श्रीर् अस्तु श्री-रामचन्द्र-पर-ब्रह्मणे नमः श्री-विखनसे नमः उत्तम-ब्रह्म-विद्या-सारः प्रथमाधिकारः
मङ्गलाचरणम्
नमो विखनसे तस्मै नारायण-तनू-भुवे ।
येन श्रुतीस् समालोच्य सूत्रं हरि-परं कृतम् ।
वन्दे तस्य मनस्-सृष्टान् मुनीन् श्री-शास्त्र-तत्परान् ।
भृगुं मरीचिम् अत्रिं च काश्यपं च महा-मुनिम् ।
श्री-श्रीनिवासमखिनं वन्दे वेदान्त-देशिकम् ।
उद्धृतं श्रुति-दुग्धाब्धेर् ये नार्चा-महिमामृतम् ।
जनकं मामकं वन्दे कृष्णैक-नियत-व्रतम् ।
यो मां तनु-भुवं श्रीमद्-राम-भद्र-करे न्यधात् ।
धनञ्जय-रथा-रूढं पाप-तूल-धनञ्जयम् ।
प्रपद्ये प्रार्थयन् ज्योतिस् तस्यैवाराधनं धनम् ।
उपोद्घातः
इह खलु श्री-वैखानस-कुल-मणि-दीपस् सर्व-तन्त्र–स्व-तन्त्रश् श्री-वेङ्कटेश-पदारविन्द-सपर्या-निरत-हृदयश् श्रीमच्-छ्रीनिवासाध्वरी-वेदान्त-देशिकश् शारीरक-मीमांसाभाष्ये “भगवद्-आराधनम् एव श्रेयान् मुक्त्य्-उपाय” इति नाति विस्तरं निर्धार्य तद् एव प्रपञ्चयितुकाम उत्तम-ब्रह्म-विद्याख्यं ग्रन्थम् अचीकलत् । स तु लेखक-प्रमादाद् अविशुद्ध-रूपस् समभूत् । तद्-विशोधनाय बहूनां कोशानाम् अनुपलम्भाल् लब्ध-कोश-दृष्टानि श्रुति-स्मृत्य्-आदि-प्रमाणानि स्व-दृष्टानि च तानि यथा-मति मेलयित्वा तद्-अभिप्रायानुसरणेन सजन-प्रीतये उत्तम-ब्रह्म-विद्यासारो नाम ग्रन्थः प्रणीयते ।
जनकं पितरं जनकराजं च, कृष्णैक-नियत-व्रतं कृष्णाख्यायां भार्यायां कृष्णे भगवति च नियत-व्रतं, मां स्व-पुत्रीं मां लक्ष्मीं, सीता-रूपाम् इत्य् अर्थः
अत्र सन्तः प्रहृष्येयुर् ये गुण-स्पृहयालवः ।
पुरोभागी तु नो हृष्येद् यस्य नास्ति दयालवः ।
[[P1]]
ब्रह्मणो विखनो वैखानस-शब्द-वाच्यत्वम्
एवं
ब्रह्मा देवानां प्रथमस् सम्बभूवव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्म-विद्यां सर्व-विद्या प्रतिष्ठाम् अथर्वाय ज्येष्ठ-पुत्राय प्राह
इति मुण्डकोपनिषदि श्रूयते । अत्र ब्रह्मेति चतुर्-मुखः प्रतिपाद्यते । स एव विखनो विखनस वैखानसादि शब्द-वाच्यश् च । व्यास-निघण्टौ
वैखानसो विखनसो विखनाश् च विरिञ्चन
इत्य् अभिधीयते श्री-भागवते — “विखनसा ऽर्थितो विश्व-गुप्तय” इति । तस्य तथात्वं च भगवत्सं भूतत्वात् भगवान् हि प्रथमं विखनो वैखान शब्द-वाच्यः ।
धेनुर्वहाणाम् अदितिस् सुराणां ब्रह्मा ऋभूणां विखना मुनीनाम्
इति श्रुतिः । मुनीनां हिरण्य-गर्भाणाम् इत्य् अर्थः अण्ड-बहुत्वाद् बहुवचनम् अण्डम् प्रति भिन्नो हिरण्य-गर्भः, विखना नारायणो, जन्म-कारणम् इत्य् अर्थः । एवं नारायणस्य विखनश्-शब्द-वाच्यत्वं सिद्धम् ।
तथा स वैखान-शब्द-वाच्यश् च । भारते —
यत् तस्मिन्न् उपलभ्यं तु तत् तेजस् तत् त्रयीमयम् ।
तद् वैखानः परं ब्रह्म इति वेदविदो विदुः
इति । तत्र सहस्र-नामाध्याये “वैखानस् सामगायनः” इति चोक्तत्वात् । विभागात् पूर्वं समस्तानां वेदानां च वैखानस-शब्द-वाच्यत्वं भगवत्-सम्भूतत्वात् । सीतोपनिषदि —
हरेर् मुखान् नादः, तन्-नादाद् बिन्दुः, बिन्दोर् ओं कारः, ओं कारात् परतो राम-वैखानस-पर्वतः, तत्-पर्वते कर्म-ज्ञानमयीभिर् बहु-शाखा भवन्ति । तत् त्रयीमयं सर्वार्थ-दर्शनं, ऋग्-यजुस्-साम-रूपत्वात् त्रयीति परिकीर्तिता
इत्य् आरभ्य
वैखानस ऋषेः पूर्वं विष्णोर् वाणी-समुद्भवेद्
इत्य् आधिकं श्रूयते । वैखानस ऋषेः, ब्रह्मण इत्य् अर्थः, तस्यैव वैखानस-शब्द-वाच्यत्वात् । उच्यते च —
वेदानां व्यसनात् पूर्वं प्रग्रूपं मिलितं तु यत् ।
तां तु वैखानसीं शाखाम् इति वेदविदो विदुर्
इति ।
[[P2]]
भृगोर् अथर्व-शब्दाभिधेयत्वम्
एवं च विखनाः अथर्वाय, भृगुवे इत्य् अर्थः। तस्यैव ज्येष्ठ-पुत्रत्वात्। श्रूयते च — “अथर्वाणो भृगवस् सोम्यासः” इति। अथर्व-शब्दो ऽकारान्तो नकारान्तश् च प्रयुज्यते। मन्त्रिकोपनिषदि —
मन्त्रोपनिषदं ब्रह्म-पद-क्रम-समन्वितम्,
पठन्ति भार्गवा ह्य् एते ह्य् अथर्वाणो भृगूत्तमाः
इति। अत्र ह्य् उपनिषदि भगवद्-आराधन-रूप-ब्रह्म-विद्या प्रतिपाद्यते। ब्रह्मणा भृग्वादिभ्यः पूर्वं भगवद्-आराधनम् उक्तम् इति बहुभिर् वाक्यैर् अवगम्यते। भागवते एकादश-स्कन्धे —
क्रिया-योगं समाचक्ष्व भवद्-आराधनं प्रभो !
इत्य् आरभ्य
पुत्रेभ्यो भृगु-मुख्येभ्यो यद् आह भगवान् अजः
इति भगवन्तम् उद्धवः पृच्छति। सर्व-विद्या-प्रतिष्ठाम् इति, सर्वासां विद्यानां प्रतिष्ठां मूल-भूताम् इत्य् अर्थः, उत्तमाम् इति यावत्। ब्रह्म-विद्यां जप-हूतार्चन-ध्यानात्मिकाम् इत्य् अर्थः। अत्राग्रे श्रूयते।
ब्रह्म-विद्याया भगवद्-आराधन-रूपत्वम्
तस्माद् आत्म-स्थं ह्य् अर्चयेद् भूति-कामः
इति — “क्रियावान् एष ब्रह्म-विदां वरिष्ठः” इति च विधीयते च भगवता विखनसा सूत्रे मोक्षोपायतया भगवद्-अर्चनं
भक्त्या भगवन्तं नारायणम् अर्चयेत् तद्विष्णोः परमं पदं गच्छतीति विज्ञायत
इति। विज्ञायते, उदाहृत-श्रुत्य्-आदिभ्यस् समवगम्यत इत्य् अर्थः। ननु “विद् ज्ञाने” इति धातोः क्यपि विद्या-शब्दो निष्पद्यते; सामान्येन ब्रह्म-ज्ञानस्य मोक्ष-साधनत्वायोगात्। भक्ति-ध्यानादि-रूप-ज्ञान-विशेषो विवक्षा-विषयो ऽस्तु कथम् अर्चनादि-क्रियाया ब्रह्म-विद्यात्वस्याद्? इति चेद्,उच्यते; — [श्रु]
यन् मनसा ध्यायति, तद् वाचा वदति, तत् कर्मणा करोति
इति। वाग्-व्यापार–कायिक-व्यापारयोश् च ज्ञान-मूलकत्वाद् विद्यात्वं सङ्गच्छते। भगवद्गीतायाम् —
कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृद्
इति। [भाष्यम्।]
[[P3]]
अकर्म-शब्देनात्र कर्मेतरत् प्रस्तुतम् आत्म-ज्ञानम् उच्यते। कर्मणि क्रियमाण एव आत्म-ज्ञानं यः पश्येत्, अकर्मणि, चात्म-ज्ञाने वर्तमान एव यः कर्म पश्येत्, किम् उक्तं भवति? क्रियमाणम् एव कर्मात्म-याथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच् छ ज्ञानं कर्मण्य् अन्तर्गततया कर्मकारं यः पश्येद् इत्य् उक्तं भवति। क्रियमाणे हि कर्मणि कर्तृ-भूतात्म-याथात्म्यानुसन्धान-गर्भं कर्म यः पश्येत्, स बुद्धिमान् कृत्स्न-शास्त्रार्थ-वित्, मनुष्येषु स युक्तः मोक्षायार्हः, स एव कृत्स्न-कर्म-कृत् कृत्स्न-शास्त्रार्थ-कृत्
इति। एवं सामान्य-कर्म-स्वात्म-याथात्म्यानुसन्धानेन ज्ञानाकारतां पश्यतां युक्तत्वे सति, भगवद्-अर्चनादि-क्रिया-स्वात्मनो भगवच्-शेषतानुसन्धानेन भगवद्-विषय-रति-रूप–ज्ञान-विशेषाकारतां पश्यतां युक्ततमत्वे कः संशयः? अत एव
आत्म-क्रीड आत्म-रतिः क्रियावान् एष ब्रह्म-विदां वरिष्ठ
इति श्रूयते। उच्यते च — “भक्त्या भगवन्तं नारायणम् अर्चयेद्” इति। किं च विद्या-शब्दो ऽत्र ऋग्-आदिष्व् अपि प्रयुज्यते। [श्रु]
द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च। तत्रापरा ऋग्-वेदो यजुर्-वेदः साम-वेदो ऽथर्व-वेदः
इत्य्-आदिना। एवम् अपर-विद्या–स्व-रूपम् उक्त्वा ततः पर-विद्या ऽभिधीयते -
अथ परा यया तद् अक्षरम् अधिगम्यत
इति। यया ब्रह्म-प्राप्ति-साधन-भूतया - भगवद्-आराधन-क्रिया-रूपया, तद् अक्षरम् अधिगम्यते, सा परा विद्येत्य् अर्थः।
भगवद्-आराधनस्य मोक्षोपायत्वम्
ननु अस्याम् उपनिषदि — [श्रु]
प्लवा ह्य् एते अदृढा यज्ञ-रूपा अष्टादशोक्तम् अवरं येषु कर्म
इति यज्ञ-रूपाः प्लवास् संसारोत्तारणे अदृढा इति श्रूयते । कथं भगवद्-यज्ञस्य मुक्त्य्-उपायत्वम् अभिधीयत? इति चेद्, उच्यते। हन्त! तत्र भगवद्-आराधनत्वम् अननुसन्धाय फलेच्छया कृतानि कर्माणि निन्द्यन्ते, न तु सद्वारकतया क्रियमाणा भगवद्-आराधन-रूपा यज्ञाः; तेषाम् अपि मोक्ष-साधनतया, प्रतिपादितत्वात्, गीतायाम् —
अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः।
स सन्यासी च योगी च न निरग्निर् न चाक्रियः
इति
[[4]]
स्व-कर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानव
इति च। तथा सत्य् अद्वारकतया कृतं भगवद्-यजनं मोक्षोपाय इत्य् अत्र न हि संशयः, उदाहृतायाः “प्लवा…” इत्य्-आदि-श्रुतेर् अयम् अर्थः — येषु - अवरं श्रौत-कर्मापेक्षया किञ्चिद् अपकृष्टं, कर्म-निषेकादिकम्, अष्टादशेत्य् उक्तम्, एते फलापेक्षया कृता यज्ञ-रूपाः प्लवा अदृढा इति, एनां श्रुतिम् अनुसृत्य भगवता विखनसा सूत्रे —
अथ निषेकादि-संस्कारान् व्याख्यास्याम ऋतु-सङ्गगमन-गर्भाधाने
इत्य् आरभ्य “पाणि-ग्रहणानी"त्य् अष्टादश संस्काराश् शारीर-कर्माण्य् अष्टादश विहितानि।
अर्चनस्य कर्माङ्गत्वं मोक्षोपायत्वं च
ननु कर्म-योगो, भक्ति-योग ज्ञान-योगोश् चेति त्रि-विधा योगा उच्यन्ते। तत्र भक्ति-योगस्य श्रेष्ठ्यं च प्रतिपाद्यते —
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः
इति। भगवान् विखनाः कर्म-विधान-प्रकरणे भगवद्-अर्चनं विधत्ते। ततस् तस्य तत्रैवान्तर्भावो युक्तः। तथा सत्य् अर्चनस्य कथं श्रेष्ठ्यम्? इति चेद् उच्यते, तत्रार्चनं विधाय
यज्ञेषु निहीनं तत् सम्पूर्णं भवति
इति तस्य सर्व-यज्ञ-पूरकत्वम् अभिधाय पश्चात् “भक्त्या भगवन्तम्” इत्य्-आदिना मोक्षोपायत्वं प्रतिपाद्यते। ततस् तस्य कर्माङ्गत्वं न मुक्त्य्-उपायत्व-विरोधि। उद्गीथोपासनवत्। एतद् उक्तं भवति। छान्दोग्ये [श्रु]
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत
इत्य् उद्गीथोपासनं क्रत्व्-अङ्गाश्रयं श्रूयते। शारीरक-मीमांसायां [सूत्रं]
तन्-निर्धारणा-नियमस् तद्-दृष्टेः पृथग् घ्य् अप्रतिबन्धः फलम्
इति। अयम् अर्थः — तन्-निर्धारणस्य उद्गीथोपासनस्य नियमो न भवति; तद्-रहितस्यापि क्रत्व्-अनुष्ठान-दर्शनात्। तद्-उपासनस्य क्रतु-फलात् पृथग् अप्रतिबन्ध-रूपं फलम् इति। तत्र यथोद्गीथोपासन-रहितस्यापि क्रत्व्-अनुष्ठान-दर्शनेन तद्-उपासनस्य क्रतु-फलात् पृथग् वीर्यवत्तरत्व-फलं, तथा ऽत्र भगवद्-अर्चना-रहितस्यापि कर्मानुष्ठान-दर्शनेन अर्चनस्य कर्म-फलाद् अन्यत् तत्-सम्पूर्ति-रूपं फलं भवति। तद् आह स्फुटं —
[[P5]]
यज्ञेषु विहीनं तत् सम्पूर्णं भवति
इति। ततो विशेष-व्यक्ति-विशिष्टस्य तस्य मुक्त्य्-उपायतया मुक्ति-फलकत्वम् उच्यते — “भक्त्या भगवन्तम्” इत्य्-आदिना। इदम् अत्रावधेयं, ये तावत् सूत्रकारेण यज्ञ-सम्पूर्तये अर्चनं विहितम् अनुष्ठेयम् इति सामान्य-ज्ञानेन भगवन्तम् अर्चयन्ति, तेषाम् अर्चनं तद्-अङ्ग-भूतं सत् तत्-पूर्तये केवलं कल्पते। ये तु श्रुति-स्मृति-पुराण-भगवच्-छास्त्रैस् सूत्रकार-वचनैश् च परमात्मनो नारायणस्य जगत्-कारणत्वादिकं — परमया भक्त्या तद्-अर्चनस्य मुक्त्य्-उपायत्वं — प्रपन्नैर् अवश्य-कर्तव्यत्वं च ज्ञात्वा नियत-व्रताः फलाभिसन्धि-रहिताश् चार्चयन्ति, तेषां मोक्षैक-साधनतया भगवद्-अर्चनं प्रधानं भवति। यथा — [श्र]
ओम् इति ब्रह्म, ओम् इतीदग्ं सर्वम्, ओम् इत्य् एवं ध्यायथ
इत्य्-आदि-श्रुतिभिः प्रणवस्य ब्रह्मात्मकतां विज्ञाय त्रिमात्रकं तम् उपासीनानां तन्-मोक्ष-साधनतया प्रधानं भवतीति। एवं च भक्ति-योगे अर्चनं प्रधानम्। यथा क्रतु-प्रकरण-गृहीतस्याप्य् उद्गीथोपासनस्य मुक्त्य्-उपायत्वं न हीयते, तथा कर्म-प्रकरणे विहितस्याप्य् अर्चनस्य तथात्वं न हीयते। अतो ऽर्चनम् अपि क्वचिद् अङ्गत्वम् एवेति न दोषः। लोके च प्रधान-भूतो ऽपि महा-राजस् तत्-पुत्र-विवाहादि-समयेषु सभायाम् अप्राधान्यं प्राप्नोति। तेन तस्य किं प्राधान्य-हानिः? भक्ति-योगे ऽर्चनस्य प्राधान्यं भगवता ऽपि गीयते —
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु
इति। “मन्-मना भवेति” नैरन्तर्येण ध्यानं विधाय ततो “मद्-भक्तो मद्-याजी भवे"ति ध्यान-मात्रे ऽपरितुष्यन् भगवान् परम-कृपालुस् स्व-पद–प्राप्ति-प्रधानतयार्चनं विधत्ते। ततो विहितः प्रणामस् तु पूजान्ते कर्तव्यतया तद्-अङ्ग-भूत एव न हि पूजायां प्रणामस्य प्राधान्यम्, अपि त्व् अङ्गत्वम् एव। अत एव भगवान् विखनाः पूजादौ पूजान्ते च प्रणामं विधत्ते। अत्र “क्रियावान् एष ब्रह्म-विदां वरिष्ठ” इति श्रूयते। क्रिया नाम व्यापारः स च मानसो, वाचिकः, कायिकश् चेति त्रिधा भवति। परमात्म-विषय–त्रि-विध–व्यापारवान् ब्रह्मविद्-वरिष्ठ इत्य् उच्यते। तत् त्रितयं च विशदयति। मुण्डकोपनिषदि —
[[P6]]
तम् एवैकं जानथ आत्मानम् अन्या वाचो विमुञ्चथामृतस्यैष सेतुः। अरा इव रथ-नाभौ संहता यत्र नाड्यः स एषो ऽन्तश् चरते बहुधा जायमानः। ओम् इत्य् एवं ध्यायथात्मानं,स्वस्ति वः पराय तमसः परस्ताद्
इति। अत्र जानथ ध्यायथ इति तमसः परस्ताद् वर्तमानस्यात्मनः परमात्मनो नारायणस्य स्व-रूप–ज्ञान-ध्यान-रूप-व्यापारो विहितः। अन्या वाचो विमुञ्चथेति भगवत्-कीर्तन-स्तोत्र-वचनानि विना ऽन्यासां वाचां त्यागो विहितः। तेन कीर्तन-स्तुति-रूप-वाचिक-व्यापारो विधेयतयाभिप्रेतः। [श्रु]
तस्माद् आत्म-स्थं ह्य् अर्चयेद् भूति-कामः
इति —
उपासते पुरुषं ये ह्य् अकामास्, ते शुक्रम् एतद् अतिवर्तन्ति धीराः
इति चार्चन-रूप-कायिक-व्यापारो विहितः। एवम् अश्रुतं व्यापार-त्रयं विधत्ते भगवान् विखनाः —
तं यज्ञ-पुरुषं ध्यायन् पुरुष-सूक्तेन संस्तूय प्रणामं कुर्याद्
इत्य् आरभ्य “नारायणम् अर्चयेद्” इत्य् अन्तेन। तथा भगवान् वासुदेवश् चाह —
सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः।
नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासत॥
इति।
यतन्त इत्य् अस्य मत्-कर्मस्व् अर्चनादिकेषु तद्-उपकारेषु भवन-नन्दन-वन-करणादिकेषु च दृढ-सङ्कल्पा यतमाना
इत्य्-आदि-भाष्यम्। भागवते —
शृण्वन् गृणन् संस्मरयंश् च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते। क्रियासु यस् त्वच् चरणारविन्दयोर्
आविष्ट-चित्तो न भवाय कल्पते
इति। अत्र क्रियास्व् इति स्वाश्रमोक्त-कर्मस्व् अपि भगवन्-नाम-कीर्तनादीनां भव-ध्वंसकत्वम् उच्यते। तथा सति किं पुनर् भगवत्-क्रियासु तेषां तथात्वम्? न च [श्रु] “ब्रह्मविद् आप्नोति परम्” इत्य्-आदिभिर् वेदन-मात्रस्य।
[[P7]]
ब्रह्म-ज्ञान-मात्रस्य अमुक्त्य्-उपायत्वम्
इत्य्-आदिभिर् वेदन-मात्रस्य ब्रह्म-प्राप्त्य्-उपायत्वम् उच्यते, किमर्थम् अर्चनादिकम्? इति वाच्यम्। न हि वयं ब्रह्म-प्राप्तिं प्रति वेदन-मात्रं नोपाय इति ब्रूमः परं तु वेदनं नाम भक्ति-रूपं विशेष-ज्ञानम् इत्य् उक्तम्, तत् तु मनो-व्यापार-मात्रम्, तन्मात्रवद् अपेक्षया ब्रह्म-विषय-वाचिक-कायिक-मानस-व्यापारवन्तश् श्रेष्ठा इति। श्रेष्ठत्व-प्रयोजनं च ब्रह्म-सायुज्य-प्राप्तिः। यद् आह श्री-शास्त्रे भगवान् मरीचिः —
अथ समाराधनं चतुर्-विधं जप-हुतार्चन-ध्यानानि
इत्य् आरभ्य, जपा-लक्षणम् उक्त्वा — “तेष्व् अर्चनं सर्वार्थ-सिद्धिदम्” इत्य् अभिधाय —
विष्ण्व्-अर्चनम् एव कर्तव्यं नान्यथा परम-पद-प्राप्तिर्
इति। परम-शब्द-वाच्यत्वं वैकुण्ठस्यैव युक्तम् उच्यते हि —
आमोद-प्राप्तिस् सालोक्यं प्रमोद-प्राप्तिस् सायुज्यम्
इति। जपादिष्व् अर्चनस्य प्राधान्याद् एव भगवान् विखनास् तद् एव परम-पद-प्राप्तौ मुख्योपायतया विधत्ते — “नारायणम् अर्चयेद्” इति। उच्यते च —
अग्नि-होत्राश् च वेदाश् च तथा यज्ञास् सदक्षिणाः।
हरेर् नित्यार्चनस्यैते कोट्यंशेनापि नो समाः॥
इति।
सर्वे ऽपि वैदिकाचारास् सर्वे यज्ञास् तपांसि च। विष्णु-पूजा-विधेर् भेदास् तत्-कर्म-फलदो हरिर्॥
इति वचनेन सर्व-यज्ञानां भगवत्-पूजा-भेदत्वे ऽपि समूर्तार्चनस्य समानं भवन्तीत्य् अर्थः। आराधनं द्वि-विधम्, अमूर्तं समूर्तं चेति।
अर्चन-द्वैविध्यम्
तथोच्यते —
अमूर्तेति समूर्तेति द्विविधा सा च नामतः।
अमूर्ताऽग्न्य्-आहुतिः प्रोक्ता समूर्ता बिम्ब-पूजनम्॥
इति। अग्नाव् आहुति-रूपा यज्ञास् स-द्वारक–भगवत्-पूजा। तत्र तत्रोक्त-देवतान्तर्यामिता-द्वारा तद्-आराधनापेक्षया समूर्तार्चनस्य साक्षाद्-आराधनत्वाद् अद्वारकत्वं श्रेष्ठ्यं च। अद्वारकाराधन-क्रियावतां ब्रह्मविद्-वरिष्ठतया भगवल्-लोकेषूत्कृष्ठ–भूत-वैकुण्ठ-प्राप्तिर् उच्यते। श्री-विष्णु-पुराणे मरीचिर् आह —
अनाराधित-गोविन्दैर् नरैस् स्थानं नृपात्मज।
न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम्॥
अङ्गिराश् च —
यस्यान्तस् सर्वम् एवेदम् अच्युतस् साव्ययात्मनः।
तम् आराधय गोविन्दं स्थानम् अग्र्यं यद् इच्छसि॥
पुलस्त्यश् च —
परं ब्रह्म परं धाम यो ऽसौ ब्रह्म-पुरं तथा।
तम् आराध्य हरिं याति मुक्तिम् अभ्येति दुर्लभाम्॥
[[P8]]
श्री-भागवते एकादशे —
यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया।
ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मुनिः॥
इति। अस्य व्याख्या-प्रकारः —
आन्वीक्षिक्या पदार्थ-द्वय-शोधनेन — ममार्चन-ध्यानादिभिर् वा,
वा-शब्देनास्य पक्षस्य स्वातन्त्र्यं दर्शयति,
एतैर् उपायैर् योग्यं वरम् आत्मानं माम् अनुस्मरेत्, नान्यैः अतो ऽन्यन् न कुर्याद् इत्य् अर्थः
इति। जप-होम-रूपाराधनम् अपि प्रत्येकं द्वि-विधं भवति — अद्वारकं सद्वारकम् इति। तत्राष्टाक्षर-द्वादशाक्षर–पुरुष-सूक्त–पारमात्मिकादि-मन्त्र-जपो ऽद्वारकम्, इतर-मन्त्र-जपस् सद्वारकम्। उक्त-मन्त्रैर् होमो ऽद्वारकम्, इतर-मन्त्रैर् होमस् सद्वारकम्। श्री-शास्त्र्ते मरीचिर् आह —
सावित्री-पूर्वं वैष्णवम् ऋचं भगवन्तं ध्यात्वा ऽभ्यसेत् स जपः अग्नौ होमो हुतम्, गृहे देवायतने वैदिकैर् मन्त्रैः प्रतिमादिषु पूजयेत् तद् अर्चनम्, अष्टाङ्ग-योग-मार्गेण जीवात्मना परमात्म-चिन्तनं ध्यानम्
इति। अत्र होमस्यापि सावित्र्यादय एव मन्त्रा ग्राह्याः। सावित्र्या भगवत्-परत्वम् अग्रे व्यक्तीकरिष्यते। भागवते एकादशे —
विधिनापि हिते कुण्डे मेखला-वर्त-वेदिभिः।
अग्निम् आधाय परितस् समूहेत् पाणिनोदितम्॥
इत्य् आरभ्य
जुहुयान् मूल-मन्त्रेण षोडशर्चावदानतः
इत्य् अन्तं होमो विहितः। तत्राघारस् तु श्री-वैखानस-सूत्र-विधिना कार्यः; तस्य सर्व-प्रयोगाणां समन्त्रकतया भगवत्-प्रियतमत्वात्। मन्त्र-बाहुल्ये भगवत्-कीर्तनं हि बहुलं भवति —
वेदाक्षराणि यावन्ति पठितानि द्वि-जातिभिः।
तावन्ति हरि-नामानि कीर्तितानि न संशयः॥
इत्य् उक्तेः। यद्य् अपि “यज्ञानां जप-यज्ञो ऽस्मि” इति भगवदद्-उक्तेर् जपस्य श्रैष्ठ्यम् अवगम्यते; तथापि तस्यापि पूजायाम् अनुप्रवेशाद् भगवच्-चिन्तन-सम्भवाच् छ समस्त-करण-व्यापारस् सर्वेश्वर-विषयस् सम्भवतीति तस्याश् श्रैष्ठ्यं युज्यते। एकादश-स्कन्धे, अर्चनान्ते -
मूल-मन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम्
इति जपो ऽपि विधीयते। न च भगवद्-अर्चनम् आमुष्मिक-फल-मात्रकम् इति शङ्क्यम्;
[[P9]]
अर्चनेनैवैहिकामुष्मिक-सिद्धिः
अकामतः कृते ऽपि भगवत्-प्रसादे नैहिक-भोगस्यापि सम्भाव्यत्वात्। न हि तथा सति मोक्ष-विरोधः; पूर्वेषां केषाञ्चिद् भक्तानां भगवत्-सङ्कल्पेनोभयत्र-सिद्धि-दर्शनात्। भागवते —
अर्चन्न् उभयतस् सिद्धिं मत्तो विन्दत्य् अभीप्सिताम्
इति भगवद्-वचनात्। क्रतुश् चाह —
यो यज्ञ-पुरुषो यज्ञो योगो यः परमः पुमान्।
तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दन॥
इति —
किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतन
इति च। भक्त-वत्सले परम-कारुणिके पुरुषोत्तमे इह च भोगान् दत्त्वा मुक्तिं च दातुम् उद्युक्ते को वा रोद्धुं शक्नुयात्? किं च श्री-वैखानस-विधिनार्चनं भोग-मोक्षयोः सिद्धये भवतीति श्री-शास्त्रे प्रपञ्चितम्। अत एवाह मरीचिः —
तेष्व् अर्चनं सर्वार्थ-साधकम्
इति।
श्रूयते चैवम् —
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्॥
इति। स्वयम् एव भगवान् आह —
ददामि बुद्धि-योगं तं येन माम् उपयान्ति त
इति। उच्यते चाभियुक्तैः — श्लो.
यथावद् अधिकारिणां यजन-दान-होमार्चना
भर-न्यसन-भावना-प्रभृतिभिस् समाराधितः,
फलं दिशति देहिनाम् इति हि सम्प्रदायस् स्फुटं
श्रुति-स्मृति-गुरूक्तिभिर् नयवतीभिर् आभाति न
इति। न च सर्वेषां सत्-कर्मणां भगवद्-आराधनतया ऽनु।
समूर्तार्चन-गरिमा
संहितानां मुक्त्य्-उपायत्वे सति किं पृथक् प्रतिमाराधने नेति वाच्यम्। उक्तं हि प्रतिमार्चनस्याद्वारकाराधनतया श्रेष्ठत्वम्। किं च, श्री-शास्त्रे ज्ञान-काण्डे प्रकारान्तरेण चौत्कृष्ट्यम् उच्यते —
अन्यत्र त्वां समारोप्य यद्य् उपासा विधीयते,
स विधिः प्रच्युता ज्ञेया तव तत्त्वं तथैव च।
त्वयि सर्वं समारोप्य यद्य् उपासा विधीयते,
सा वृत्तिस् सकला ज्ञेया तव तत्त्वं तवैव हि॥
[[P10]]
इति। अग्नीन्द्रादौ भगवन्तं आरोप्य तद्-उपासनं नातीव मङ्गलम्। भगवति सर्वं समारोप्य तद्-उपासनं यत् तद् अतीव मङ्गलम् इत्य् अर्थः। [श्रु]
यत्र विश्वं भवत्य् एक-नीडम्, यस्मिन् देवा अधि विश्वे निषेदुः, ब्रह्मैव भूतानां ज्येष्ठं तेन को ऽर्हति स्पर्धितुम्। ब्रह्म-देवास् त्रयस्त्रिग्ंशत् ब्रह्मन्न् इन्द्र-प्रजापती। ब्रह्मन् ह विश्वा भूतानि नावीवान्तस् समाहिताः॥
“नारायणे भगवति तद्-इदम्” इत्य्-आदि-श्रुति-स्मृतिभ्य इति भावः। ननु
नव-विध-भक्ताव् अर्चनस्य प्राधान्यम्
श्रवणं कीर्तनं विष्णोस् स्मरणं पाद-सेवनम्।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम्॥
इति श्रवणादीनां मध्ये ऽर्चनम् अपि सामान्येन गृहीतं, कथम् अस्य श्रेष्ठ्यम्? इति चेद् उच्यते। तत्रापि तस्य प्राधान्याद् एव मध्ये निवेशनम्। श्रवणादीनि, चत्वारि पूर्वत्र, वन्दनादीनि चत्वारि परत्र चाभिहितानि। तानि तु पूजाङ्गानि। तेषां यथा तद्-अङ्गत्वोपपत्तिर्, न तथा तस्येतराङ्गत्वोपपत्तिः।
सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः।
नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते॥
इति भगवद्-वचने उपासत इत्य् अर्चनम् एवाभिधीयते। नमस्कारस्य तद्-अङ्गत्वे नैवोपपत्तेः। यतनं च तद्-उपयुक्त-पुष्पाद्य्-आहरण-रूपं युक्तम्। तद् एव पञ्च-काल-विदो उपादानम् इति वदन्ति। ननु —
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे ऽर्चयन्।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम्॥
इति कलि-युगे कीर्तनस्य सर्व-साधनत्वम् उक्तं, कथं तद्-अर्चनस्य? इति चेद् उच्यते, भागवते —
कलौ कृष्णं त्विषा कृष्णं साङ्गोपाङ्गास्त्र-पार्षदम्।
यज्ञैस् सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः॥
इति यजनाङ्गतया संकीर्तनम् उच्यते। अस्य व्याख्या-प्रकारः —
सङ्कीर्तन-प्रायैस् स्तोत्र-बहुलैर् यज्ञैर् अर्चनैर् यजन्ति
इति। भगवांश् च तथोपदिशति — “मद्-याजी मां नमस्कुरु” इति। एवं च प्रतिमार्चनम् एव सर्व-प्रधानम्। प्रतिमां विना यत् स्तोत्र-वन्दनादिकं क्रियते तद् भित्तिं विना चित्र-लेखनं भवति, न च।
[[P11]]
मानसिकार्चनस्य कृत-युग-विषयत्वम्
बाह्य-करण-व्यापारस्यैव प्रतिमापेक्षा, न त्व् अन्तःकरण-व्यापारस्य ध्यानस्येति वाच्यम्, तस्य निरालम्बनतया स्थिरत्वासम्भवात्। अत एवोच्यते —
एवं सदा ध्यातुम् अशक्यत्वात् प्रतिमादिष्व् आवाह्यार्चयेद्
इति — “सालम्बं सुगुणं श्रेष्ठम्” इति च। भगवांश् चाह —
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते
इति। अतो यद् उच्यते ऽव्यक्तोपासनं, तत् सर्वं कृत-युगे सम्भूतान् मासोपवासादि-व्रत-शक्तान् मनो-वशीकरण-चणान् प्रत्यभिहितम्। ते हि यावद् अस्थि तावत् प्राणवन्तः। हन्त! तेषाम् अपि दुस्साध्यम् अविच्छिन्न-ध्यानं मुक्त्य्-उपायं वाचा परं वदन्तो दैव-वञ्चिताः कलौ भगवन्तम् असमर्च्य पतन्ति मृत्यु-मुख इति वयं दूयामहे। अथवा तथा बुद्धिर् अपि भगवतैव देया। “ददामि बुद्धि-योगं तम्” इति हि तेनोच्यते। किं च, “ब्रह्मविद् आप्नोती"त्य्-आदि-श्रुतिषु ब्रह्मविदां ब्रह्म-प्राप्तिर् उच्यते। तत्राप्नोतेः ब्रह्मणः कर्मत्वं वक्तव्यम्। “कर्तुर् ईप्सिततमं कर्म” इति सूत्रम्। कर्तुः क्रियया ऽऽआप्तुम् इष्टतमं कर्म-संज्ञं स्याद् इति तद्-अर्थः। क्रिया द्विधा — अन्तःकरण-व्यापार-रूपा, बाह्य-करण-व्यापार-रूपा च इति। भगवत्-प्राप्ति-साधन-भूत-क्रिया जपादयः। तत्रापि प्रधान-भूता क्रिया भगवद्-अर्चन-रूपा। [श्रु]
अथ परा यया तद् अक्षरम् अधिगम्यते, यत् तद् अदृश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुश्-श्रोत्रं तद् अपाणि-पादं, नित्यं विभुं सर्व-गतं सुसूक्ष्मं तद् अव्ययं यद् भूत-योनिं परिपश्यन्ति धीराः
इति श्रुत्या ऽअक्षर-शब्द-वाच्य–ब्रह्म-प्राप्ति-साधनतया ऽअर्चन-क्रिया विधीयते। न च ययेति यच् छब्देन विद्यैव परामृश्यते, सा तु ज्ञान-ध्यानादि-रूपा वक्तव्या,
[[P12]]
अर्चन-क्रियावतां वरिष्ठत्वम्
कथम् अर्चन-रूपे?ति शङ्क्यम्। [श्रु]
क्रियावान् एष ब्रह्म-विदां वरिष्ठ
इत्य् अग्रे हि श्रूयते। ब्रह्मविदो नाम ब्रह्म-ज्ञान-ध्यानादि-पराः। तेषां च मध्ये क्रियावतां श्रेष्ठत्वम् उच्यते। अत्र क्रियावच्-छब्देन गृहीतास् तद्-व्यतिरिक्त-क्रिया-परा एव वक्तव्याः। अपि च क्रिया-शब्दो बाह्येन्द्रिय-व्यापार एव प्रायः प्रयुज्यते —
चरित-क्रिया-ज्ञान-योगेषु चतुर्षु पूजा-मार्गेष्व्
इति। श्री-शास्त्रे क्रिया-शब्देन केवलम् अर्चन-रूप-क्रियैवाभिधीयते; ज्ञान-योगयोः पृथग् ग्रहणात्। तथा भागवते —
क्रिया-योगं समाचक्ष्व भवद्-आराधनं विभो
इत्य् अर्चनम् एवानुयुज्यते। अतो निरुपाधिकः क्रिया-शब्दो बाह्य-करण-व्यापारे वर्तते। क्रियावान् इत्यतः पूर्वम् “आत्म-क्रीड आत्म-रतिः” इति वर्तते, तत्र आत्म-शब्देन परमात्मा नारायणो ऽभिधीयते। तस्मिन् रतिर् नाम भक्तिः, तेन क्रीडा नाम तेनार्चा-रूपेण विहारः, स चार्चनालङ्करण-वीथी-प्रदक्षिणादि-रूपः। क्रीडा हि बाह्य-साधन-सापेक्षा, रतिस् तु निरपेक्षा, तद्-उभय-क्रियावान् ब्रह्म-विद्-वरिष्ठ इति सुतराम् उपपद्यते। इत्थं च — केवलं ब्रह्म-ज्ञान–ध्यान-रताः ब्रह्म-विदः, जप-हुतार्चन-ध्यान-रता ब्रह्म-विद्-वरिष्ठाः, इत्य् अस्मद्-भाष्य-सिद्धान्तस् सज्जन-हृदयङ्गमः। भगवद्-आशयं च पर्यालोचयन्तु विद्वांसः। स हि “मन्-मना भवे"ति तैल-धारावद् अविच्छिन्न-स्मृति-सन्तान-रूपं ध्यानं विधाय
मद्-भक्तो मद्-याजी मां नमस्कुरु
इति भक्ति-रूप-मनो-व्यापारेण सह स्व-यजनं तद्-अङ्गतया नमस्कारं च बाह्येन्द्रिय-व्यापारं विधत्ते। तद्-उभय-विध-व्यापार एव परम-पद-प्राप्ति-साधन-क्रियेति परम-कारुणिकस्य वासुदेवस्याशयः। तथोपदिशति परम-भागवतो भीष्मस् स्व-सुहृदे धर्म-सूनवे —
तम् एव चार्चयन् नित्यं भक्त्या पुरुषम् अव्ययम्
इत्य्-आदिना। एताम् उत्तम-ब्रह्म-विद्यां साङ्गं भगवान् मरीचिश् श्री-शास्त्रे स्फुटं प्रतिपादयति। तथा हि — तत्र प्रथमं
तस्य भावस् तत्त्वं, तस्य परब्रह्मणः परमात्मनो नारायणस्य भावस् तत्त्वम्
[[P13]]
इत्य् आरभ्य निष्कल-सकल-स्वभावम् अभिधीयते। ततो ब्रह्मेशादीनां नारायणस्य च विस्फुलिङ्गानाम् अग्नेर् इवांशांशि-भावः कथ्यते। ततः परम-पुरुषस्येव लक्ष्म्या अपि पारम्यं, भगवल्-लोकस्य चातुर्विध्यं, वैकुण्ठ-लक्षणं च प्रतिपाद्यते। पश्चाद् आत्मनो देह-वैलक्षण्य-द्योतनाय देहोत्पत्ति-प्रकार–गर्भ-परिणाम-जन्मादिकम् उच्यते। तद् अनु नाडी–स्व-रूपं, हृदय-कमल-प्रकार–तद्-अन्तर्-ज्वलित-वह्नि-शिखा-मध्य-परमात्म-स्थित्य्-आदिकं प्रपञ्च्यते। अनन्तरं जीवात्म-कृत्य-पुनर्जन्म-हेत्वादिकम् ईर्यते। अथ मोक्षोपाय-भूत–चतुर्-विध–पूजा-मार्ग-माया-विमोचन-सालोक्यादि-प्रकारा निगद्यन्ते। पश्चाद् यमाद्य्-अष्टाङ्ग-योगं प्रतिपाद्य, मोक्षे भक्त्या भगवद्-अर्चनं परमोपाय इति सिद्धान्तः प्रदर्श्यते। सर्वथा भगवद्-आराधनं मुक्तेस् साधनतमम् इति विदां कुर्वन्तु सन्तः।
इति श्री-राम-भद्र-दास-दासस्य श्री-वैखानसात्रेय-कुल-तिलक–श्री-वरद-राज-सूरि-नन्दनस्य श्री-कृष्णाम्बिका-गर्भ-सम्भवस्य श्री-विखनसाचार्य-चरणारविन्द-स्मरण-जनित-श्रीमन्-नारायण-पारम्यावगमस्य सुन्दर-राजस्य कृतिषूत्तम-ब्रह्म-विद्या-सारे प्रथमो ऽधिकारः।
श्री-राम-भद्रः प्रीयताम्।
श्रीः
[[P14]]