+१ अयोग-व्यवच्छेदः

प्रथमाध्याये प्रथमः पादः ॥

श्रुत-प्रदीपिका

वरदं द्विरदाद्रिशेखरं
कमलाया दयितं दयानिधिम् ।
सकलार्थिजनार्थितप्रदं
प्रणमामि प्रणतार्तिहारिणम् ॥

श्रुत-प्रदीपिका

वेदान्त-सूत्र-भाष्यार्थम्
आचार्योपासनाच् छृतम् ।
तद्-गिरा दीपिकेवाहं
दर्शयिष्ये यथामति ॥

श्रुत-प्रकाशिका

वरदं द्विरदाद्राशं
श्री-निधिं करुणानिधिम् ।
शरण्यं शरणं यामि
प्रणतार्त्तिहरं हरिम् ॥ 1 ॥

वीरराघवः

श्रीः
वात्स्य-वीरराघवाचार्यकृता सुदर्शनसेवा॥

श्रीभाष्यकार-वेदान्त-
देशिकाद्य्-उज्ज्वलां भजे ।
गुरुपङ्क्तिं रमेशाद्यां
रङ्ग-रामानुजान्तिमाम् ॥

अद्भुतज्ञानविख्यात-
वरदार्य-दया-वशम् ।
व्यासं सुदर्शनार्यं तं
सुदर्शन-समं श्रये ॥

1 वरदमिति ।
वरदं द्विरदाद्रीशं श्रीनिधिं करुणानिधिं प्रणतार्तिहरम्
इति तत्रत्य-पञ्च-बेर-विवक्षयेति संप्रदायविदः ।
वरदम् इति स्वाचार्योऽप्य् अनु-संधीयते ।
द्विरदाद्रि-शिखर एव वेदान्त-प्रवचनं तत्-कृतं स्व-श्रुतञ्चेति ज्ञापनाय
द्विरदाद्रीशम् इत्यपि तद्विशेषणम् ।
अत एव स्वश्रीरङ्गनाथापेक्षयाऽप्यस्य प्रथमनिर्देशः ।

श्रुत-प्रकाशिका

बहिरर् अन्तस् तमश्-छेदि
ज्योतिर् वन्दे सुदर्शनम् ।
येनाव्याहत-सङ्कल्पं
वस्तु लक्ष्मीधरं विदुः ॥ 2 ॥

श्रुत-प्रकाशिका

सम्यङ् न्याय-कलापेन
महता भारतेन च ।
उपबृंहित-वेदाय
नमो व्यासाय विष्णवे ॥ 3 ॥

श्रुत-प्रकाशिका

तस्मै रामानुजार्याय
नमः परमयोगिने ।
यः श्रुति-स्मृति-सूत्राणाम्
अन्तर् ज्वरम् अशीशमत् ॥ 4 ॥

श्रुत-प्रकाशिका

वन्दे ऽहं वरदार्यं तं
वत्साभिजन-भूषणम् ।
भाष्यामृत-प्रदानाद् यः
सञ्जीवयति मामपि ॥ 5 ॥

श्रुत-प्रकाशिका

प्रपद्ये प्रणवाकारं
भाष्यं रङ्गम् इवापरम् ।
परस्य ब्रह्मणो यत्र
शेषित्वं स्फुटम् ईक्ष्यते ॥ 6 ॥+++(5)+++

वीरराघवः

2 प्रणवाकारमिति ।
रङ्ग-विमानस्य प्रणवाकारत्वं प्रसिद्धम् ।
तत्र शेषित्वं - शेष-शायित्वम् ईक्ष्यते ।
श्रीभाष्य अकारोपक्रमात मकारेणोपसंहारात्
प्रथमाध्याय-चतुर्थ-पादारम्भ-गत–उ-कार-मध्यमत्वाच् च प्रणवाकारम्
प्रणव इवात्र जीव-परयोः शेष-शेषि-भावः
नारायणे सर्व-शेषित्वं स्फुटमीक्ष्यते ।

श्रुत-प्रकाशिका

श्रुत्यन्तेषु श्रुतं भाष्ये
मतं ध्यातं हृदम्-बुजे ।
लक्ष्मीपतिं प्रपद्ये ऽहं
दृष्टं श्रीरङ्गधामनि ॥ 7 ॥

श्रुत-प्रकाशिका

प्रमाणं च प्रमेयं च
प्रमातारश् च सात्त्विकाः ।
जयन्तु क्षपितारिष्टं
सह सर्वत्र सर्वदा ॥ 8 ॥

श्रुत-प्रकाशिका

अ-विस्तृताः सु-गम्भीरा
रामानुज-मुनेर् गिरः ।
दर्शयन्तु प्रसादेन
स्वं भावम् अखिलं दृढम् ॥ 9 ॥

श्रुत-प्रकाशिका

श्रीरङ्गेशाज्ञया लब्ध-
व्यास-सञ्ज्ञं सुदर्शनम् ।
वाचो विजयिनः+++(=वाग्विजय-भट्टस्य)+++ पुत्रं
भाष्य-भक्तिर् अचूचुदत् ॥ 10 ॥

वीरराघवः

3 महाचार्यवंश्यकृते श्रीवेदान्त-देशिक-वैभव-प्रकाशिका-विशेषे,
श्रीरामप्-पिल्लै इत्याह्वय-वेदव्यासभट्ट-पौत्रः
‘नावाल्वेनान्’ इत्य्-आह्वयस्य पुत्रः
श्रीसुदर्शनाचार्यः
श्रीमद्-वात्स्य-वरदाचार्य-शिष्येष्व् अन्यतम इत्युक्तम् ।

श्रुत-प्रकाशिका

गुरुभ्योऽर्थः श्रुतः, शब्दैस्
तत्-प्रयुक्तैश् च योजितः
सौकर्याय बभुत्सूनां
सङ्कलय्य प्रकाश्यते ॥ 11 ॥

वीरराघवः

1 योजित इति । अस्मद्व्याख्यया प्रतिपाद्यमानः गुरुभ्यः श्रुतोऽर्थः उपदेशकाले तैरिवेहापि तत्प्रयुक्तशब्दयोगं लम्भितः । तच्छब्दानामपि यथार्ह स्ववाक्ये घटनं क्रियत इति यावत् । संकलय्येति । अनेकाध्यापनाऽऽवृत्त्यवसरेषु प्रोक्ता अर्था विभिन्नाः यथाई पौर्वापर्यकल्पनयाऽत्र समाहियन्त इत्युक्तं भवति ।

श्रुत-प्रकाशिका

कः कृत्स्नं वेत्ति भाष्यार्थं
श्रुतांश-स्थितये कृतिः ।
आढ्यैः काकणिकेवैषा
नोपेक्ष्या भाष्य-वित्तमैः ॥12 ॥ +++(4)+++

श्रुत-प्रकाशिका

भाष्यं चेद् व्यवृणोत् स्वयं यति-पतिर्, व्याख्यान-वाचां तथा
गाम्भीर्याद् अनवस्थितिर् मित-मतिर् दूरे जनस् तद्-गिराम् ।
प्रष्टव्यः कथम् ईश्वरः स हि न नः प्रत्यक्ष-रूपो दृशां
तद् भाष्यं स च भाष्य-कृत् स च हरिः सम्यक् प्रसीदन्तु नः ॥ 13 ॥

श्रुत-प्रकाशिका - भाष्यकार-प्रेरणा

सर्वेषां पुरुषाणां प्रमाणाधीन-प्रमेय-निश्चयानाम्
उपादित्सित-जिहासितेष्टानिष्ट–तत्-साधनानाम्

अ-लौकिक-पुरुषार्थे तत्-साधन-रूपे च वस्तुनि शब्दैक-समधिगम्ये,

तत्राप्य् अ-पुरुष-शेमुषी-दोष-मषी-मालिन्यस्य वेदाख्याक्षर-राशेर् एव
प्रधानतः प्रमाणतया आश्रयणीयत्वे सिद्धे,

तत्र च पशु-पुत्र-वृष्ट्य्-अन्न-स्वर्गाद्य्-ऐहिकामुष्मिकार्वाचीन-फल–तत्-साधन-परे ऽवगते पूर्वभागे +++(सति)+++,
परम-पुरुषार्थावबोधके च तद्-उपरिभागे,

पूर्वाचार्याभिमत-मुक्ति-घण्टा-पथ-कण्टकायमान-
विविध–कु-दृष्टि-जन–दुर्-वचन–शतोपप्लुते,
तद्-उपदर्शित–कु-पथ-प्रवृर्त्तिनि जगति च मोमुह्यमाने,

वीरराघवः

2 कुपथेति । नात्र पथिन्शब्दः; कापथेत्यापातात् । किंतु पथशब्द एवाकारान्त इति भावप्रकाशिका । कुशब्दो भूमिवाची सन् अधोलोकपरो वा । अतः कुपथः अधोगतिः । पाठान्तरं मृग्यम्

तद्-उज्जिजीवयिषया सद्–अ-सद्-विवेचन-चतुर-पूर्वाचार्यपरिचितं
प्राचीनम् एव समीचीनम् अध्वानं निष्कण्टकी कृत्य
परम-पुरुषार्थाभ्यर्थि-जन-सार्थं कृतार्थयितुं

भव-भयाभितप्त-जन–भाग-धेय–वैभव-भावितावतरणेन
परम-कारुणिकेन भगवता भाष्य-कारेण
शारीरक-शास्त्रं व्याचिख्यासितम्

वीरराघवः

3 भाष्यकारेणेति भाविनीं वृत्तिमाश्रित्य ; व्याख्याकारकाले तत्त्वस्य सिद्धत्वाद्वा । भगवद्रामानुजमुनिनेति यावत् ।

श्रुत-प्रकाशिका - आर्ष-वचन-ग्रहणम्

परम-र्षि-प्रणीतानि व्याख्येयानि,
तेषां च महर्षि-प्रणीतानि व्याख्यानानि च सन्ति चेत्
तान्य् एवानुरोद्धव्यानि
न ह्य् अन्-ऋषेः सूक्ष्म-दर्शित्वम्,
ऋषेर् अभिप्रायम् ऋषिरेव स्वतो वेदितुम् अर्हति
न तु जडमतिर् इतरो जनः ।

ऋषि-वचसाम् एवाभिन्न-वक्तृकाणां मिथो विरोधे
पूर्व-पक्षाभिप्राय–वैभव-वादादिभिर् अविरोधो नेयः
भिन्न-वक्तृकाणां तु विरोधे दुष्-परिहरे
“युक्ति-युक्तं ग्राह्यम्” इति न दोषः ।

ये पुनः सन्त्य् अपि
तान्य् अनादृत्य
व्याख्येयान्तराणि व्याख्यानान्तराणि च तद्-विरुद्धानि रुचयन्ति
तेषाम् आग्रह-गृहीत-हृदयत्वे पण्डित-मानित्वे पाण्डित्य-ख्यापन-परत्वे च
तत्-प्रवृत्तिर् एव प्रमाणम् ।

इतरेषां च व्याख्यातॄणाम् आर्ष-व्याख्यानातिलङ्घित्वम्

“उपासात्रैविध्यात्”
‘सर्वत्र प्रसिद्धोपदेशात्’
“भूमासम्प्रसादादध्युपदेशात्’
“दहर उत्तरेभ्यः’

इत्य्-आदिषु स्पष्टतरम्।
इह तु वृत्त्यनुसारः प्रतिज्ञातः ।

न च “तत्प्रतिज्ञानम् अ-हृदयम्” इति शङ्कनीयम्;
दुष्-परिहर-बाधकानुपलम्भात् ।

श्रुत-प्रकाशिका - ब्रह्म-सूत्रय् आरम्भः

यद्य् अपि कर्म-मीमांसायां च
क्वचित् क्वचिद् अर्वाचीन-व्याख्यातृभिर् आकुलत्वम् आपादितम्,
तथापि तत्र प्रयोग-मार्गे स्खलनाभावाद्
अनुष्ठान-मात्राधीनायाः स्वर्गादि-फल-सिद्धेर्
देवता–स्व-रूप–तद्-याथात्म्य–सत्-कार्य-वादादि-ज्ञान-नैरपेक्ष्यम्,

परम-पुरुषार्थस्य ज्ञानैकसाध्यतया
ज्ञान-मार्ग-स्खलनस्याऽऽत्महानि-फलकत्वेन
तद्-विपरीत-ज्ञानानाम् अवश्य-परिहर्तव्यत्वम्,

उत्तर-भागे च तत्-तद्-अर्थौपयिकतया प्रसक्तानां
पूर्व-भागार्थानां शिक्षणीयत्वम्,

प्रदर्शितयैव दिशा
अन्-उक्तानाम् अपि शिक्षणीयार्थान्तराणां सु-कर-निर्वाहत्वं चाभिप्रेत्य

ब्रह्म-सूत्राण्य् एव
भगवान् भाष्य-कारः प्रारभते विवरीतुम्

शास्त्रार्थसूचनगर्भितं मङ्गलाचरणम्

विश्वास-प्रस्तुतिः

अ-खिल-भुवन-जन्म-स्थेम-भङ्गादि-लीले
विनत-विविध-भूत-व्रात-रक्षैक-दीक्षे ।
श्रुति-शिरसि विदीप्ते ब्रह्मणि श्री-निवासे
भवतु मम परस्मिन् शेमुषी+++(=ज्ञानम्)+++ भक्ति+++(→स्मृति-विशेष)+++-रूपा ॥

विश्वास-टिप्पनी

ब्रह्मसूत्रगत-शब्दा अत्र प्रयुक्ताः प्रायेण - श्रीनिवास-शब्दादीन् विहाय।
अकारात् प्रारब्धव्यम्, मकारे समापनीयम्, मध्य उकारस् स्याद् इति प्रयुक्त अखिल-शब्दो निखिल-स्थाने।
पुनः सकल-शब्दः प्रायिकार्थच्छायावान् इति वर्जितः।

प्रथम-पादे प्रथम-द्वितीयाध्यायार्थो जगत्-कारणत्वम् अबाधितम्।
द्वितीये पादे तृतीयाध्यायार्थ उपायत्वम्।
तृतीये पादय् उपेयत्वम्।
चतुर्थे शाङ्करोक्त-शास्त्र-जन्य-ज्ञान-मात्राद् व्यावर्तनम्,
तृतीये च प्राप्यस्य चेश्वरत्वेनोक्तत्वाद् व्यावर्तनम् ।

Thibaut

MAY my mind be filled with devotion towards the highest Brahman, the abode of Lakshmi who is luminously revealed in the Upanishads; who in sport produces, sustains, and reabsorbs the entire Universe; whose only aim is to foster the manifold classes of beings that humbly worship him.

मूलम्

अखिलभुवनजन्मस्थेमभङ्गादिलीले
विनतविविधभूतव्रातरक्षैकदीक्षे ।
श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे
भवतु मम परस्मिन् शेमुषी भक्तिरूपा ॥

श्रुत-प्रदीपिका

प्रारिप्सितप्रबन्धस्याविघ्नपरिसमाप्तिप्रचयगमनार्थमिष्टदेवतोपासनलक्षणमङ्गलं श्रुत्याकुर्वन्नर्थं प्रतिपाद्यं संक्षेपतः श्रोतृबुद्धिसमवधानाय दर्शयति - अखिलेति । प्रथमेन पादेन प्रथमद्विकार्थसंक्षेपः, द्वितीयेन तूत्तरस्य । भवतीति भुवनं कार्यजातम् । कतिपयकारणचतुर्मुखादिव्यावृत्त्यर्थम् अखिल शब्दः । प्रायिकत्वनिवृत्त्यर्थं सकलेत्य नुक्तिः । अज्ञातं नास्ति इतिवदखिलेति व्यतिरेकोक्तिः । अकारोपक्रमत्वसिद्धये निखिलेत्यनुक्तिः । तस्य भगवद्वाचकत्वशक्तियोगात्तदविवक्षायामपि माङ्गलिकत्वमकारस्य । नञो मङ्गलेतरत्वं निषेध्यविशेषापेक्षया, न स्वतः । अत्र तु वैकल्यनिषेधेन पौष्कल्यपरत्वात् माङ्गलिकत्वमेव । जन्म त्रिविधम् । स्थेमा - अन्तर्यामिविष्ण्ववतारादिमुखेनैव करणीया विविधा स्थितिः । भङ्गः - नित्यनैमित्तिकप्राकृतरूपः । मोक्षस्य लयान्तर्भावेऽपि शास्त्रस्य प्रधानप्रयोजनतया विषयवत् पृथगेव वक्तव्यत्वादनेकार्थसाधारणेन शब्देन तमन्तर्भावयितुमयुक्तम् । अतो हि पूर्वाचार्याः पृथगूचुः - जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे जगदुद्भवस्थितिप्रणाश- संसारविमोचनादयः इति । आदि शब्देनानुप्रवेशनियमनधारणादि गृह्यते ; प्रदेशान्तरे जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादिलीलम् इति स्वेनैव कण्ठरवेणोक्तार्थस्वीकारस्यैवोचितत्वात् । अप्रमेयोऽनियोज्यश्च इत्याद्युक्तप्रकारेण सापेक्षत्वादिव्युदासाय लीला शब्दः । जनयितृत्वाद्यनुक्त्वा जन्माद्युक्तिरुपादानाभिप्राया ; बहु स्यां प्रजायेयेति इति हि श्रुतिः । लीला शब्देन निमित्तत्वं द्योतितम् । अवाप्तसमस्तकामस्य व्यापारानुपपतिं्त परिहरतानेन लीलाशब्देन द्वितीयलक्षणार्थश्च सूचितः । अथ द्वितीयद्विकार्थं संक्षिपति - विनतेति । विनतरक्षाप दाभ्यां तृतीयचतुर्थलक्षणार्थौ सूचितौ । विशेषेण नताः प्रह्वीभूताः उपासकाः ; तद्वैविध्यं तदुपर्यपि बादरायणः संभवात् इत्यादिवक्ष्यमाणप्रकारेण । भूताः ; भगवज्ज्ञानेन लब्धसत्ताकाः इति भावः ; अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति इति श्रुतेः । विनतभूतसंबन्धी व्रातो विनतभूतव्रातः । व्रात शब्देन आस्फोटयन्ति पितरः पशुर्मनुष्यः पक्षी वा इत्याद्यर्थोऽभिप्रेतः । रक्षा इष्टप्रापणानिष्टनिवारणलक्षणा । एक शब्दः प्राधान्यपरः अप्यहं जीवितं जह्याम् काममात्मानं भार्यांपुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् इति ह्युक्तम् । सा प्रधाना दीक्षा यस्य तत्तथोक्तम् । दीक्षा- शब्देनावर्जनीयत्वं गर्भितम्; एतद्व्रतं मम इति हि तदुक्तिः ।

अथ शास्त्रोपोद्धातचतुःसूत्र्यर्थमाह - श्रुतीति । ब्रह्मणो मानशून्यत्वान्यमानकत्वव्युदासेन शास्त्रारम्भणीयता हि तदर्थः । श्रुति शब्दः प्रमाणवैलक्षण्यं द्योतयति ; श्रूयते नित्यमिति हि श्रुतिः । शिरः शब्देनानन्यपरभागोक्तिः । विदीप्तिः विशेषेण दीप्तिः ; अग्न्यादिरूपेणकर्माराध्यताया अपि वेदान्तावगतत्वं ब्रह्मणः स्वतोऽनन्तपुरुषार्थत्वं चाभिप्रेत्य विशेषेण

दीप्तत्वमुक्तम् । ब्रह्मणीति सामान्यशब्दः । श्रीनिवास इति विशेषशब्दः । अत्र छागो वा मन्त्रवर्णात् इति न्यायोऽभिप्रेतः । श्रीनिवास शब्देन रूढितोऽवयवतश्च त्रिमूर्त्यैक्यसाम्योत्तीर्णत्वादिव्युदासो नित्यविभूतियोगश्च फलितः । परस्मिन्निति परमतः सेतून्मान इत्यत्र निर्णीतं प्राप्यत्वं विवक्षितम् । अथोपायोपेयात्मके प्रतिपाद्ये विनतपदसूचितमुपायांशं विशिनष्टि - शेमुषी भक्तिरूपेति । अत्रापि छागपशुन्यायोऽभिप्रेतः । पदद्वयेन धीकर्मसमुच्चयवाक्यार्थज्ञानमात्रोपायत्वव्युदासः । स्वनिकर्षाभिप्रायेणाह - ममेति ।

भवतु - फलान्तरादेतद्विषयोपायः स्वादुतम इति भावः ।

एवं परमविषयो दर्शितः । प्रयोजनं चात्रातिसंक्षिप्तम् ।
अथ स्वग्रन्थस्यावान्तरविषयं स्वव्याख्येयस्य व्याख्येयान्तराद् वैषम्यं च वदन्
संक्षिप्तं शास्त्रप्रयोजनं च विशदीकुर्वन्
व्याख्यानान्तरेभ्यः स्वग्रन्थस्य वैलक्षण्यं च दर्शयन्न्
अर्थात् गुरूपासनरूपं मङ्गलमाचरति - पाराशर्येति ।

श्रुत-प्रकाशिका - विघ्नवारणम्

एवं प्रारिप्सितस्य प्रबन्धस्याविध्नपरिसमाप्ति-प्रचय-गमनार्थं
स्मृत्याचार-सिद्धम् इष्ट-देवतोपासन-रूपं मङ्गलं श्रौतम् आचरति -
अखिलेत्यादिना श्लोकेन ।

मङ्गलाचारयुक्तानां
नित्यं च प्रयतात्मनाम् ।
जपतां जुह्वतां चैव
विनिपातो न विद्यते

इति हि स्मर्यते ।

वीरराघवः

1 स्मर्यत इति । मङ्गलाचारपदमविशेषात् आदर्शदर्शनादिनित्यकर्मणः कायिककार्यारम्भकर्तव्यविष्वक्सेनाराधानादेः वाचिकव्यापारात्मकग्रन्थारम्भकर्तव्यवाचिक देवतानमस्क्रियादिमङ्गलस्य च वाचकम् । न तु तत्त्वचिन्तामण्युक्तरीत्या आदर्शदर्शनाथाचारमात्रपरम् ; सर्वस्य प्रामाणिकत्वेनानुषादसंभवादिति भावः ।

श्रुत-प्रकाशिका - सङ्क्षेपः

आचार्यते च तत्-तत्-प्रबन्द्धृभिः,
श्रोतृ-बुद्धि-मनस्-समाधानार्थं शास्त्रार्थ-सङ्क्षेपश् चार्थतः क्रियते ।
यथा चोदनासूत्रेण धर्म-स्वरूपं प्रमाणञ् च श्रुत्य्-अर्थाभ्यां निरूपितम् ।
प्रसिद्धं हि श्रोतुः प्रतिपत्ति-सौकर्याय
वक्तुर् अर्थ-प्रतिपादनस्य सङ्क्षेप-पूर्वकत्वम् ।

इष्टं हि विदुषां लोके
समास-व्यास-धारणम्

इति “शास्त्रार्थ-सङ्क्षेपेण वस्तुनिर्देशो भवत्व्”
इत्य्-आशीर्वादश् च कृतौ भवतः ।

श्रुत-प्रकाशिका - विनत

“विनतेति’ “भक्तिरूपे’ति च ब्रह्मणि प्रह्वीभावावगमात्
प्रणतिर् अपि फलिता ।
णमु प्रह्वत्वे इति हि धातुः ।
एवं त्रिविधं मङ्गलमाचरितं भवति ।

श्रुत-प्रकाशिका - अध्याय-द्विकौ

श्लोकस्य प्रथमपादेन पूर्वस्याध्यायद्विकस्यार्थः सङ्क्षिप्तः । द्वितीयेन तूत्तरद्विकस्य ।
कर्ममीमांसायां प्रतिपाद्य-भेदेन षट्क-भेदवद्
अत्रापि विषय-विषयि-रूप-प्रतिपाद्य-भेदेन द्विक-भेदः ।
शास्त्र-प्रतिपाद्यम् उपायोपेयात्मकम् सिद्धोपाय उपेयञ्च ब्रह्म ।
साध्योपायो भक्तिः ।

ब्रह्म-भुवने

तत्र सप्तम्य्-अन्तैः पदैः
सिद्धोपाय-रूपम् उपेयञ् च ब्रह्मोच्यते ।

भवतीति भुवनं कार्य-वर्गः ।
रूढि-शक्त्या तत्-कारणस्य कुलालादितो व्यावृत्तिः ।
भुवन-शब्दो हि विपुलतर-कार्य-विशेषे रूढः ।

श्रुत-प्रकाशिका - अखिल

अखिलशब्देन सर्वदेशसर्वकालवर्तीन्यण्डजातानि विवक्षितानि तेन ब्रह्मादि-व्यावृत्तिः ।
खिलं नास्तीत्यखिलं
कार्येषु ब्रह्मणः सृष्ट्य्-आदि-व्यापाराविषय-भूतं
न किञ्चिद् इत्य् अर्थः ।
अनया व्यतिरेकोक्त्या प्रायिकत्वनिवृत्तिः ।
“अज्ञातं नास्ति ते किञ्चिदि’तिवत् ।
अतः सकलम् इत्य् अन्वयमुखेनानुक्तिः ।

अकारोपक्रमत्वसिद्धये निखिलेत्यनुक्तिः ।
“अ” इति भगवतो नारायणस्य प्रथमाभिधानं भगवतो वाचकम्,

अकारं प्रयुञ्जानेन
किन् नाम मङ्गलं न कृतम्

इति चाभियुक्तैरभ्यधायि ।
अत्र भगवद्-वाचित्वाविवक्षायाम् अपि
भगवद्-वाचकत्व-शक्ति-योगाद्
अ-कारो माङ्गलिकः +++(4)+++
“अइउण्” इत्यत्राकारवत् ।

वीरराघवः

1 अ इति भगवत इति वाक्यं भर्तृहरिग्रन्थस्थम् ;
ग्रन्थश्च महाभाष्यप्रदीपिका ।
वाक्यमिदं भाष्ये अथशब्दानुशासनमिति अकारम्,
अइउण् इति अकारनाभिप्रतीत्यपि मन्यन्ते ।
‘अइउण्’ इत्यत्राकारवत् इति समनन्तरवाक्यम्
अत्र टीकायाम् अक्षर-समाम्नाय-अकार-ग्रहण-बाधकमिव ।

नञो निषेध-वाचित्वेऽपि -
निषेध्य-वशाच् छुभत्वाशुभत्वे,
अतो ‘निष्-प्रत्यूहम् उपास्मह’ इत्य्-आदि-निर्देशस्येव शुभतरत्वं,
वैकल्य-निषेधेन पौष्कल्य-परत्वात् ।

+++(बहुत्वस्य भेदगर्भतया)+++ अखिल-शब्देन चिद्-अचिद्-भेदोऽप्य् अभिप्रेतः ।

श्रुत-प्रकाशिका - जन्म-स्थेम-भङ्गाः

“जन्म’ नित्यनैमित्तिक-प्राकृतरूपं,

1"स्थेमा’ स्थितिः ।
सा चान्तर्यामि-विष्ण्व्-अवतार-
लोकपाल-मन्वादि-नृप-
माता-पित्रादि-मुखेन क्रियमाणा बहुविधाविवक्षिता ।

“भङ्गः’ । नित्य-नैमित्तिक-प्राकृतरूपः+++(=??)+++ ।
मोक्षस्य लयान्तर्भवे ऽपि
शास्त्रस्य परमप्रयोजनत्वादत्र स नान्तर्भावितः ।
अत एवादि-शब्देऽपि नान्तर्भाव्यः ।
तस्य साधारणतया स्फुट-प्रतिपत्ति-हेतुत्वाभावात् ।

पृथग् एव हि पूर्वश् च स्पष्टतरं निर्दिष्टो मोक्षः +++(रक्षा-पदेन)+++।
“जगद्-उद्भव-स्थिति-प्रणाश–संसार-विमोचनादयः’ इति ,
“जगज्-जन्म-स्थिति-ध्वंस–महानन्दैक-हेतव’ इति च भगवान् भाष्यकारश्च तथा निर्दिशति ।
यथा वेदार्थसङ्ग्रहे “उद्भवस्थितिप्रलय–संसार-निवर्त्तनैकहेतुभूत’ इति,
भाष्ये च “निखिलगजद्-उदय-विभव-लय–महानन्दैककारण’मिति।

‘विनते’त्य्-आदि-पदेन स्थेमान्तर्भूत-स्वर्गादि-संसारिक-फल-प्रदत्वस्य पृथग्-उक्तिर् अन्-अपेक्षिता ।
शास्त्रासाधारणस्य परम-प्रयोजनस्य मोक्षस्यैव हि पृथग्-उक्त्य्-अपेक्षा ।

श्रुत-प्रकाशिका - मङ्गलाचरण-भाष्यता

ननु,

“सूत्रार्थो वर्ण्यते यत्र
वाक्यैः सूत्रानुकारिभिः ।
स्वपदानि च वर्ण्यन्ते
भाष्यं भाष्यविदो विदुः "

इति हि भाष्यलक्षणम् ।

अतः सूत्र-व्याख्यान-रूपत्वाभावाद्
अखिलेत्यादिकं न भाष्यान्तर्भावि

इति चेन् न –

सूत्र-तात्पर्यार्थ-परत्वात् भाष्यान्तर्भाव्य् एव ।
सूत्रतात्पर्यार्थ-परत्वं च श्लोक-व्याख्याने स्पष्टम् ।

किञ्च मङ्गलाचरणं प्रारिप्सितग्रन्थाविघ्न-परिसमाप्त्याद्य्-अर्थतया
तद्-उपयोगीति तदन्तर्भाव्य् एव ॥

श्रुत-प्रकाशिका - मङ्गलाचरण-योग्यता

शाबर-शाङ्करादि-भाष्येषु नमस्कारादर्शनाद्
अत्र नमस्कार-कथनम् अयुक्तम्

इति चेन् न;

“नमः प्रवरगुणैकास्पदाय”
इति द्रमिडभाष्ये देवता-गुरु-नमस्-कार श्रवणात् ।
शाबर-शाङ्करयोस् तु
ईश्वरानभ्युपगमात् जीव-ब्रह्म-भेदानभ्युपगमाच् च नमस्यानादरः ।

अत्र तु सिद्धान्तानुरूप्यात्
नमस्या अत्यन्तोपपन्ना ।
शाङ्करग्रन्थोपक्रमे च
व्याख्यातृभिर् नमस्-काराद्य्-अभावात् कु-ग्रन्थत्वम् आशङ्कय,
युष्मद्-इत्य्-आदि-ग्रन्थेन प्रत्यग्-अर्थानुसन्धानेनार्थान् मङ्गलाचारः कृतः इति परिहृतम् ।

भाष्यप्रणयनप्रयोजनम्

विश्वास-प्रस्तुतिः

पाराशर्य+++(=व्यास)+++-वचस्-सुधाम् उपनिषद्-दुग्धाब्धि-मध्योद्धृतां
संसाराग्नि-विदीपन–व्यपगत-प्राण+++(→ब्रह्म-सम्बन्ध)++++आत्म–सञ्जीवनीम् ।
पूर्वाचार्य-सुरक्षितां बहु-मति-+++(परस्पर-)+++व्याघात-दूरस्थिताम्
+++(गायत्र्याऽमृतम् इव)+++ आनीतां तु निजाक्षरैः +++(न तु स्वाभिप्रायारोपणेन)+++ सु-मनसो भौमाः +++(सन्तोऽमृत-वञ्चिता अपि)+++ पिबन्त्व् अन्वहम् +++(न त्व् अमृतवत् सकृत्)+++ ॥

Thibaut

The nectar of the teaching of Parāsara’s son (Vyāsa),–which was brought up from the middle of the milk-ocean of the Upanishads–which restores to life the souls whose vital strength had departed owing to the heat of the fire of transmigratory existence–which was well guarded by the teachers of old–which was obscured by the mutual conflict of manifold opinions,–may intelligent men daily enjoy that as it is now presented to them in my words.

मूलम्

पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृतां
संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम् ।
पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थिताम्
आनीतां तु निजाक्षरैः सुमनसो भौमाः पिबन्त्वन्वहम् ॥

श्रुत-प्रदीपिका

व्यासस्यैव बादरायणत्वं श्रुतिसिद्धम् । जन्मतः प्रकर्षं च सूचयति पाराशर्यशब्देन । वचः- शब्दोऽर्थपर्यन्तः, वेदवित् इत्यत्र वेदशब्दवत् । वचसः सुधामिति निर्वाहे रूपकप्रकरणानौचित्यं सुधाशब्दामुख्यत्वं च । अमृतत्वहेतुत्वात् सुधात्वरूपणम् । पूर्वभागादप्यव्यवधानेन ब्रह्मप्रतिपादनरूपा सेत्यभिप्राय उपनिष च्छब्दः । उपनिषदां वेदसारत्वाभिप्रायो दुग्धशब्दः ; यथा आरण्कं च वेदेभ्य ओषधीभ्यो यथामृतम् इति । अब्धि शब्द आनन्त्यपरः । मध्य शब्देन सर्वश्रुतिमुख्यत्वमभिप्रेतम्, मध्यस्य सर्वप्रदेशानुगुण्यात् । अनेन स्वव्याख्येयस्य प्रमाणमूलता अवान्तरविषयश्च दर्शितौ । उद्धृतशब्देनातिनिम्नदेशनिमग्नोद्ग्रहणमभिदधता निःशेषार्थग्रहणं सूचितम् । परम प्रयोजनमाह - संसारेति । संसारस्याग्नित्वं तापत्रयात्मकतया । तत्राप्यवान्तरभेदं विद्यालब्धेः पूर्वं कदाचिदप्यनिर्वाप्यत्वं वैविध्यमनुपरतत्वं च द्योतयति विदीपन शब्दः । अनादिकालं बहुमुखश्रवणादिष्वन्यतमप्रकारेणालब्धपरमात्मानो व्यपगतप्राणाः । प्राणाः परमात्मा, प्राणमेवाभिसंविशन्ति इति श्रौतप्रयोगात् । संजीविनीम् इति परममोक्षहेतुत्वं विवक्षितम् । स्वग्रन्थस्य सत्संप्रदायमूलकतामाह - पूर्वेति । आर्थं गुरूपासनं चैतत्कीर्तनमुखेनात्र कृतम् । शंकरादिव्युदासाय पूर्वशब्दः । सुरक्षिताम् न परमुपदेशेन, ग्रन्थनिर्माणेनापीति भावः । तर्हि सा किमिति न प्रथितेत्यत्राह - बहुमतीति । बहूनां या मतयः तासां व्याघातो मिथो विरोधः, तेन दूरस्थिताम् । न यथावदप्रतिपत्तिमात्रम्, अन्यथा च प्रतिपत्तिरभूदिति भावः । तुशब्दः स्वग्रन्थवैषम्यपरः ।
सुधासमाख्यानुगुण्याय ममाक्षरैरित्यनूक्तिः ; गायत्र्यवयवामृताक्षरैर् इत्यर्थः । सुमनसः ; सारासारविवेकादिविचक्षणाः । भौमाः ; अधीत-साङ्ग-सशिरस्-कवेदाः श्रुतकर्ममीमांसा भूलोकवासिनः । देशकालान्तरादिषु वृत्त्यादिसाफल्यमिति भावः । पिबन्तु ; सुधापानवदस्य श्रवणाद्यपि सुखरूपम् इत्यर्थः । अन्वहम् ; भोग्यतातिशयात् गभीरत्वाच्च ।

प्रतिज्ञा

विश्वास-प्रस्तुतिः

भगवद्-बोधायन-कृतां विस्तीर्णां +++(काश्मीरं गत्वा पठित्वा स्मृतां ३२१०^५ अक्षरमयीं)+++ ब्रह्म-सूत्र-वृत्तिं
पूर्वाचार्यास् संचिक्षिपुस्,
तन्-मतानुसारेण सूत्राक्षराणि
+++(सङ्क्षेप-विस्तारयोर् मध्यमा यथा तथा)+++ व्याख्यास्यन्ते ।

विश्वास-टिप्पनी

शङ्करार्यस् तु “(अस्मन्-मतं) वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः” इति बहुवचनेन वदति, स्व-मतं च पुरस्करोतीति व्यावृत्तिः।

Thibaut

The lengthy explanation (vr̥tti) of the Brahma-sūtras which was composed by the Reverend Bodhāyana has been abridged by former teachers; according to their views the words of the Sūtras will be explained in this present work.

मूलम्

भगवद्-बोधायन-कृतां विस्तीर्णां ब्रह्म-सूत्र-वृत्तिं
पूर्वाचार्यास् संचिक्षिपुस्,
तन्-मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ।

श्रुत-प्रदीपिका

पूर्वाचार्यग्रन्थाः प्रवर्त्यन्ताम् ; किं ग्रन्थान्तरनिर्माणप्रयत्नगौरवेणेत्यत्राह - भगवदिति । पूर्वाचार्यशब्दोऽत्र विवृतः । शङ्करादिभ्योऽपि ज्ञानाधिक्यपरो भगव च्छब्दः । द्रमिडाचार्यादिग्रन्थोऽतिसंक्षिप्तः । तन्मतानुसारेण ; न तु स्वोत्प्रेक्षया । सूत्राक्षराणि ; प्रकृति प्रत्ययानुगुण्येन ; न तु यथाकथंचिद्योजयितव्यानीति भावः । व्याङ्भ्यामुपसर्गाभ्यामपेक्षितविस्तरानपेक्षितसंकोचौ विवक्षितौ । व्याख्येयं पदम् उपादत्ते - अथेति ।