उत्पत्त्यसम्भवाधिकरण-प्रारम्भः
पूर्व-पक्षः
उत्पत्त्यसम्भवात्. २-२-५३-३९ ॥
(प) साङ्ख्यवत् पाञ्चरात्रं किं
अप्रमाणं? न संशयः॥
इति।
विश्वास-टिप्पनी
पकारेण पद्यरूपः परामर्श उच्यते।
साङ्ख्यादिवत्, पाञ्चरात्र-तन्त्रम् अप्य् अप्रमाणम् उत, नेति संशयः।
अप्रमाणम् इति पूर्व-पक्षः।
(प) जीवोत्पत्त्य्-अभिधानेन,
वेद-निन्दाभिधानतः।
इति।
वासुदेवात्, सङ्कर्षणो नाम जीवो जायत
इति श्रुति-विरुद्ध-जीवोत्पत्त्यादि-प्रतिपादनात्,
“चतुर्षु वेदेषु पुरुषार्थम् अलभमान” इति वेदानादर-वचनाच् च
तद् अप्रमाणम् इति।
राद्धान्तस् तु -
(प)
सङ्कर्षणादि-जीवानाम्
अवतारत्व-कीर्तनात्।
विरोधो न क्वचिद् दृष्टो
वेदे ऽप्य् एतद् उदाहृतम्॥
निष्ठा-लाभ-प्रवचनं
होम-निन्दा-समं मतम्।
नातो विरोध-गन्धो ऽस्ति
प्रमाणं पाञ्चरात्रकम्॥
इति॥
सङ्कर्षण-प्रद्युम्नानिरुद्धानां पर-ब्रह्म-भावानाम्,
“अजायमानो, बहुधा विजायते" इत्य्-आदि-श्रुति-सिद्ध-स्वेच्छावतार-प्रतिपादनात्,
न क्वचिद् विरोधः।
“चतुर्षु वेदेषु पुरुषार्थम् अलभमान” इति चानुदित-होम-निन्दावत्।
“ऋग्वेदं भगवो ऽध्येमी”त्य् आरभ्य,
चतुर्षु वेदेषु विद्या-स्थानेष्व् आत्म-वेदनाभाव-वचनं वक्ष्यमाण-प्रशंसार्थम्।
तन्त्रे ऽस्मिन्
वेदान्तोदित-ब्रह्मोपासन-विधानाद्
वेदाविरुद्ध-तद्-अर्चनादि-विधानाच् चावगम्यते-
इति प्रमाणम् एव।
सूत्रार्थस् तु -
“न जायत” इत्य्-आदि-श्रुतेर् जीवस्योत्पत्त्य्-असम्भवात्, जीवोत्पत्ति-वचनाच् च न प्रमाणम् इति।
सुन्दरराज-दर्पणः
॥ उत्पत्त्यसम्भवात्. २-२-१३-३९ ॥
“न जायते म्रियते वा" इति जीवस्य जनन-मरण-निषेध-श्रुति-विरोधात्,
वेद-चतुष्टये पुरुषार्थ-प्राप्त्य्-अभावात्,
शाण्डिल्येन पाञ्चरात्राश्रयणस्य +उक्ततया वेद-निन्दा-प्रतिपादनाच्चेत्यर्थः॥
॥ न च कर्तुः करणम्. २-२-५३-४० ॥
[[P१९९]]
(प)
मनसः करणस्यास्माद्
उत्पत्तिर् न विरोधतः।
वाक्ये सर्वेश्वराद् अस्य
चोत्पत्ति-श्रवणाद् यतः॥
इति।
मनस् सङ्कर्षणात् प्रद्युम्न-सञ्ज्ञम् उत्पद्यते
इति मनसः करणस्य
जीवाद् उत्पत्तिश् च
श्रुति-विरुद्धत्वात् न सम्भवति।
“एतस्माज् जायते प्राणो
मनस् सर्वेन्द्रियाणि च"
इति मनसो ब्रह्मण उत्पत्तिः श्रूयते।
सुन्दरराज-दर्पणः
॥ न च कर्तुर् इत्यादि. २-२-५३-४० ॥
“सङ्कर्षणात् कर्तुः प्रद्युम्न-सञ्ज्ञं मन उत्पद्यते”
इति तत्राभिधीयते।
तच् च विरुद्धम् इत्य् अभिप्रायः॥
सिद्धान्तः
॥ विज्ञानादि-भावे वा तद्-अप्रतिषेधः. २-२-५३-४१ ॥
(प)
ब्रह्म-भावे सति, ह्य् एषाम्
अवताराभिधानतः।
प्रामाण्यस्य निषेधो न
पाञ्चरात्रस्य तत्त्वतः॥
इति।
वा-शब्दात् पक्षो विपरिवर्तते।
विज्ञानं चादिश् चेति विज्ञानादि- ब्रह्म।
सङ्कर्षणादीनां ब्रह्म-भावे सति,
अजायमान-श्रुत्या न विरोधः।
स्वेच्छावतारस्येहाभिधानात् तद्-अप्रतिषेधः।
सङ्कर्षणादीनां जीवादि-सामानाधिकरण्येन निर्देशस्
तेषाम् अधिष्ठातृतयोपपद्यते।
॥ विप्रतिषेधाच् च. २-२-५३-४२ ॥
(प)
जीवोत्पत्ति-निषेधात् तद्-
अविरुद्धम् इदं मतम्।
अत्रैव वेद-तुल्यत्वात्
प्रमाणं पाञ्चरात्रकम्॥
इति।
अस्मिन्न् अपि तन्त्रे जीवोत्पत्ति-विप्रतिषेधाच् चाविरुद्धम् इदं तन्त्रम्।
त्रि-गुणा+++(ः??)+++ कर्मिणां क्षेत्रं
प्रकृतेर् रूपम् उच्यते।
व्याप्ति-रूपेण सम्बन्धस्
तस्याश् च पुरुषस्य च।
स ह्य् अनादिर् अनन्तश् च
परमार्थेन निश्चित
इति पुरुषोत्पत्तिः प्रतिषिद्ध्यते।
“साङ्ख्य-योगं पाञ्चरात्रं
वेदाः पाशुपतं तथा।
आत्म-प्रमाणान्य् एतानि
न हन्तव्यानि हेतुभिः॥”
इत्य् अपि,
तत्-तद्-अभिहितं तत्-तत्-स्वरूप-मात्रम् अङ्गीकार्यम्।
जिन-सुगताभिहितवत् सर्वं न बहिष्कार्यम्
इति।
एवम् अस्माभिर् इव
पाञ्चरात्रस्य श्रीमन्-नारायणाराधन-प्रतिपादन-परतया
तत्-प्रतिषेधं सर्वथा नाङ्गीकुर्वाणैस्
तद्-अनुसारेण सूत्र-चतुष्टयं विवृतम्।
सुन्दरराज-दर्पणः
॥ विप्रतिषेध इत्यादि. २-२-५३-४२ ॥
अयं आशयः -
यद्यपि, भगवद्-रामानुज-प्रतिपादित-विधया पाञ्चरात्रे न दोष-सम्भवः;
तथाऽपि, तादृश-शङ्का-मात्रस्यापि विषयो ऽभूत् तच्-छास्त्रम्।
वैखानसं तु न तथेति॥
इति श्री-वैखानस-वेदान्त-देशिक-श्रीनिवासाध्वरि-विरचितायां श्री-विशिष्टाद्वैत-भाष्य-व्याख्यायां
निगम-चूडा-दर्पणाख्यायां द्वितीयाध्यायस्य द्वितीय-पादः समाप्तः।
श्री-वैखानस-गुरवे नमः।
केशवाचार्य-पक्षः
“अस्मत्-कुलाभिजन-श्री-केशवाचार्य-विरचितायां,
ब्रह्म-सूत्र-वार्तिकवृत्तौ चतुर्भिः सूत्रैः -
पाञ्चरात्र-मत-निराकरणार्थम् अधिकरणम् इदम्”
इत्य् उक्तम्।
तत्-पक्षे,
उत्तर-सूत्र-द्वयस्यार्थो ऽन्यथा बोद्धव्यः।
वैखानस-प्रशस्तिः
अनेनेदं चावगम्यते -
सर्व-विधयापि श्री-वैखानसं
श्रुति-विरोध-लेश-शङ्का-मात्रस्याप्य् अनास्पदम् इति।
यद्य् अस्ति दोष-शङ्कास्पदता,
“विष्णुं च पुरुषं सत्यम्
अच्युतं च युधिष्ठिर!
अनिरुद्धं च मां प्राहुर्
वैखानस-विदो जनाः॥”
इति महाभारते श्री-वैखानसोक्त-भगवन्-मूर्तिः +++(व्यासः)+++ कथयन्,
भगवान् बादरायणः तच्-छास्त्रे क्वचिद् दोषम् आशङ्क्य वा परिहरेत्।
शारीरक-शास्त्रे ऽस्मिन् न तथा दृश्यते।
अतः,
समस्त-श्रुति-विरोध-विधुरं श्री-वैखानसं वैदिकाराधन-प्रतिपादकम्
ऐहिकामुष्मिक-फल-साधनम्
इति निश्चीयते॥
इत्य् उत्पत्त्य्-असम्भवाधिकरणं समाप्तम्।
इति श्री-वैखानस-वेदान्त-देशिक–सर्व-तन्त्र-स्वतन्त्र–श्रीनिवासाध्वरीन्द्र–विरचिते वैखानसीये
श्री-विशिष्टाद्वैत-भाष्ये द्वितीयाध्यायस्य द्वितीय-पादः समाप्तः।
इत्य् उत्पत्त्य्-असम्भवाधिकरणं समाप्तम्।