर्णं पुरुषेण सर्वम्” इति सर्वत्र पुरुष-व्याप्तिश् श्रूयते तथापि तस्य विशेषेण सान्निध्यं स्थान-त्रये श्रूयते —

श्री-वेङ्कटेश-वैभव-वर्णनम्

अम्भस्य् अपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान्

इति। अपारे, अम्भसि महार्णवे, भुवनस्य मध्ये श्री-वेङ्कटाद्रौ, नाकस्य पृष्ठे परम-पदे च, महतो महीयान्, परम-पुरुषो वर्तत इत्य् अर्थः। तथोच्यते वाराहे च —

अंभस्य् अपारे भुवनस्य मध्ये नाकस्य पृष्ठे भुवि वेङ्कटाद्रौ

इति। भुवनस्य मध्ये इति श्रुत्य्-अर्थ एव भुवि वेङ्कटाद्राव् इति प्रकाशितः।

अरायि काणे विकटे गिरिं गच्छ सदान्वे।
शिरिम्बिठस्य सत्वभिः तेभिष्ट्वा चातयामासि

इति च श्रुतिः।

हे अरायि, ऐश्वर्य-रहिते, काणे, एकाक्षे, विकट-गिरिं वेङ्कट-गिरिं गच्छ, अरायित्वादि-हेतु-भूत-पाप-निवृत्त्य्-अर्थम् इति भावः। पारमात्मिकोपनिषदि —

[[P15]]

रयिः ककुद्मान् दधद्विनष्टं रयिमद्विधानं तस्मै ककुत्त्रे विकटाय पित्रे स्वाहा

इति। रयिः ऐश्वर्य-रूपः स ककुद्मान्, वृषभाचलवान् यद्वा — श्रेष्ठः, विनष्टं येन केन प्रकारेण यस्मै कस्मैचित् विनष्टं पदार्थं, वर-प्रदानादिना विदधत् प्रापयन्, रयिमद्-विधानं, [श्रु]

ऋचस् सामानि यजूंषि, सा हि श्रीर् अमृता सताम्

इति रयि-शब्देन वेदा उच्यन्ते। तद्वतां विधानं विधि-रूपो यः तस्मै ककुत्रे ककुदि स्थिताय विकटाय वेङ्कटेशाय, पित्रे, रक्षकायेत्य् अर्थः। यद्य् अपि विद्यन्ते बहूनि भगवत्-क्षेत्राणि भूमौ, तथापि श्री-वेङ्कटेशस्य दिव्य-मङ्गल-विग्रहत्वात् तत्-क्षेत्रस्य प्राधान्यम्। भविष्यत्-पुराणे श्री-वेङ्कटगिरि-माहात्म्ये —

चिरन्तनेषु क्षेत्रेषु मुक्ति-त्रयम् उदाहृतम्।
सायुज्य-मुक्तिर् आनन्द-प्राप्तिश् श्री-शैल-मस्तके॥

इति। मुक्ति-त्रयं सालोक्यादि-प्राप्य-रूपं, श्री-शैलः, वेङ्कटाद्रिर् इत्य् अर्थः।

भूगोल-मध्ये द्रविडेषु पुण्ये श्री-वेङ्कटाद्रिर् गतिर् एव नान्या

इति च। वाराहे —

याश् च सप्त-महा-पुर्यः कीर्त्यन्ते मोक्ष-दायिकाः।
ता वेङ्कटाद्रि-पर्यन्त-ग्राम-कोट्य्-अंश-शक्तयः॥

इति। वेङ्कटेशस्य वेदान्त-प्रतिपाद्यतया वेदान्त-भाष्यादिषु प्राक्तना आचार्याश् श्रीनिवासं तम् एवानुसन्दधते —

अखिल-भुवन-जन्म-स्थेम-भङ्गादि-लीले।
विनत-विविध-भूत-व्रात-रक्षैक-दीक्षे॥
श्रुति-शिरसि विदीप्ते ब्रह्मणि श्रीनिवासे।
भवतु मम परस्मिन् शेमुषी भक्ति-रूपा॥

इति,

निरुपम-गुण-सिन्धुर् नित्य-लक्ष्मी-समेतो
निखिल-निगम-वेद्यो निस्तुलो वेङ्कटेशः।
निज-चरण-समर्चा सक्त-भक्तौघ-रक्षी
निवसतु हृदये मे स्वाङ्घ्रि-भक्तिं वितन्वन्न्॥

इति। चक्षुराद्य्-अगोचरस्य ब्रह्मणः उपासन-शक्यताधिगमाय बिम्ब-कॢप्तिश् श्रूयते, कठोपनिषदि।

न सन्दृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा मनसाभिकॢप्तो य एनं विदुर् अमृतास् ते भवन्ति॥

इति। अस्य विष्णोः, रूपं, सन्दृशे सन्दर्शन-विषये, न तिष्ठति, अनेन तस्य रूपम् अस्तीत्य् अवगम्यते। कश्चिद् एनं चक्षुषा न पश्यति, तर्हि कथम् उपासितुं शक्यस् स्यात्? इत्य् अत्राह — हृदा परमात्मनो हृदयस्यैव श्रुति-रूपत्वात् श्रुति-प्रमाणेनेत्य् अर्थः। मनीषा, मनस ईष्टे इति मनीट्, तेन मनुनेत्य् अर्थः। मनुस् स्मर्तॄणाम् मुख्यः।

[[P16]]

तद्-ग्रहणेन सकल-स्मृतय उच्यन्ते, स्मृति-प्रमाणेनेत्य् अर्थः। मनसा, मनश्-शब्देन भृग्व्-आदि-मुनयः उच्यन्ते, तद्-वचन-रूप-श्री-शास्त्र-प्रमाणेनेत्य् अर्थः, अभिकॢप्तः बिम्ब-रूपेण कल्पितः इति, ये विदुस् ते ऽमृता भवन्ति। अथवा हृच्-छब्देन सकल-श्रुति-स्मृति-शास्त्र-शिल्पादीनाम् अभिप्रायो गृह्यते, तेन तम् अनुसृत्येत्य् अर्थः। मनीषा आचार्य-बुद्ध्या, विभक्ति-लोपश् छान्दसः। मनसा शिल्पि-चित्तेन च, अभिकॢप्त इति। भगवद्-अवतार-रहस्य-वेदिनां संसार-बन्ध-मोचनं निगद्यते — “अवतारस्य, सत्यत्वम्” इत्य् आरभ्य —

इति जन्म-रहस्यं यो वेत्ति मुक्तो भवेद् इह

इति। अर्चा-रूपम् अप्य् अवतार-विशेष एव।

अर्चात्मनावतीर्णं मां जानन्तो ऽपि विमोहिताः।
कृत्वा दारु-शिला-बुद्धिं गच्छन्ति नरकायतम्॥

इत्य् अन्यत्र भगवद्-वचनात्। परमात्मनस् साकारत्वे श्रुतिः —

य एषो ऽन्तरादित्ये हिरण्मयः पुरुषः

इत्य्-आदिः। स्मृतिस् तु — “रुक्माभं स्वप्ने ऽधीगम्यम्” इति मनु-वचनादिः। श्री-शास्त्रं —

सुवर्ण-वर्णं रक्तास्यं रक्त-नेत्रं सुखोदयम्

इत्य्-आदिकम्। अभिकॢप्त इति। श्रुत्य्-अर्थं विशदयति

शिलायाम् अर्चावतारः

सूत्रे भगवान् विखनाः — “षड्-अङ्गुलाद् अहीनं तद्-रूपं कल्पयित्वे"त्य्-आदिना। शिलोत्पत्तिस् तत्र रूप-विधानं च श्रूयते — “अद्भ्यः सम्भूत” इत्य् आरभ्य “तत्-पुरुषस्य विश्वम् आजानम् अग्रे” इत्य् अन्तम्। अयम् अर्थः — अपां पृथिव्याश् च रसात् सार-भागात् सम्भूतः उपल इत्य् अर्थः तस्य जल-भूमि-सार-रूपत्वात्। विश्व-कर्मणः ब्रह्मणस् सकाशात् समवर्तत समीचीन-रूपेणावर्तत। ब्रह्मणस् सङ्कल्पवशात् समीचीना शिला जायत इत्य् अर्थः। तस्योपलस्य त्वष्टा रूपं विदधत्, अकरोद् इत्य् अर्थः। तत् तथा रूप-कल्पनं, पुरुषस्य अग्रे आजानं जन्म, आविर्भाव इति यावत्। एवं परम-पुरुषाविर्भाव-ज्ञानस्य मुक्ति-प्रदत्वं श्रूयते —

तम् एवं विद्वान् अमृत इह भवति

इति। पाद्म-पुराणे वेङ्कट-गिरि-माहात्म्ये एकोनत्रिंशाध्याये एतद्-विषय-प्रकरणम् आरभ्य —

वराह-रूप-विभवः पुराणः पुरुषोत्तमः,
उवाच वचनं श्रीमान् करुणा-वरुणालयः।
एतावांस् तव दृश्यो ऽहं तद्-अधो न नृपाधिप

तद्-अधो नेति, जान्व्-अधो-भागे ऽहं न दृश्य इत्य् अर्थः।

[[P17]]

एतद्-रूपं प्रतिष्ठाप्य शुद्धया शिलया नृप,
तस्मै देह्य् अखिलान् भोगान् पूर्णो भूत्वा सुपुष्कलान्।
अप्राकृताङ्गो विरजास् सात्त्विको ऽयम् इति स्मरन्,
वैखानसैर् महाभागैर् अर्चापय नराधिप।
राजन्न् अलम् अलं व्यर्थ-प्रयत्नेनाति भूयसा

इति। अलम् अलम्, अधो-भाग-दर्शन-विषय-प्रयत्नो न कर्तव्य इत्य् अर्थः। कठोपनिषदि —

अङ्गुष्ठ-मात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः

इति। यथा सर्वत्र परिपूर्णस्य परमात्मन उपासितुम् अशक्यतया हृदय-प्रमाणानुगुण्येनाङ्गुष्ठ-मात्रत्वं प्रतिपाद्य तद्-उपासने चोदयति, तथा “हृदा मनीषे” इत्य्-आदिना बिम्ब-क्लृप्तिम् उक्त्वा तद्-उपासने चोदयतीति बोध्यम्। अस्याश् श्रुतेर् अन्यथा ऽर्थ-वर्णनं न चारु; हृदा मनसेति पृथग् ग्रहणस्य प्रयोजनाभावात्, क्लृप्त-शब्द-स्वारस्याभावाच् च। क्लृप्तिर् नाम कल्पनं, रूपवत्-करणम् इति यावत्। अत एवाह भगवान् विखनाः — “रूपं कल्पयित्वे"ति, अनेकत्र बिम्ब-निर्माणं क्लृप्ति-शब्देनोच्यते, क्लृप्ति-शब्दं भगवान् व्यासो ऽपि वेदान्त-शास्त्रे मूर्ति-विषय-कल्पने प्रयुङ्क्ते —

संज्ञा-मूर्ति-क्लृप्तिस् तु त्रिवृत्-कुर्वत उपदेशात्

इति। गारुडे —

यत्र यत्र च देवेशो रमते च स्वयं हरिः,
तत्-तद्-दिव्य-प्रतिष्ठान्तम् इति सनातनम्।
सिद्ध-मानुषयोर् एव बिम्ब-क्लृप्तिस् तथेष्यते

इत्यादाव् औचित्याद् अर्थ-निर्णयः कार्यः। परमात्मनश् शिलादि-प्रतिमा-रूपेणाविर्भावे च श्रुतिः, यजुषि —

यतो वीरः कर्मण्यस् सुदक्षो युक्त-ग्रावा जायते देव-कामः

इति। अयम् अर्थः — वीरो विष्णुः, “उग्रं वीरं महा-विष्णुम्” इति नृ-सिंहतापिन्याम् विष्णोर् वीरत्वं प्रसिद्धम्। “विष्णोर् नुकं वीर्याणी"ति श्रुतेः, “विष्णुना सदृशो वीर्य” इति श्रीमद्-रामायण-वचनात्। कर्मण्यः कर्मभिर् आराध्यः सुदक्षः भक्ताभीष्ट-करण-समर्थः, देव-कामः क्रीडा-कामः, दिव् क्रीडेत्य् आदि-धातोः, युक्त-ग्रावा, शिला-रूपीत्य् अर्थः। जायत इति। अपि च —

पिशङ्ग-रूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देव-कामः ।

अयम् अर्थः —

“पिशङ्ग-रूपस् सुवर्ण-वर्णः, सुभरः सुखेन भर्तुं शक्यः, वयसा गरुडेन ध्रियत इति वयोधाः, श्रुष्टी बलवान्, “श्रुष्टी तु बलवान् बली"ति निघण्टुः। देव-कामः, जायते प्रतिमा-रूपी भवति।

[[P18]]

[श्रु] “अश्मानम् आखणं प्रपद्ये” इति च श्रूयते। अयम् अर्थः — आखणं शिल्पिना शास्त्रम् अनुसृत्य टङ्केनोत्कीर्ण-रूपम्, अश्मानं पाषाणमयम्, परमात्मानं प्रपद्य इति, केवलाश्मनः प्रपत्तव्यासम्भवात्। भारते —

सुरूपां प्रतिमां विष्णोः प्रसन्न-वदनेक्षणाम्,
कृत्वात्मनः प्रीतिकरीं सुवर्ण-रजतादिभिः
ताम् अर्चयेद्

इति। मुण्डकोपनिषदि —

आविस् सन्निहितं गुहाचरं नाम महत्-पदम् अत्रैतत् समर्पितम्

इति। अयम् अर्थः — गुहाचरं नाम हृदय-गुहा-वर्तितया प्रसिद्धं, ब्रह्म-विष्ण्व्-आख्यं, तस्यैव हृदयस्थत्वात्। त्रि-शिख-ब्राह्मणोपनिषदि —

सम्पूर्ण-कुम्भवद् देहं कुम्भयेन् मातरिश्वना,
पूरणान् नाडयः सर्वाः पूर्यन्ते मातरिश्वना।
एवं कृते सति ब्रह्मन् तरन्ति दश वायुवः,
हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम्,
तत्र पश्येत् परात्मानं वासुदेवम् अकल्मषम्

इति। ध्यान-बिन्दूपनिषदि —

अष्ट-पत्रं तु हृत्-पद्मं द्वात्रिंशत्-केसरान्वितम्

इत्य् आरभ्य

श्री-वत्स-कौस्तुभोरस्कं मुक्ता-मणि-विभूषितम्,
शुद्ध-स्फटिक-सङ्काशं चन्द्र-कोटि-सम-प्रभम्।
एवं ध्यायेन् महा विष्णुम्

इति। गर्भोपनिषदि —

गर्भ-वासात् प्रमुच्येयं यदि विष्णुं भजे हृदि

इति। भगवान् विखनाश् चाचमन-विधौ —

विष्णुः प्रीणात्व् इति हृदयम्

इत्य् आह। इत्य् अलम् अप्रकृतेन। आविः आचार्य-हृदयाद् आविर्भूय, सन्निहितं प्रतिमायां सान्निध्यवत्, भवति। अत्र प्रतिमा-रूपे भगवति एतत् सर्वं समर्पितम् इति।

[[P19]]

प्रतिमास्व् अल्प-बुद्धीनाम् इत्यस्यापपाठत्वम्

स्मर्यते च —

अग्नौ तिष्ठति विप्राणां हृदि तिष्ठति योगिनाम्,
प्रतिमास्व् अप्रमत्तानां सर्वत्र विदितात्मनाम्

इति। विप्राणां कर्म-मात्र-पराणां ब्राह्मणानां, परमात्मा यज्ञ-पुरुष-नाम्ना ऽग्नौ तिष्टति। योगिनां तद्-अपेक्षया समुत्कृष्टानां, हृदि अन्तर्यामितया तिष्टति। अप्रमत्तानां प्रमाद-रहितानां - भक्ति-विशेषेण योगिनो ऽप्य् उत्कृष्ठानां, प्रतिमायां तिष्ठति। सर्वेभ्यो योगिभ्यः भगवद्-भक्तानाम् उत्कर्षश् श्री-गीतायाम् उच्यते —

योगिनाम् अपि सर्वेषां मद्-गते नान्तरात्मना,
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः

इति। भजत इत्य् आराधनम् उक्तम्; तत्रैव श्रद्धावान् इति पद-स्वारस्यात्, सर्वत्र विदितात्मनाम् इति। विदितात्मनां, सर्वत्र अग्नौ हृदये प्रतिमायां च, भगवान् तिष्ठतीत्य् अर्थः। अन्ये तु प्रतिमास्व् अप्रबुद्धानाम् इति — प्रतिमास्व् अल्पबुद्धीनाम् इति वा पाठम् अङ्गीकृत्य मुह्यन्ति। तान् पृच्छामः किं प्रतिमायां भगवत्-सत्ता नास्तीति ब्रूथ? अथवा स्वल्प-बुद्धीनाम् एव तत्र भगवत्-सत्ता तद्-उपासनस्याल्प-फलत्वात्; महा-बुद्धिभिस् तत्रोपासनं न कर्तव्यम् इति वा? आद्यः पक्षः अत्यन्तं तुच्छः, तत्रैव प्रतिमासु तिष्ठतीति सम्यग् अभिधानात्। द्वितीयः पक्षो ऽपि नाभिज्ञ-हृदयङ्गमः, महा-बुद्धिभिः प्रतिमासु भगवद्-आराधनस्य फलाधिक्यस्य चाभिहितत्वात्, न च महा-बुद्धयो ऽप्य् अल्प-बुद्धीन् प्रति प्रतिमार्चनं व्यधुर् इति वाच्यम्; श्रुति-स्मृति-प्रामाण्येन महा-बुद्धिभिर् अपि प्रतिमास्व् अर्चनानुष्ठानस्य दर्शनात्। श्रूयते हि —

यद् देवानां चक्षुष्य् आगो अस्ति

इति। अनया श्रुत्या पाषाणादिमय-देव-दर्शने ऽनमस्कारादि-रूपापराध उक्त इति तद्-भाष्य-कारैर् उक्तम्। मन्वादयो ऽपि प्रतिमा-रूप-देवतार्चायाः लङ्घने दोषं, तत्-प्रदक्षिणादिषु सुकृतं च स्मरन्ति। भगवान् विखनाश् च मोक्षोपायतया भगवद्-अर्चनं विधत्ते। भारते च — “सुरूपां प्रतिमाम्” इत्य्-आदिना तथोच्यते। तथा — “यमादिभिर् योग-पथैः” इत्य्-आदिना भागवते चाभिधीयते। ततो महा-बुद्धिभिर् अपि प्रतिमार्चनं कर्तव्यम् इति सिद्ध्यति। भृगु-मरीच्य्-आदयो ऽपि मन्दिरादिषु देवं प्रतिष्ठाप्यापूजयन्न् इत्य् अभिधीयते। ततस् तथा पाठ-द्वये च अपि शब्दाध्याहारेण साध्व्-अर्थो ऽङ्गीकार्यः। अल्प-बुद्धीनाम् अपि प्रतिमासु हरिस् तिष्ठति, किमुत महा-बुद्धीनाम् इत्य् अर्थः। औचित्याद् अर्थ-निर्णयः कार्यः। अतो ऽनुन्मत्तैर् आस्तिक-जनैः प्रतिमार्चने श्रद्धा कार्या।

[[P20]]

ननु भागवते -

अर्चायाम् एव तु हरेः पूजायां श्रद्धयेहते,
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतस् स्मृतः

इत्य् अभिधीयते, तत् कथं प्रतिमाराधकानां श्रेष्ठत्वम्? इति चेद् उच्यते। तद्-वचनं भगवद्-भक्त-पूजनादराणां सर्वत्र वासुदेवात्मतां मन्यमानानां च दूषण-परम्। कर्तव्य एव हि भगवद्-भक्तैस् स्व-धर्मेषु आदरः, तथा सर्व-भूतेषु दया च। प्राकृत इत्य् अस्य प्रकृति-सम्बन्धवान् इत्य् अर्थः, न त्व् अधम इति। उच्यते च —

तद्-भक्त-जन-वात्सल्यम् तत्-पूजास्व् अनुमोदनम्,
तत्-कथा-श्रवणे भक्तिर्

इत्य्-आदिना भगवज्-जन-लक्षणम्। एवं च भगवद्-भागवताराधकस् सर्व-भूत-दयावांश् चाप्राकृत इत्य् एव फलति, का क्षतिर् अस्मद्-अभिमतस्येत्य्? अलं नीरस-वादेन।

प्रतिमार्चने श्रुत्य्-आदि-प्रमाणम्

मुण्डकोपनिषदि

नायम् आत्मा बल-हीनेन लभ्यो
न च प्रमादात् तपसो वा ऽप्यलिङ्गात्।
एतैर् उपायैर् यतते यस् तु विद्वान्स्
तस्यैष आत्मा विशते ब्रह्म-धाम॥

इति।

अयम् अर्थः — अयम् आत्मा परम्-पुरुषः, बल-हीनेन भगवद्-आराधनानुकूल-शरीरेन्द्रिय-पाटव-रहितेन, न लभ्यः। प्रमादात् भगवद्-आराधनोपकरणार्जनानवधानात्, अलिङ्गात् प्रतिमा-रहितात्, तपसः ध्यानाद् वा, न लभ्यः। लिङ्ग-शब्दस्य मूर्ति-परत्वं भागवते एकादशे —

द्रव्य-क्षित्य्-आत्म-लिङ्गानि निष्पाद्य प्रोक्ष्य चासनम्।

अयम् अर्थः — द्रव्याणि पुष्पादीनि जन्त्व्-आदि-शोधनेन, आत्मानम् अव्यग्रतया, लिङ्गं मूर्तिम्, अनुलेपन-क्षालनादिना, निष्पाद्य योग्यानि कृत्वेति। “तप आलोचन” इति धातोः तपश्-शब्दस्य ध्यान-परत्वम्। कथं पुनर् लभ्यत? इत्य् अत्राह — एतैर् उपायैर् इति। प्रमाद-रहितार्चन-ध्यानादि-रूपैर् इत्य् अर्थः। यतते, तस्य आत्मा, ब्रह्म-धाम परं पदं, विशत इति।

प्रश्नोपनिषदि

नातः परम् अस्तीति ते हि तम् अर्चयन्तः

इति। उच्यते हि भगवता — “भक्त्या त्व् अनन्यया शक्यः” इति। भक्तेर् नव-विधसु लक्षणेष्व् अर्चनं प्रधानम् इत्य् उक्तम्।

[[P21]]

ननु “क्रियावान् एष” इति श्रुत्या क्रियावतश् श्रेष्ठत्वं प्रतिपाद्यते, तस्य च ब्रह्मवित्त्वापेक्षया फल-विशेषेण भवितव्यं, स च सायुज्य-प्राप्ति-रूप इति ब्रूषे!, तद् अङ्गीकुर्मः, सायुज्य-प्राप्तेश् च क्रिया-विशिष्टं ब्रह्म-वेदनम् एव साक्षाद् उपायः, इति चेद् उच्यते — वेदन-विशिष्टा क्रियैव सायुज्यस्याव्यवहितोपायः; भगवता विखनसा वासुदेवेन च तथा ऽभिहितत्वात्।

भक्त्या भगवन्तं नारायणम् अर्चयेत् तद् विष्णोः परमं पदं गच्छति

इति —

मन् मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु

इति च। अत्र मन्-मना भवेति ध्यानं विधाय, तत्रापरितुष्यता वस्तुतस् तस्य दुष्करतां मन्वानेन वा, भगवता — “मद्-भक्तो मद्-याजी भवे"ति विशेषेण विधीयत इत्य् उक्तम्। अतस् सालोक्यादि-प्राप्तिं प्रति ध्यान-मात्रं साधकम्। सायुज्यं प्रति तद्-विशिष्टम् अर्चनम् इति। यथा ब्राह्मणो राज-प्रियो भवतीत्य् उक्त्वा, ब्राह्मणानां विद्वान् श्रेष्ठ इत्य् उक्ते, ब्राह्मणत्वे सति विद्यैव राज-प्रियतमत्वे हेतुः, न तु ब्राह्मणत्व-मात्रम्। तस्य राज-प्रियत्व-साधकत्वात्।

दुर्बोधा वैदिकाश् शब्दाः प्रकीर्णत्वाच् छ सर्वशः,
तज्ज्ञैस्त एव स्पष्टार्थाः स्मृति-तन्त्र-प्रतिष्ठिताः

इति वचनेन वेदार्थः स्मृत्य्-आदिभिर् एव निर्णेतव्यः। सर्व-ज्ञो विखनाः, तम् अनुसृत्य भृगु-मरीच्य्-आदयस् तथा वदन्ति —

अर्चनम् एव वक्तव्यं नान्यथा परम-पद-प्राप्तिर्

इति। अथवा क्रियावतां श्रेष्ठत्वं अर्चन-जपाद्य्-उपाय-बाहुल्याद् उपपद्यते। हस्तवान् नद्याः पारं प्राप्नोतीत्य् उक्त्वा, पोतवान् हस्तवतां श्रेष्ठ इत्य् उक्तं चेत्, सुखेन पार-प्राप्तौ पोत एव मुख्योपायो भवति। यद्य् अपि पोतस्य हस्त-नेयतया तस्यापि साधनत्वम् अस्ति; तथापि सुखेन पार-प्राप्तौ पोत एव मुख्योपायः। अत एवोच्यते -

क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम्

इति। श्रूयते च — “एतैर् उपायैर्” इत्य्-आदि।

तम् एव चार्चयन् नित्यं भक्त्या पुरुषम् अव्ययम्,
ध्यायन् स्तुवन्न्

इत्य्-आदिना अर्चनद्य्-उपायाः कथ्यन्ते। “तपसो वाप्य्-अलिङ्गाद्” इत्य् अत्रापि शब्देन अनुक्ता जपादयस् समुच्चीयन्ते। तेन प्रतिमार्चन-रहित-जपादिभिर् न लभ्यत इति सिद्ध्यति। ततः एतैर् उपायैर् इति प्रतिमार्चन-सहित-जप-ध्यानादीनाम् उपायत्वम् उक्तम्। नारदश् चाह —

[[P22]]

ये ऽर्चयन्ति सदा विष्णुं निष्कलेनान्तरात्मना,
न ते भूयो ऽपि जायन्ते श्वेत-द्वीप-निवासिनः॥

इति। भल्ल-शाखायाम् —

अर्चनादौ यज्ञ-मूर्तेर् ऊर्ध्व-पुण्ड्रम्

इत्य् आरभ्य

कुलं तारयते सप्त स गच्छेद् वैष्णवं पदम्

इति।

ननु ध्यानापेक्षया ऽर्चनस्य कथं सौकर्यम्? तत्रापि प्रतिमा-निर्माण-पूजा-द्रव्य-सम्पादनादि-श्रमो ऽस्त्य् एवेति चेद्, उच्यते — निरन्तर-ध्यानं ह्य् अत्यन्तम् अशक्यम्।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः

इति मनो-वशीकरणं दुस्साधम्। योग-बलेन मनो-वशीकार्यम्। योगो महता क्लेशेन साध्यः। तद्-अपेक्षया ऽत्यन्तं सुकरं श्रमं विना लभ्यैर् द्रव्यैर् भगवद्-अर्चनम्। भक्त्या पत्रादि-दानम् अपि भगवत्-प्रीतिकरं भवति। उच्यते हि — “पत्रं पुष्पं फलम्” इत्य्-आदि

अण्व् अप्य् उपहृतम् भक्तैर् मम तोषाय कल्पते

इति —

किं त्वया नार्चितो देवः केशवः क्लेश-नाशनः,
उदकेनाप्य् अलाभे तु द्रव्याणां पूजितः प्रभुः

पत्रेषु पुष्पेषु फलेषु तोयेष्व्
अक्रीत-लभ्येषु सदैव सत्सु,
भक्तैक-लभ्ये पुरुषे पुराणे
मुक्त्यै किम् अर्थं क्रियते न यत्नः

इति। प्रतिमार्चनस्याक्लेशत्वं भगवतैवाभिधीयते —

मय्य् आवेश्य मनो ये मां नित्य-युक्ता उपासते,
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः

इति। न चात्रार्चनस्याक्लेशत्वं नोच्यत इति शङ्क्यम्; उत्तरत्राव्यक्तोपासनस्य क्लेशवत्व-कथनेनास्याक्लेशत्व-सिद्धेः। न चात्रोपासत इत्य् अविच्छिन्न-स्मृति-सन्तान-रूपं ध्यानम् उक्तम् इति वाच्यम्; तस्यापि निखिलेन्द्रिय-नियमन-श्रमं विना नैरन्तर्यासम्भवात्। उच्यते हि श्री-शास्त्रे भगवता मरीचिना —

एवं सदा ध्यातुम् अशक्यत्वात् प्रतिमादिष्व् आवाह्यार्चयेद्

[[P23]]

इति। इन्द्रियेषु जितेषु मनस् स्वाधीनं भवति, स्वाधीन-मनसः किं साध्यम्? किम् असाध्यम्?। अतो “नित्ययुक्ता उपासत” इति भगवद्-अर्चनम् एवोच्यते। “मय्य् आवेश्य मन” इति फलाभि-सन्धि-राहित्येन तद्-एक-प्रवणत्वं विधीयते। किं च

देवान् देव-व्रता यान्ति पितॄन् यान्ति पितृ-व्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो ऽपि माम्

इत्य् अत्र यजनं पूजनम् इत्य् एव वक्तव्यम्। देव-व्रतत्वम् अग्नि-होत्रादिभिर् देव-याजित्वम्। पितृ-व्रतत्वं श्राद्धादिभिः पितृ-याजित्वम्। भूतेज्यत्वं बलि-हरणादिना भूत-याजित्वम्। मद्-याजिन इत्य् अनेनोक्तं भगवद्-यजनं प्रतिमार्चनं विना ऽन्य-रूपं नोपपद्यते। अव्यवधानेन

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति

इति ह्य् उच्यते। पत्रादि-दानं यथा प्रतिमा-रूपे भगवति युज्यते, न तथा ऽन्यत्र। न च

भगवन्तं यजामह इति बुद्ध्या ये देवादीन् यजन्ति ते भगवन्तं प्राप्नुवन्ति

इत्य् अर्थ इति वाच्यम्; तस्याप्य् असामञ्जस्यात्। कया विधया देवादि-यजने तथा बुद्धिः कार्या? यद्य् अग्नि-होत्रादि-विधया देवादि-यजन इति ब्रवीषि, तर्हि “देवान् देव-व्रता यान्ति"त्यादेः प्रतिनिर्देश्यतया “यान्ति मद्-याजिनो ऽपि माम्” इति वचनं नात्यन्तं सङ्गच्छते। यथा देव-व्रतादयः देवान् यान्ति, तथा मद्-याजिनो ऽपि मां यान्तीति प्रतिपाद्य, ततस् स्व-यजने विशेषम् आह — “पत्रं पुष्पं फलम्” इत्य्-आदिना। देवादि-यजने यथा द्रव्य-लोपो भवति प्रत्यवायकरः, तथा मद्-यजने न प्रत्यवायकरः। यदि मयि भक्तिस् स्याद् यथा लब्ध-द्रव्यैर् अर्चितो ऽहं प्रीतिमान् स्याम् इत्य् अर्थः। उच्यते च श्री-शास्त्रे —

यद् यद् द्रव्यं भवेद् धीनं तत् तत् पुष्पेण कल्पयेत्,
पुष्पाणाम् अप्य् अभावे तु सर्वं तोयेन कल्पयेद्

इति। इदं वचनम् अलाभ-विषयम् एव। अतो भगवद्-अर्चने यथा-शक्यं प्रयतितव्यं द्रव्य-सम्पादनाय। अन्यथा श्रद्धा-वैकल्यापत्तेः। अथ यदि तत्-तत्-प्रतिमार्चन-विधया तत्-तद्-देवादि-यजने ऽपि भगवन्तम् एव यजामह इति बुद्धिः कार्येति ब्रवीषि, तद् अप्य् असत्, अद्वारक-भगवद्-आराधनस्य सौलभ्ये स-द्वारक–भगवद्-आराधनस्यानावश्यकत्वात् उच्यते हि भगवता विखनसा —

[[P24]]

विष्णोर् आराधनम् सर्व-देवतार्चनं भवति

इति। उक्तं च — “त्वयि सर्वं समारोप्ये"त्य्-आदिकम्। न चार्चनं संसारिभिर् ब्रह्म-प्राप्ताव् इतर-मार्गाचरणाशक्त्यैः कार्यं, न तु चरमाश्रमिभिर् इति शङ्क्यम्; सुगमतया सर्व-साधारण्येन भगवद्-उपदिष्टत्वात्।

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः।
अनन्ये नैव योगेन मां ध्यायन्त उपासते॥
तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात्।
भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम्

इति।

यतीन् प्रत्याहात्रिः —

त्रैकाल्यम् अर्चनं विष्णोर् देवानाम् तद्-आत्मनाम्,
नमस्कारार्चनादीनि कुर्यान् नान्यस्य कस्यचित्।

क्रतुश् च —

ईश्वरो भगवान् विष्णुः परमात्मा महान् अजः,
शास्ता चराचरस्यैको यतीनां परमा गतिः।
ध्यायते ऽर्चयते यो ऽन्यं विष्णु-लिङ्गम् उपाश्रितः,
कल्प-कोटि-शतैश् चापि गतिस् तस्य न विद्यते

इति। विष्णु-लिङ्गं तुरीयाश्रमम्। शाट्यायनोपनिषदि —

कुटीचको बहूदकश् चापि हंसः
परम-हंस इति वृत्या च भिन्नाः,
सर्व एते विष्णु-लिङ्गं दधाना
वृत्त्या ऽव्यक्तं बहिर् अन्तश् च नित्यम्।
पञ्च-यज्ञा वेद-शिरः प्रविष्टाः
क्रियावन्तो ऽपि ब्रह्म-विद्याम्

इत्य् आरभ्य

विष्णु-क्रीडा विष्णु-रतयो विमुक्ता विष्ण्व्-आत्मका विष्णुम् एवाभियन्ति

इति। पञ्च-यज्ञा इति पञ्चसु कालेषु यथा-विधि भगवद्-अर्चन-ध्यानादि-क्रियाभिस् तम् आराधयन्त इत्य् अर्थः।

अर्चाया अवतारत्वम्

"” "”

ननु प्रतिमायां भगवानर्चनीय इति ब्रवीषि ! कीदृश्या बुद्ध्याचर्च-? प्रतिमारूपी भूत्वावर्तत इतिवा? प्रतिमान्त र्व्यापितिवा? प्रतिमो पर्याधेयतया तिष्ठतीतिवा? नाद्यः पक्षो युज्यते; निर्विकारस्य तस्य शिलाविकार रूपासम्भवात्। न च द्वितीयः; “अन्तर्बहिश्चतत्सर्व” मित्यादिश्रुत्या सर्वव्यापकस्य तस्य प्रतिमान्तर्व्याप्त विशेषाभावेन तत्रार्चन नियमाभावात्। न च तृतीयः; प्रतिमाया आधारमात्र तया तदभिषेकालङ्करणादौ प्रयोजनाभावा, दितिचे, दुच्यते प्रथमं पक्षद्वय मपि सुसाधं। सर्वत्र व्यापको निष्कळ स्वरूपो 26 उत्तम ब्रह्मविद्यासारः विष्णुः केवलं हेयगुणरहितो नभिव्यक्तो भक्तध्यानेन प्रतिमाया मभिव्यक्त समस्तकल्याण गुणनिधि र्भूत्वा भक्ताभीष्टं करोति यथा सर्वत्राकाशे व्याप्तो वायु र्व्यजनचालनेनाभिव्यक्त श्रममपनुदति, यथा चारण्यां सर्वत्र, व्याप्तो वह्निर्मथने नाभिव्यक्तः प्रकाशनतमो हरति, तद्वत्। अथ प्रतिमारूपी जायत इत्यत्र शङ्कसेयदि, सप्रमाणं तव का परिहरामः। “अजायमानो बहुधा विजयते” “अजोनिपि सन्नव्ययात्मा भूताना मीश्वरोक्पसन्, प्रकृतिं स्वा मधिष्ठाय सम्भवाम्यात्ममायया” इति श्रुतिस्मृतिभ्यां जन्म रहित स्यापि तस्य यथा जगद्रक्षणाय स्वेच्छया सम्भव स्समवगम्यते, तथा निर्विकारस्यापि तस्य भक्तानु ग्रहायार्चावतारो। तथा च शिलाविकार रूपत्वं नानुपपन्नं; “भूतो भूतेषु चरति प्रविष्ट स्स भूताना मधिपति र्भभूव, तस्यमृत्यौ चरति राजसूयं सराजा राज्य मनु मन्यता मिद” मितिश्रुतेः। ईश्वरस्य प्रतिमातादात्म्यं श्रुति स्मृत्यादिभि रभिधीयते “युक्तग्रावा जायते देवकामः” इति “सुरूपां प्रतिमां ता मेव ब्रह्म रूपिणि” मिति च। न च - विभवे स्वयं भगवान् स्वेच्छया तत्तद्रूपो भवति, अर्चा यान्तु शिल्पिना कल्प्यते रूपं, तत्राचार्यः परमेश्वर मारोपयति, लोके य दारोप्यते तन्मिथ्यैव, यथा शुक्ता रजतारोपे रजतं मिथ्येति वाच्यं; आरोपितस्यापि तस्या मिथ्यात्व सम्भवात्। आरोपो द्विविधः - आहार्योत्साहार्यश्च। तत्र भ्रममुलो ना हार्या रोपः यथा - शुक्ता विदं रजत मिति। अत्र त्वाहार्यारोप एव। यथा - मुखं चन्द्र इत्यादौ न च मुखं चन्द्र - इत्य त्रापि सर्वधा मुखे चन्द्रतादात्म्या सम्भवात सादृश्य मेव सिद्ध्यति अत्रापि तदृष्टां तेन तादात्म्यं न सम्भवतीति शङ्कं; आहार्यारोप एव स दृष्टान्तः। तत्र तादात्म्यं न सम्भवदेव। अत्रतु सम्भवेति। स्वसङ्कल्पादधिको हि भगवतो भक्तसङ्कल्पः सर्वशक्तिमान् भक्तवत्सलः परमकृपालु- पुरुषोत्तमः स्वभक्त सङ्कल्प मनुसृत्य। यत्रात्मान मारोपयति भक्तो भक्त्या, तत्र तद्रूप तयाक विर्भवितुं शक्नोति।द्वितीयाधिकारः

27 मिति श्रूयतेहि “अवि स्सन्निहित” मित्यादि। उच्यतेच श्रीशास्त्रि - “अर्चाव तार रूपेण लोक्येस्मिं श्चतु रासन ! " अवतारं करिष्यामि प्रायालक्ष्म्या समन्वितः” इति। श्रूयते - “सवा एष पुरुषः पञ्चधा पञ्चात्मे” ति। परव्यूह विभवान्तर्या म्यर्चारूपत्वेन पञ्चधेत्यर्थः। ग्रन्धान्त रेच - “द्वीपवर्ष विभागेषु तीरे स्वायत नेषु च, मानु षार्चात्मना चाहं ग्रामेग्रामे गृहे गृहे। पुंसि पुंसि भविष्यामि दारुलोहशिलामयः, अहं पञ्चोपनिषदि परव्यूहादिषु स्मृतः। आविर्भावेषु सर्वेषु स्वसङ्कल्पशरीरवान्, आवेशांशावतारेषु पाञ्च भौतिक विग्रहः, दारुलोह शिलामृत्स्ना शरीरोकार्चात्मकस्स्मृतः, चेतना चेतनैर्देही परमात्मा भवाम्यहं। अर्चात्मनाक्वतीर्णं मां जानन्तो पि विमोहिताः कृत्वादारुशिलाबुद्धिं गच्छन्ति नरकायुत।” श्रूयतेच “यदेवानां चक्षु ष्यागो अस्ति"ति। विष्ण्वादि प्रतिमारूप देवान् दृष्ट्या तदनमस्कार रूप मागः अपराध इति तद्भाष्ये उक्तं। स्मर्यते च मन्वादिभिः “देवातानां गुरो राज स्स्नातकाचा र्ययो स्तथा, नाक्रामेत् कामत श्छायां बभ्रुणो दीक्षितस्य चे” ति। व्याख्या - “देवातानां पाषाणादिमयीना” मित्यादि। एवं मनुवचना न्यपिस्तोत्यानि; “यः कश्चित् कस्यचिद्दर्मो मनुना परिकीर्तितः, ससर्वोक्कहितो वेदे सर्वज्ञानमयो पासः” इति तद्वचनस्य वेद मूलत्व मुक्तं। स्मृत्यन्त रेच- “न प्रदोषे हरिं पश्येदि” ति। एवं बह्वीभि स्स्मृतिभिश्च भगवतो र्बाता दात्म्य मुच्यते। नच भगवत स्ताव दर्भातादात्म्यं यदि, स्वस्य साक्षात्सन्निधिं प्रविश्यापहरतो धनंवा, स्वमूर्तिं भिन्दतो वा, दस्यून् सद्यो न दण्डयत कथ? मिति वाच्यं; स एव हि पातकिन दृस्वापराधे प्रवर्त्य चिरं निरयेषु स्थाप यति। भगवत सतत्पुण्यपापानु गुण्येनपुन स्साधुकर्म ण्यसाधुकर्मणि च प्रवर्तकत्वं श्रूयते ·[श्रु] “यं साधु निनीषति तं साधु कारयति। य मसाधु निनीषति त मसाधु कारय” तीति। न च तस्य स्वहिंसायं प्रवर्तन 28 चिन्तने।

उत्तम ब्रह्मविद्यासारः “नहि मनुपपन्न मिति शङ्क्यं; “अच्छेद्योव्य मदाह्योक्य मक्तेद्यो शोष्य एव” चेति सामान्ये नात्मनो च्चेद्यत्वा दौसति, तस्य कुत श्चेदो वा हिंसा वा? स्वसङ्कल्पो पात्तशरीरे स्वस्मिन्, कर्मोपात्त शरीरे चेतने च। तस्य हि स विषमादृष्टिः तत श्चेतन शरीरं, स्वविग्रहं वा, हिंसतः पापान् साक्षिभूतः पश्यति। न सद्यो दण्डयति, परं तु पापान् तत्कर्मफलं प्रापयितुं समयं प्रतीक्षते। परमेश्वरः पापान् सद्योदण्डयितीयदि पापे कोवा प्रवर्तेत श्रीमद्रामायणे धर्मोपसंहारमधर्म फलसंहितं, तदेवफलमन्वेति धर्मश्चा धर्मानाशनः” धर्मफले भुज्यमाने अधर्मफलं न भवति, अधर्मफले भुज्यमाने धर्मफलं च न भवति त्यर्थः। इत्य ल म प्रकृत [श्रु] “यः पृथव्यां तिष” न्नि त्यादिना परमात्मनः पञ्चभूत शरीरकत्वश्रवणेन शिलायां तदुपासन मती वोपपद्यते। शिला हि पञ्चभूतात्मिका। शारीरोपनिषदि -“य त्कठिनं सा पृथिवी यो द्रव स्तदम्भः” इत्यादिना पृथिव्यादि स्वरूप मुच्यते। शिला हि कठिन रूपा। मसृणायां तस्यां उदबिन्दवो भवन्ति। घट्टने स्फुलिङ्गो जायते। तदन्तः मण्डूक उत्पद्यते। यदि न वायु स्तत्र तस्य जीवनं न सम्भवेत्। ताडने शब्दश्च भवति। आकाशं विनान शब्द सम्भवः। आत श्शिलादिषु श्रुतिस्मृति श्रीशास्त्रोक्त विधया रूपविधानं युक्तं; ननु श्रुत्यादिना तस्य स्वरूपत्वागमात् प्रतिमा क्लिपै मङ्गी कुर्मः प्रतिमया नराकृत्या भवितव्य मित्यत्र किं प्रमाण? मिति, चे, दुच्यते - “तस्य त्वष्टा विदध द्रूपमे” तीति श्रुत्या रूपव त्करणे सिद्धे- “य एषोवन्तरा दित्य” इत्यादिश्रुत्या तस्य पुरुषा कृतित्वं ज्ञायते। तत्र श्रु] “हिरण्यश्मश्रुरि रण्यकेश आप्रणभा त्सुवर्ण” इति श्मश्रुमत्त्वं सकेशत्व मुच्यते। श्मश्रु हि मुख्यं पुरुष लक्षणं। तस्य पुरुषस्य च पुण्डरीकाक्षत्वं श्रूयते “तस्ययथा कप्यासं पुण्डरीक मेव मक्षिणी," इति। इदं नेत्रसौन्दर्यश्रवणं सर्वाङ्ग सौन्दर्योप लक्षणं। स्मर्यतेच ट द्वीतियाधिकारः 29 “ध्येयस्सदा सवितृमण्डल मध्यवर्ति नारायण स्सरसिजासनसन्नि विष्णः, केयूरवान् मकर कुण्डलवान् किरीटी हरी हिरण्मयवपुर्धत शङ्खचक्रः” इति। यथा भगवत स्सर्वाङ्ग सौन्दर्यं पौंसं, तथा लक्ष्म्याश्च सैणं स्वरूपं। श्रूयते “हिरण्यवर्णां हरिणि” मित्यारभ्य - “कां सोस्मिता मिति। सोस्मिता, मुद्गतस्मया मित्यर्थः, तकारलो पश्चान्दसः। अत्र स्मित सौन्दर्य प्रतिपादनेन देव्या दन्तशोभाधरशोभा च व्यज्यते। इदं सर्वाङ्ग सौन्दर्योपलक्षणं। उच्यतेच - “पद्म प्रिये पद्मिनि पद्महस्ते” इत्यादिना तस्यास्सौ लक्षण्यं। लोके सर्वस्व पुम्भावस्य परम पुरुषात्मकत्वं, सर्वस्व स्त्रीभावस्य लक्ष्म्यात्म कत्वं च श्री विष्णुपुराणे - श्रीशास्त्रि वा साधिकारे चाभिधीयते - “यो यो भवति पुम्भावस्स विष्णु रिति निश्चयः, यो यस्तु नारी भाव स्स्या त स लक्ष्मीरिति स्थित” मिति। ननु सुलक्षणां प्रतिमां कृत्वा त त्रार्चनियोकु परमात्मा! किमरं

श्री-शास्त्रोक्त-प्रतिष्ठाया आवश्यकत्वम्

नयनोन्मीलनजलाधिवासशयनकुम्भ स्थापन होमवेद पारायणादिकं क्रियत ? इति चे दुच्यते क्रिया नाम कायिकवाचिक व्यापारः स द्विविधः अविहितो विहितश्च। अविहितो व्यापारोकनर्थकरः, विहितस्तु श्रेयस्करः विधीयते महात्मभि रेवं कर्तव्य मिति यत्त दवश्य मङ्गीकार्यं। अत श्रीशास्त्रि प्रथमं प्रतिमाशुद्ध्यर्थ क्रियाः काश्चित् ततो भगवत्सान्निध्यकारिण्यः काश्चित् तत्र - “पूता विधीयनै ब्रह्म पवित्रेण पूता स्सूरस्य रश्मिभिः” आपो वा सर्वा देवताः” “पवित्रे स्थो वैष्णवी यज्ञयेस्थो वायुपू तेस्तः” इत्यादि श्रुतिभिः प्रतिपादित पावनत्वै र्विशेषतो मन्त्रजपपूतै र्जलैः प्रतिमाशुद्धि र्भवति। ततः “वृक्षाणा मह मश्वत्थ” इत्यादीना भिहित महिमभिरश्वत्थादि समिदोघृतहविर्भि र्मन्त्रपूर्वकं समेधित स्याग्ने श्शिखया संस्कारविशेषं प्राप्ता प्रतिमा भगवत्सान्निध्य योग्यतमा भवति। वेदोहि शब्दरूपः परमात्माः “वेदो 30 वाचिक उत्तम ब्रह्मविद्यासारः नारायण स्साक्षा” दितिवचनात्। तज्ञपेनभगवतः प्रसादोजायते। इतं काक क्रिया भगवत्सान्निध्य हेतुर्भवति। क्रियावन्तशोत्रिया ब्रह्मनिष्ठा” इति श्रुत्या क्रियावतः परमात्म ध्यानाधिकारो भवति। तथा च तेनाचार्येण प्रतिमाया मावाहितः परमात्मा तत्रसन्निधत्त इति सर्वमङ्गीकार्यं। यथा मनुष्याणां करचरणाद्यवयवेषु समाने ष्वपि ब्राह्मणत्वं क्रियया, तथा प्रतिमानां शिलात्वे समानेपि संस्कारेण भगवत्स्वरूपत्वं। “यज्ञान यज्ञ मयजन्त देवा” इति श्रुतिः, देवाः, यज्ञं यजनार्हं भगवन्तं, यज्ञान क्रतुना - पूजयाच। अयजन्त इत्यर्थः। “यज देवपूजा सङ्गति दानेष्वि" ति धातोः, पूजैव मुख्यर्थः, अत आह श्रीशास्त्रे भगवान् मरीचिः - “सङ्गतं देवपूजा दानं यज्ञा इति सूरयो वदन्ति, यज्ञे स्वेतेषु देवयागो विशिष्यते, यजमाने क तेलिपि भुवि शाश्वतं तिष्ठती” ति। पाद्मे ज्ञान पादे - “आसीन माश्रमे कण्वं तदाश्रमनिवासिनः, निश्रेयसकरं कर्मप्रष्टु मारेभिरे मुनि” मित्यारभ्य “मोकैक फलदं धर्मं अद्यमस्मिन् प्रजायते, ते नै वाद्येन धर्मेण ब्रह्मलोकपितामहः। आराधयत मां देवं हरिं नारायणं प्रभुं। यज्ञान यज्ञं यष्टव्यं अयजनैतिच श्रुतिः आद्यं धर्मं समास्थाय ये यजने विचक्षणाः, तेयान्ति वैष्णवं स्थानं पुनरावृत्ति वद्गीत” मिति। ब्रह्मा, मा, माराधयत, आराधितवानित्यर्थः, अत्र ब्रह्मशब्देन विखना उच्यते। विखनश्शब्दादीनां चतुर्मुखवाचकत्वं तयो रभेद श्चाग्रे व्यक्ति करिष्यते। विखनसापर नामधेयो ब्रह्माभगवन्मु खात् ब्रह्मा भगवन्मुखात् श्रीशास्त्र मधिगम्य भृग्वादिभ्य उपदेशेति भागवतेन्यत्र चाभिधीयते। मोकैक फलदं धर्मं भगवदाराधनं। भागवते एकादशे -“क्रियायोगं समाचक्ष्व भगव दाराधनं प्रभो” इत्यारभ्य “निस्सृतं त्वन्मुखां भोजा द्यदाह भगवानजः, पुत्रेभ्यो भृगुमुख्येभ्यो देव्यैच भगवान् भव” इति। वृद्धहारीत स्मृतौ अष्टमाध्याये -“अथ वक्ष्यामि राजेन्द्र विष्णुपूजा विधिं परं, श्रातं महर्षिभिः प्रोक्तं वसिष्ठाद्यैः पुरातनैः, वैखानसैश्च द्वितीयाधिकारः 31 भृग्वाद्वै” रिति भृग्वादीनां वैखानसत्वं; विखनश्शब्द वाच्य ब्रह्म पुत्रत्वात्, तदुक्ति मनुसृत्य श्रीशास्त्र रचयितृत्वात्, तच्छिष्यत्वाच्छ।

श्री-सूत्रोक्त-निर्गुणाश्रयणादीनां समीचीनाचार्थः

ननु भगवता विखनसा सूत्रे – “सगुणे ब्रह्मणि बुद्धिं निवेश्यपश्चान्निर्गुण माश्रित्य नित्यं मोक्षेयत्नं कुर्या" दि तीर्यते। अतः कञ्चित्काल मेव, सगुणे सारे, ब्रह्मणिनारायणे, भक्तिस्तदर्शनं च कर्तव्ये। पश्चान्नि रुणस्य निराकारस्य ब्रह्मण आश्रयणं कार्यं, तेनैव मोक्ष अत्यवगम्यते। कथ मर्चनस्य मोक्षोपायत्व? मितिचे, दुच्यते - हस्त! भगवान् विखनाः सर्वाश्रमि साधारण्येन पूर्वं नित्यतया भगवदर्चनं मोक्षसाधनं प्रतिपाद्य कथं गुणोपासन कञ्चित्कालं विधाय निर्गुणाश्रयणं मोक्षोपाय मभिधास्यति? बुद्धिं निवेश्यति भगवति भक्तिं विधाय तस्यां निश्चलायां निर्गुणं निराकारम्ब्रह्माश्रित्य सर्वत्र वासुदेवोवस्तिति भावयन् नित्य मा मोक्षं प्रयत्नं भगवदाराधनरूप मुद्योगं कुर्या दिति। श्रूयतेच -“एतै रुपायै र्यतते यस्तु विद्वा” निति। यतनं नाम भगवदाराधन रूप मेव। गीयते च भगवता “सततं कीर्तयन्तो मां यतन्ति" श्चेति। यतन इत्यस्य भगवदालय निर्माणनन्दन वन पालनादिकार्योद्योग इति भाष्येक् भहितं। यदि निर्गुणाश्रयणस्य केवलं मोक्षोपायत्वमभविष्य, तरि निर्गुण माश्रये दित्येवाभि धास्यति यथाबुद्धिं निवेश्यत्युक्तं, तधानिर्गुणमाश्रित्ये त्युक्तं। त्युक्तं। यत्नं कुर्यादित्याह। यत्नश्च तदुपाय प्रवर्तनं, उपायस्तु भगवदाराधनरूपः गीयते भगवता -“चतुर्विधा भजन्तो मां जनास्सुकृतिनोकर्जुन, आर्तो जिज्ञासु रर्दारी ज्ञानी च भरतर्षभ” इति। अनेन ज्ञानिनोपि भगवद्भजन मावश्यक मित्यवगम्यते आजीवं भगवानर्चनीय इति नात्रसंशयः। भगवत्पा केवल मव्यक्तोपासनस्य क्लेशमहत्त्व मुच्यतेपा - “क्लेशोधिकतर सेषा -मव्यक्ता सक्तचेत सा” मिति। उत्तं च सगुणोपासकानां युक्त तमत्वं -“न विष्ण्वाराधना त्पुण्यं विद्यते कर्मवैदिकं, सर्वेषा मेव धर्माणा 32 उत्तम ब्रह्मविद्यासारः मुत्तमो वैष्णवो विधिः” इति च। धर्माणां मोक्षधर्माणं, वैष्णवोविधिः, विष्णुपूजास्तुति नमस्कारादि विधान मित्यर्थः। अन्यत्र च “एष मे सर्वधर्माणां धर्मोधिकतमो मत” इत्यादि च। एष धर्म इति। सर्वदुःखातिक्रमणसाधन धर्म इत्यर्थः। पूर्वत्र -“सर्वदुःखातिगो भवे” दित्युक्तेः। अन्यत्र यावज्जीवं विष्ण्वर्चनं विधीयते -“नित्यं विष्ण्वर्चनं परमि” ति। ननु “योगिन स्त्रीविधा भवन्ति" त्यारभ्य भगवान् विखनाः सम्भक्तनाम्नां योगिना माचार मेव माह - “तत्तति पादनागमं श्रोत्रेण श्रुण्वन्ति चक्षुषा देवताकारं पश्यन्ति घ्राणेन गन्ध मनुभवन्ति" त्यादिना। अतस्सम्भर्त विषयमात्र मर्चनादिकं स्यात्, कथं सर्वसाधारण्ये नास्य नित्यत्व? मिति चे, दुच्यते - इदं न भगवदर्चनादिपरं; देवताकारं पश्यन्तीत्यादिना देवतासामान्ये नाभिधानात्। तेन हि पूर्वं मुमुक्षूणां साधारण्येन नित्यं भगवदर्चनं विहितं। वक्ष्यति च “सगुणे ब्रह्म" णित्यादिना। सगुणं नाम साकारं, नारायणरूपं ब्रह्मेत्यर्थः। तस्या प्यर्चास्वरूपत्वं वक्तव्यं। बुद्धिं निवेश्यति। तत्र बुद्धिनिवेशन स्य सुलभत्वात्। उच्यते च श्रीशास्त्रे भगवता - भृगुणा सगुणं श्रेष्ठं सकलं कौतुकार्चनं, सकामाकामयो र्भोग्य मैहिकामुष्मिक प्रद” मिति, कौतुक शब्दिन बिम्ब मुच्यते। श्रीशास्त्रे कौतुकशब्दः पञ्चनु बेरे ष्वन्यतमवाचक उच्यते। आमुष्मिकं मोक्षः। यत्नं कुर्यादिति। तदर्चनध्यानादि पूरस्य यत्नस्य विवक्षितत्वाच्छ। तत्रनिर्गुणोपासन मात्रं यदि विवक्षितं निर्गुण माश्रये दित्ये तावता अलं। बुद्दि निवेश्य निरुण माश्रित्येति निवेशनाश्रयणयोस्तु ल्यतयोक्ते स्तदुभयानुकूलो व्यापरोयत्न इति युज्यते। तत्र सगुणे निवेशनानुकूलो व्यापारः तदर्भाप्रतिष्ठापनाराधनारूपः। निर्गुणा श्रयणानुकूल व्यापारस्तु। केवलं सर्वत्र वासुदेवोवस्तत्येवं भावनारूपः। निर्गुणा पेक्षया सगुण मेव परमिति न संशयः। निर्गुणं हेयगुणरहितमात्रं, सगुणन्तु समस्तकल्याण गुणभूषितं। श्रीशास्त्रे मरीचिराह - “एवं सालम्बं " द्वितीयाधिकारः 33 सकळं सङ्कल्प्य” इत्यारभ्य “कल्याण गुणनिधिं ध्याये” दिति वा साधिकारे भृगु राह। - “अव्यय स्या व्य रूपे तु आकाश स्योपम स्स्मृतः एतैस्तु निष्कळं नाम परमात्मेति कीर्त्यते। निष्कळं, सकळं त्रिधा, सर्ववादस्तु सन्देहैः पूर्वपक्षस्तु निष्कळं। निष्कळं सकळं ब्रह्म इति शास्त्रस्य निश्चयः, निष्कळं पूर्व मेव स्यात्पश्चात्सकळ मुच्यते। निष्कळातृकलो जातः सर्यत्र परिपठ्यते, पुष्पे नष्टे फलं नास्ति तस्मात्स कळनिष्कशा, एवं तु सकळं प्रोक्तं गुह्य मेत दुदाहृत” मिति। अय मर्थः - ब्रह्मणो निष्कळस्वरूप माकाशो पमं नीरूपं, सर्वव्यापकमित्यर्थः। परमात्मनो रूपं त्रिविधं निष्कळं, सकळं, निष्कळसकळं चेति। अत्र केचित् केवलं निष्कळ मिति, केचित् केवलं सकळ मिति च विवदन्ति। अत्र केवलं निष्कळ मिति पूर्वपक्षः सिद्धान्तस्तु निष्कळात्सकळं भवतीति। तत्र दृष्टान्तः पुष्पात्फल मिति। अनेन दृष्टान्तेन पुष्पापेक्षया फलस्य भोग्य त्वा चैष्ठ मवगम्यते, श्रुत्या च भगवद्गुण श्रवणादि प्रार्थन मुच्यते - “भद्रं कर्णेभिश्रुणयाम देवाः यदायु” रीति। अय मरः, हे देवाः, यजत्राः भगवन्तमाराधयन्तः, वयं, कर्णेभि हे शातैः भद्रं सर्वमङ्गळं तद्गुणं, श्रुणयाम, भद्रं, अक्षिभि र्नेतः, तत्स्वरूपं, पश्येम, स्थिरै रङ्गै रुपलक्षिताः तुषुवांसः तं स्तुवन्तः, तनूभिः, देवस्य नारायणस्य हित मनुकूलं, आयु, र्व्यशेम प्राप्नुवान, इति। अत्रदेवान् प्रति प्रार्थनायां देवहित मित्यत्र देवशब्दस्य परमात्मपरत्वं युक्तं। [श्रु] “एको देवो बहुधा सन्निविष्टः एकः पुरस्ताद्य इदं बभूव इत्यारभ्य “आपुषे तु देव” इति। अत्र देव शब्देन नारायणः प्रतिपाद्यते; रुद्रादीनां पूर्वत्रापरत्र च गृहीतत्वात्। “सहस्रशीर्षं।।।।विश्वं नारायणं देव” मिति श्रवणात्। ननु “दहरं विपाप्म" मित्यारभ्य “तस्मिन् यदन्त सदुपासितव्य” मिति रुद्रस्य दहरोपास्यत्वं श्रूयते, पूर्वं तत्र ‘विश्वाधिको रुद्रोमहर्षि’ रीति सत्वा; दितिचे, न्न; [श्रु] “स नो देव श्शुभया स्मृत्या संयु नक्तु" इति तस्य ज्ञानदातृतया 34 उत्तम ब्रह्मविद्यासारः प्रार्थितत्वात्। शङ्करान मन्विच्छे" दिति वचनेन तस्य ज्ञानप्रदत्व मनगम्यते। ततः ‘यस्मा त्परं नापर मस्ती’ त्यारभ्य “पूर्णं पुरुषेण सर्व" मित्यादिना पुरुष शब्द वाच्यः परमपुरुषः दहरोपास्य उच्यते। दहरं नाम हृदयाकाशं, तस्मि न्नुपास्यत्वं नारायणस्येति बह्वॄश्रुतय स्मृतयश्च निगदन्ति। [श्रु] “स य श्चायं पुरुषे य श्चासा वादि त्ये, स एक” इत्युच्यते। अदित्ये नारायणस्य वास्तव्यत्व छान्दाग्यादि सिद्धं। इत्यल मत्र विस्तरेण। नन्वत्र उपासितव्य मिति उपासनशब्देन ध्यानं विधीयते, ततोयत्र यत्रोपासनं विधीयते नार्चनं तत्र तत्र भवतीति चे, न्न ; उपासनशब्दः प्रायो बाह्यकरण व्यापार एव प्रयुज्यते। देव मिव आचार्य मुपानी तेत्यत्र किं ध्यानं विधेयं? शुश्रूषा हि तदुपासनं। उपासन मौपासन मिति चाभिन्नार्थं। अग्नौ होमक्रिया त थोच्यते। सन्ध्या मुपास्ये त्यत्र किं ध्यानमात्र मुच्यते? अपि तु ध्यान सहितं जले नार्घ्यप्रदानादिकं? न च युगपतच् ध्यान बाह्य करण व्यापारयो स्सम्भवो नेति वाच्यं; सम्भव स्याविरोधात्। जय संहितायां “शयनासनयानादा वासक्त श्चापि भोजने, हृद्गतं न त्यजे ध्यान मानन्द फलदं हित” मिति। विष्णुधर्मे भगवान् शौनक आह “उत्तिष्ठं श्चिन्तय हरिं प्रजं श्चिन्तय केशवं, भुञ्जं श्चिन्तय गोविन्दं स्वपं श्चिन्तय माधव” मिति। अत एवाह भगवान् - “ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः, अनन्येनैव योगेन मां ध्यायन्त उपासत" इति। अत्र ध्यानयुक्त मर्चन मुपासन शब्दि नोच्यते। एवञ्च भगवदाराधनपरत्वं जन्मनः फल सिद्धं। उक्तं च - “मनीषि णो हि ये केचि द्यतयो मोक्षकाङ्क्षिणः, तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरि-” “अनन्या श्चिन्तयन्तो मां योजनाः पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं शरीरारोग्य मर्थांश्च भोगां शैवानुषङ्गिकान्, ददाति ध्यायिनां नित्य < सन्ततं द्वितीयाधिकारः 35 मपवर्गप्रदो हरिः समस्तलोक नाथस्य देवदेवस्य शार्णिणं, साक्षा द्भगवतो विष्णोः पूजनं जन्मनः फल” मिति। ननु भगवद्विखनस्सूत्रे - यो सौसोहङ्कयोकं सोsसाक वित्यात्मो पासनक्रमेण वा सन्दधीत" इति। तथा श्रीपाञ्चरात्रे - “योकांसोक मनेनै वा प्यद्वै तेन सदैव हि, एव मेव समभ्या सान्मतिमान् छिन्न संशयः। तत्प्रभावाच्छ तेनैव तथाकालेन जायते" इत्यारभ्य “ध्यातृध्येयाविभागेन यावत्तन्मयतां व्रजेत्। ब्रह्मसम्पद्यते तदे” ति च जीवब्रह्मणो रै क्याभिधाने सति कथ मुपास्योपासक भाव इति चे, दुच्यते श्री वैखानस सूत्र व्याख्याने श्रीश्रीनिवास वेदान्त देशिकिन तदर उक्तः। जीव ब्रह्मणो श्शरीर शरीरिभावे नैक्यं, अथवा SSत्मोपासनक्रमे णेति “मनोब्रह्म उपासिते" त्यादा विव स्वात्मनि परमात्म दृष्ट्या उपासनं विहित मिति ज्ञेयं। श्रीपाञ्चरात्र रक्षायां श्री वेङ्कटनाथ वेदान्त देशिके नैव मेव समर्थितं। अन्यधा - “परमं साम्य मुपैति” “मम साधर्म्य मागता" श्रुतिस्मृति विरोध इति। श्रीविखनसा ब्रह्मपद मभ्येती त्ये वोक्तं न तु तन्मयोभव तीति। उच्यते च -“तादात्म्यानुसन्धानं स्वस्य तत् पूजार्हत्वसिद्धय” इति - “न्यासेन देवमन्त्राणां देवतादात्म्य सम्भवात्, अप्राकृताङ्ग करणा त्पूजा मर्हति साधक” इति। देवमन्त्राः पुरुषसूक्तदः, तै र्न्यास श्शास्त्रोक्त प्रकारं “वैष्णवं वामन मालभेत स्पर्थमावो विष्णु रेव भू त्वेमान् लोका नभिजय” तीत्यादौ तादात्म्यप्रतिपादनं साम्य एव पर्यवस्यति। तथा ब्रह्म सम्पद्यते तदा” इत्यादौज्ञेयं। नित्यशुद्धे भगवति अशुद्ध मात्मानं। संयोज्या भेद भावनायां स्वात्मापि विशुद्धो भवति, अथ तदाराधन योग्योभवती त्याश यः। “य थोदकं शुद्धीक शुद्ध मासिक्तं तादृगेव भवति, एवं मुनेर्विजानत आत्माभव’ तीति काठकोपनिषदि श्रूयते। 36 V उत्तम ब्रह्मविद्यासारः

काठकोपनिषन्-मन्त्राणां विग्रहाराधन-परत्वम्

तत्रोपनिषदि परमात्मनो निष्कळस्वरूपमभिधाय तस्यसुखे नोपासितु मशक्यत्वा त्सुखोपास्यं प्रतिमार्चन रूपं प्रतिपाद्यते। “न सन्दृशे तिष्ठति रूप मस्य न चक्षुषा पश्यति कश्च नैनं, हृदा मनीषा, मनसार भिक्षप्तो यय एनं विदु रमृता स्ते भवन्ति” इयं श्रुतिः परमात्मनो बिम्बक्लो श्रीश्रीनिवास दीक्षितैः प्रमाणतयो पन्यस्ता। तदुक्तोवर्थश्च पूर्वं दर्शितः। इत ऊर्ध्वमासमाप्ति तदनुगुण्येनार्थः प्रदर्श्यते - “यदा पञ्चावतिष्ठन्तो ज्ञानानि मनसा सह, बुद्धिश्च न विचेष्टेत ता माहुः परमां गतिं।” अय मरः यदा भगवदाराधन काले, पञ्चज्ञानानि नेत्रादीन्द्रियाणित्यर्थः। मनसा सह साकारेपरमात्मनि, अवतिष्ठन्तो निष्ठितानि भवन्ति नेत्रं तद्रूपे, श्रोत्रं तद्गुणश्रवणे, त्वक् तस्य स्पर्शे, जिह्वा तन्मन्त्रोच्छारणे, घ्राणं तदर्पिततुलस्याघ्राणेच, प्रसक्तानि तां तदवस्थां, परमां गति माहुः इत्यभिप्रायः। [श्रु] “तां योग मिति मन्यन्ते स्थिरा मिन्द्रियधारणां, अप्रमत्तस्तथा भवति योगी हि प्रभवाप्ययौ

मरः’ अय मर्थः

तां भग वद्विषयां, स्थिरां इन्द्रियधारणां योग मितिमन्यन्ते। [श्रु] “नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा। अस्तिति ब्रुवन्तो न्यत्र कथं त दुप लभ्यते”। अयमर्थः - परमात्मा वाचान लभ्यः, तथान मनसा, तथा न चक्षुषा, अस्तिति ब्रुवतः, आस्ति कस्ये त्यर्थः, तदह्म। अन्यत्र हृदया दर्चाया श्चान्यत्र स्थाने कथ मुपलभ्यते? इति [श्रु] “अस्तित्ये वोपलब्धव्य स्तत्व भावेन चोभयोः, अस्तित्येवोपलब्धव्य स्तत्वभावः प्रसीदति”। उभयोर्पदयेबिम्बेच, तत्त्वभावेन तत्त्व स्वरूपेण, उपलब्धव्यो वेद्यः तत्त्वभावः परमात्मस्वरूपं, प्रसीदति परमात्मस्वरूपं, प्रसीदति सुभोपास्यं भवतीत्यर्थः। “अङ्गुष्ठमात्रः पुरुषोकन्तरात्मा सदा जनानां हृदये सन्निविष्टः, तं स्वा च्छरीरा तपृहे म्मुञ्जादि वेषिकां धैर्येण तं विद्याच्छुक्र ममृत” मिति। अथ हृदय निष्ठितः परमात्मा कथं प्रतिमाया मावाह्यः? इत्यह जनानां हृदये सदाद्वितीयाधिकारः 37 सन्निविष्टः अन्तरात्मा पुरुष श्रीमन्नारायणः, अङ्गुष्टमात्रः V मनुष्यहृदया नु रूपॊङ्गुष्ठ प्रमाण स्सन्, जनहृदये, स्थित इत्यर्थः। तं पुरुषं, मुञ्जात्पण विशेषात्, इषिकां तदन्तस्थितामिन, स्वात् शरीरात् धैर्येण प्रवृहेत् पृथक्कुर्यात्, हृदया’ द्बिम्बे आवाहये दित्यर्थः। अत्रान्तरात्मा पुरुष इति परमात्मा गृह्यत इति वेदान्त शास्त्रि प्रमिताधिकरणे निर्णीतं। तं विद्यात् उपासीत, आराधये दिति यावत्। भगवता मरीचिना श्रीशास्त्रि उच्यते - “एवं सदा ध्यातु मशक्यत्वा द्भिम्बाद् ष्वावा ह्यार्चये” दिति। न चा त्र हृदय एव ध्येयत्व मभिधीयते इतिवाच्यं; तथासति पृथक्करणोक्ते र्व्यर्थत्वात्। यदि हृद्युपास्यत्वं विवक्षितं। तर्हि तं विद्यादि त्यलं। अत उक्तार एव पृथक्करणे स्वरसः; मुन्दोपनिषदि “यदा पश्यत्यन्य मिश मस्य महिमान” मिति वाक्येचायमर्थः प्रत्यभिज्ञाप्यते। अन्यं स्वव्यतिरिक्तं प्रतिमारूपिणं, पश्यतीत्यर्थः। इति श्रीरामभद्रदासदासस्य श्री वैखानसात्रेयकुल तिलक श्रीवरद राजसूरिनन्दनस्य श्रीकृष्णाम्बि कागर्भसम्भवस्य श्रीविखनसाचार्यचरणार विन्द स्मरणजनित श्रीमन्नारायण पारम्यावगमस्य सुन्दर रा जस्य कृति षूत्तमब्र ह्मविद्यासारे द्वी तीयोक धिकारः, श्रीरामभद्रः प्रियतां। 38